________________
- २/५७, ५८]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । एकदेशविकृतन्यायेन यजादित्वस्यैव सद्भावाद् "यजादि-" ॥४।१७९॥ इत्यनेन प्राप्तय्वनिषेधाय कृतम् । यदि चायं न्यायो न स्यात्तदैकवारं य्वृत्सूत्रं प्रवृत्तमिति कृत्वा द्वितीयवारं प्रवृत्तिसंभवेऽव्याहतेऽपि प्रागेव चरितार्थीभूतत्वात् स्वयमेव न प्रवर्त्यतीत्यतः किमर्थं "य्वत् सकृत्" ॥४।१।१०२॥ इति सूत्रं क्रियेत; यत्तु कृतं तदेतन्यायारेकयैवेति ।
अनाग्रहितां पुनरस्य न क्वाप्यवगृह्णीमः ॥ ५६ ॥ __संभवे व्यभिचारे च विशेषणमर्थवत् ॥ ५७ ॥
यत्र विशेष्ये विवक्षितविशेषणस्य न संभवो नापि संभवासंभवरूपो व्यभिचारस्तत्र तद्विशेषणोपन्यासो व्यर्थत्वान्न कार्य इत्यर्थः । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते इति न्यायस्य प्रपञ्चोऽयं न्यायः । अनेनापि व्यर्थविशेषणोपन्यासविधेरेव निषिध्यमानत्वात् । यथा "तौ मुम-" ॥१।३।१४॥ इत्यत्र ‘पदान्त' इति विशेषणं म्वागमस्य न योज्यते; असंभवात् । मस्य तु योज्यते । त्वन्तरसीत्यादौ संभवेन, रंरम्यत इत्यादावसंभवेन च पदान्तस्थत्वस्य व्यभिचारत्वात् । ।
संभावकं चास्य तत्रैव सूत्रे स्वौ इति । तथाहि । स्वाविति विशेषणं तावद् द्विवचनेनानुस्वारस्यानुनासिकस्य च संबन्धितम् । तत्र चानुस्वारः कस्यापि स्वो न स्यादित्यतस्तस्यैतद्विशेषणमसंभवि । अनुनासिकस्तु स्वोऽप्यस्वोऽपि च स्यादित्यतः संभवित्वाद् व्यभिचारित्वाच्चैतन्यायेन तस्यैवैतद्विशेषणं सार्थकम् । एवं च सति स्वाविति विशेषणमनुनासिकस्यैव निर्देष्टुं युक्तम् । तथापि यद् द्विवचनेनोभयोरपि निर्दिष्टं तदुभयोः सम्बन्धनेऽप्येतन्यायात् स्वयमेवानुनासिकस्यैव संभन्स्यते इत्याशयैव ।
. अस्य च व्यभिचारित्वाद द्वे ब्रह्मणी वेदितव्ये इत्यादौ द्विवचनप्रयोगान्यथाऽनुपपत्त्या ब्रह्मणोद्धित्वव्यभिचाराभावेऽपि द्वे इति विशेषणम् ॥ ५७ ॥
. सर्वं वाक्यं सावधारणम् ॥ ५८ ॥
एवस्याप्रयोगेऽपि सर्ववाक्येष्वेवोऽवधारणार्थो लभ्यते इत्यर्थः । “सिद्धिः स्याद्वादात्" ॥१।१।२॥ इत्युक्त्या सर्वत्र स्याद्वादाश्रयणे प्रसक्तेऽपि क्वचिदेव स्याद्वादः श्रयितव्यो न तु सर्वत्रेति ख्यापनार्थोऽयं न्यायः । यथा “समानानां तेन-" ॥१।२।१॥ इत्यत्र दीर्घः स्यादेवैति वाक्यस्यावधारणाद् दण्डाग्रमित्यत्र दीर्घोऽभूदेव । .. ज्ञापकं तु "ऋतृति इस्वो वा" ॥१।२।२॥ इत्यादौ विकल्पोक्तिस्तथाहि । एतन्यायाभावे तावत् हुस्वः स्यादित्येतावत्युक्ते हुस्वः स्याच्च न स्याच्च । “विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने" ॥५।४।२८॥ इति सूत्रेण कामचारेऽपि सप्तम्या विहितत्वात् ।