________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/५६ - ८१॥ "दुःस्वीषतः-" ॥५॥३।१३९॥ इत्याभ्यां क्रमात् स्त्रीखलोः प्राप्तौ परत्वात् खलेव । सक्तवो धीयन्तेऽस्यामिति सक्तुधानी इत्यादौ "स्त्रियां क्तिः" ॥५।३।९१॥ "करणाधारे" ॥५।३।१२९॥ इत्याभ्यां क्रमात् स्त्र्यनटोः प्राप्तौ परत्वादनडेव । "स्पर्द्ध" ॥७।४।११९॥ इति परिभाषायाः प्रपञ्चोऽयम् ।
स्थापकं चास्यैषां व्यवस्थायै यत्नान्तराकरणम् ।
जय्यश्चायम् । तेन जय इत्यादौ "स्त्रियां क्तिः" ॥५।३।९१॥ "युवर्ण-" ॥५।३।२८॥ इत्याभ्यां क्रमात् स्त्र्यलोः प्राप्तावलेव । शिरसोऽर्दनं शिरोऽर्त्तिरित्यादौ च अर्दतेः 'स्त्रियां क्तिः" ॥५।३।९१॥ "अनट्' ॥५॥३।१२४॥ इत्याभ्यां क्रमात् स्त्र्यनटोः प्राप्तौ स्त्र्येव ॥ ५५ ॥
यावत् संभवस्तावद्विधिः ॥ ५६ ॥ यथाप्राप्तस्य सूत्रस्य न्यायस्य वा यावतो वारान् प्रवृत्तेः संभव इति कोऽर्थ अव्याहता प्राप्तिः स्यात्तावतो वारांस्तस्य प्रवृत्तिः कार्यैव । न त्वेकवारमस्य प्रवृत्तिः कृतेति बुद्धयाऽधिकवारं संभवे सत्यपि तत्प्रवृत्तिर्न क्रियत इति । यदा च संभवो व्याहतस्तदनु तत्प्रवृत्तिर्न कार्यैवेत्यस्यार्थस्य ख्यापनार्थोऽयं न्यायः ।।
तत्र सूत्रस्य यथा । त्वक् इत्यादौ प्रथमं विरामे परे "अदीर्घात्-" ॥१३॥३२॥ इत्यनेन कस्य द्वे रूपे क्रियेत । यथा त्वक् । पुनरनेनैव एकव्यञ्जने परे सूत्रप्रवृत्तेः संभवस्य सद्भावादाद्यकस्य द्वे रूपे क्रियेते । यथा त्वक्क्क् । ततः परं तु मध्यमकस्य "धुटो धुटि स्वे वा" ॥१।३।४८॥ इति लुकि पुनराद्यकस्य "अदीर्घात्-" ॥१।३।३२॥ इति द्वे रूपे प्राप्तुतः परं न क्रियेते । तथाकरणे क्रियाऽनुपरमप्रसङ्गाद् यं विधि प्रति० इति न्यायेन व्यर्थविधिनिषेधेन प्रवृत्तेः संभवस्य व्याहतत्वात् । तथा चेतुमिच्छति चिकीषतीत्यत्र परत्वात् प्रथमं चे: "स्वरहन्गमोः सनि धुटि" ॥४।१।१०४॥ इति दीर्घ ततः क्यादेशे कृते पुनः केर्दीर्घः ॥ न्यायस्य यथा । ब्रूगः कृतवचादेशस्य प्रण्यवोचतेत्यादौ भूतपूर्वकन्यायस्य प्रथमवारं प्रवर्त्तनेन वोचस्य वचत्वोपचाराद्वितीयवारं प्रवर्त्तनेन च वचस्यापि ब्रूत्वोपचारात् तस्मिन् परे "अकखादि-" ॥२॥३८०॥ इत्यनेन ने! णः । नन्वत्र भूतपूर्वन्यायस्य द्वे अपि प्रवृत्ती किमर्थं क्रियेते; वोच एव हि परे नेर्णः करिष्यते । मैवम् । वोचस्य धातुष्वपठितत्वात् । “अकखादि-" ॥२।३।८०॥ इत्यत्र च पाठविषयस्यैव धातोर्ग्रहणात् ।
ज्ञप्तिकृत्त्वस्य "वृत्सकृत्" ॥४।१।१०२॥ इति सूत्रम् । तद्धि व्यग् संवरणे इत्यस्य 'आत्सन्ध्यक्षरस्य" ॥४।२।१॥ इति कृतात्वस्य क्ये संवीयते इत्यांदावेकवारं "यजादिवचेः किति" ॥४।१७९॥ इत्यनेन या इत्यस्य वृति वि इति जाते पुनस्तस्य