________________
न्यायसङ्ग्रहस्य
[ न्या. सू. २/५९, ६० तथा च विकल्पोक्तिं विनाऽपि स्वयं द्वैरूप्यसिद्धेः किमर्थं विकल्पं कुर्यात् । परं ह्रस्वः स्यादित्यप्युक्त एतन्न्यायाद् ह्रस्वो नित्यमेव भविष्यतीत्याशङ्क्य विकल्पार्थं वेति वचनं सफलम् ।
11
उपलक्षणत्वात् क्वचित् पदमपि सावधारणम् । यथा " लुगस्यादेत्यपदे" ॥२।१।११३॥ इत्यत्राऽपदे एवेत्यपदादिस्थ एवादेति परे इत्यवधारणाद्दण्डाग्रमित्यत्र " वृत्त्यन्तोऽस ॥ १।१।२५॥ इति वृत्त्यन्तस्य पदत्वनिषेधेनाग्रशब्दस्य पदत्वाभावात्तस्याकारे परे प्राप्तोऽप्यल्लुग्न स्यात् । यतोऽग्रशब्दस्य यद्यपि वृत्त्यवस्थायां वृत्त्यन्तत्वाद् “वृत्त्यन्तोऽसषे” ॥१।१।२५॥ इत्यनेन पदत्वनिषेधात्पदत्वं नास्ति; परं यदा वृत्तेः पूर्वं पदत्वमासीत्तदाऽयमकारः पदादिस्थोऽप्यासीदित्यतोऽपदादिस्थ एवेत्यवधारणं भग्नमिति । यस्त्वेकान्तेनापदादिस्थ एवाकारस्तस्मिन् परे " लुगस्य - " ॥ २ । १ । ११३ ॥ इत्यल्लुक् स्य । पचन्ति । अत्र शवोऽकारस्याऽन्तिस्थेऽकारे परे लुक् ।
आपादिका चास्यापद इत्यनवधारणोक्तिः । सा ह्येतन्यायात्स्वयमवधारणं लप्स्यते इत्याशयैव कृता ।
अस्य असामर्थ्य समर्थकं तु द्विर्बद्धं सुबद्धमिति न्यायस्तथाहि । यदि तावत् सर्वं वाक्यं सावधारणमेव स्यात्तदा सकृद्वद्धमपि सुबद्धमेवेति किमर्थं द्विध्येत । यत्तु केचिद्विधयो द्विर्बद्धास्तत् तत्तद्वाक्यानामनवधारणत्वादेव ॥ ५८ ॥
परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ॥ ५९ ॥
वदर्थं सादृश्यरूपम् । अन्यथाऽन्यस्यान्यरूपत्वे प्ररूप्यमाणे विरोधः स्यादित्यतोऽयं न्यायः । यथा 'वाऽन्यतः पुमांष्टादौ स्वरे " || १ |४| ६२ ॥ इत्यत्र पुमानित्यस्य पुंवदित्यर्थः सिद्धः । अत्र हि परार्थो नपुंसकस्तत्र प्रयुक्तः पुंशब्दस्ततो नपुंसकोऽपि सन् पुंस्त्वकार्याणि लभत इति भावः । यथा मृदवे कुलायेत्यादौ मृदुशब्दस्य पुंवद्भवनान्नपुंसकत्वलक्षणो
44
"
'अनाम्स्वरे - ' ॥१।४।६४ ॥ इति नागमो नागात् ।
11
अस्य ज्ञापकं तु " वाऽन्यतः - ' एतन्यायाभावे हि पुंवदिति निर्दिश्येत ।
॥ | १ | ४|६२ ॥ इति सूत्रे पुमानिति निर्देश एव ।
अस्य उपरतेस्तु " परतः स्त्री पुम्वत् स्त्र्येकार्थे ऽनूङ् || ३ |२| ४९ ॥ इति सूत्रे पुंवद् इति निर्देशः । एतन्यायाश्रयणे हि पुमानित्युक्तेऽपि सरति ॥ ५९ ॥
द्वौ नञौ प्रकृतमर्थं गमयतः ॥ ६०॥
नञावित्यर्थप्रधानो निर्देशस्तेन द्वौ निषेधौ निषेधद्वयस्य प्रयोगात् पूर्वं यः स प्रकृ
૯૬