________________
न्यायायमजूमा"
- २/५४, ५५]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । ॥२।२।९०॥ इति षष्ठीनिषेधात् । नास्त्यत्र शीलाद्यर्थ इत्यपि न वाच्यम् । तं विना मनुष्यखादनशीलवृकोपमाया अनुपपत्तेः ॥ ५३ ॥
त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ ५४ ॥ यत्रोत्सर्गरूपायास्त्यादिविभक्तेविषयेऽपवादरूपा त्यादिविभक्तिरागच्छन्ती स्यात्तत्र तद्विषय औत्सर्गिकी त्यादिविभक्तिः "असरूपोऽपवादे-" ॥५१॥१६॥ इत्यनेन प्राप्ताऽप्येतन्यायेन निषिध्यते । यथा स्मरसि चैत्र कश्मीरेषु वत्स्याम इत्यादौ "अयदि स्मृत्यर्थे भविष्यन्ती" ॥५।२।९॥ इति भविष्यन्ती । तद्विषये "अनद्यतने शस्तनी" ॥५।२७॥ इति ह्यस्तनी तु प्राप्ताऽपि न स्यात् । अन्योऽन्यम् इति वचनाच्च त्यादिविभक्तीनामेवान्योन्यमसरूपोत्सर्गविधिनिषिध्यते । प्रत्ययेन तु समं त्यादिविभक्तीनां सोऽस्त्येव । तेन उपशुश्रावेत्यादौ "श्रुसदवस्भ्यः परोक्षा वा" ॥५।२।१। इति परोक्षावत्तद्विषय उत्सर्गभूताः क्तादयोऽपि स्युरेव । यथा उपश्रुतः; उपश्रुतवानित्यादि ।
आसादकं चास्य "श्रुसद-" ॥५॥२॥१॥ इत्यत्र वाग्रहणम् । तद्धि पक्षे यथास्वकालमद्यतनीयस्तन्यर्थम् । ते चैतन्यायाभावेऽसरूपत्वात्सिद्ध एवेत्यतः किमिति तदर्थं वाग्रहणं क्रियेत । यदि परमेतन्यायसद्भावात् "श्रुसद-" ॥५।२।१॥ इति परोक्षया औत्सर्गिक्यावद्यतनीह्यस्तन्यौ बाधिष्येते इत्याशङ्कय पक्षे यथास्वकालं ते अपि स्तामितिबुद्ध्या "श्रुसद" ॥५।२।१॥ इति सूत्रे वाग्रहणं सफलम् ।
अनित्यस्तु नायम् । “असरूपोऽपवादे वोत्सर्गः प्राक्तेः" ॥५।१।१६॥ इति सूत्र-स्यापवादाविमौ ॥ ५४ ॥ - स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ५५ ॥
स्त्रीति, स्त्र्युक्तप्रत्ययाः क्त्यादयाः । अन इति चानट् प्रत्ययः । “असरूपोऽपवादे" ॥५॥१॥१६॥ इत्यनेन प्राक्तेरिति वचनात् "स्त्रियां क्तिः" ॥५।३।९१॥ इत्यतः प्राग् ये कृत्प्रत्ययास्तेषु पाक्षिकोऽसरूपविधिर्व्यवस्थापितस्तदग्रेतनप्रत्ययानां तु स्पर्द्ध सति व्यवस्थार्थोऽयं न्यायः । यथा चयनं चितिरित्यादौ "स्त्रियां क्तिः" ॥५।३।९१॥"युवर्णवृदृवशरणगमद्ग्रहः" ॥५।३।२८॥ इत्याभ्यां क्रमात् स्त्र्यलोः प्राप्तौ परत्वात् स्त्र्येव । दुःखेन चीयते दुश्चयमित्यादौ "दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल्" ॥५।३।१३९॥ "युवर्ण-" ॥५॥३।२८॥ इत्याभ्यां क्रमात् खललोः प्राप्तौ परत्वात् खलेव । पलाशानि शात्यन्तेऽनेनेति पलाशशातनो दण्ड इत्यादौ "करणाधारे" ॥५॥३॥१२९॥ "युवर्ण-" ॥५॥३।२८॥ इत्याभ्यां क्रमादनडलोः प्राप्तौ परत्वादनडेव । तथा दुःखेन भिद्यते इति दुर्भेदा भूरित्यादौ "स्त्रियां क्तिः" ॥५॥३।