________________
- २/६१]
न्यायार्थमञ्जूषानाम्नी बृहदृत्तिः । तोऽर्थो विधिरूपस्तं ब्रूतः । यथा “न नाम्येकस्वरात्" ॥३।२।९॥ इति सूत्रस्थो विभक्तेलुंपो निषेधार्थो नशब्दः पुरः पुरोऽनुवर्तमानो यावत् "नेन्सिद्धस्थे" ॥३।२।२९॥ इति सूत्रस्थद्वितीयनज्ञा मिलितस्तावता विभक्तिलुपो विधिमेवाह स्म ।
उन्नयनं चास्य "न नाम्येक-" ॥३।२।९॥ इत्यतो विभक्तिलुनिषेधार्थे नव्यनुवर्त्तमानेऽपि विभक्तिलुब्विध्यर्थं "नेन्सिद्ध-" ॥३।२।२९॥ इत्यत्र पुनर्नग्रहणात् । यदि हि द्वितीयेन नञा पूर्वनसम्बन्धी निषेधरूप एवार्थो दृढीक्रियमाणः स्यात्तदा विभक्तिलुनिषेधार्थे नव्यनुवर्त्तमाने सति तल्लुब्विध्यर्थी आचार्यः कथं पुनर्द्वितीयनजं गृह्णीयात् । यत्तु गृहीतस्तदेतन्यायाद् द्वितीयनञा विध्यर्थभवनसंभावनादेवेति ।
'नमोनमस्ते सततं नमोनम' इत्यादौ नमःशब्दादीनामसकृत्प्रयोगे स्वार्थदृढनमेव दृश्यते । ततो नञोऽपि तथैव प्रसक्ते सति तनिषेधार्थोऽयं न्यायः । इह च द्वाविति समसङ्ख्योपलक्षणम् तेन चतुःषडादयोऽपि नो विधिगमका एव । एकत्र्यादिविषमसंख्यास्तु निषेधगमका एवेतयूह्यम् ।
अस्य च दभ्रत्वात् संभ्रमादौ नञोऽसकृत्प्रयोगेऽपि निषेधार्थतैव । यथा कश्चिद् भुञ्जानोऽमुकं परिवेषयामीत्युक्तस्तदनिच्छुः सहसा प्रत्याह, न नेति ॥ ६० ॥
चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥ ६१ ॥
चस्याविशेषेण समुच्चयमात्रार्थत्वाद्विजातीयस्यापि समुच्चये प्रसक्तेऽयं न्यायः । तत्रोपसर्गादुपसर्ग यथा । "प्रतेश्च वधे" ॥४।४।९४॥ १। प्रकृतेः प्रकृतिं यथा । "एतदश्च व्यञ्जनेऽनग्नसमासे' ॥१।३।४६॥ २। प्रत्ययात् प्रत्ययं यथा । “अझै च" ॥१४॥३९॥ ३. आदेशादादेशं यथा । "आ च हौ" ॥४।२।१०१॥ ४। आगमादागमं यथा । "अश्च लौल्ये" ॥४३।११५॥ ५। अर्थादर्थं यथा । “अतिरतिक्रमे च" ॥३।१।४५॥ ६। वाक्यार्थाद्वाक्यार्थं यथा । "तस्य व्याख्याने च ग्रन्थात्" ॥६।३।१४२॥ ७। इत्यादि । एषु क्रमेणोपादिति १ तद इति २ घुटीति ३ इरिति ४ स्सोन्त इति ५ पूजायामिति ६ तत्र भवे .७ इत्येषां समुच्चयः । ननु अर्थवाक्यार्थयोः को भेदः । उच्यते । एकपदरूपोऽर्थः । पदद्वयादिमयस्तु वाक्यार्थः ।
___अस्य च विमुद्रकं पूर्वोक्तेष्वेव "प्रतेश्च वधे" ॥४।४।९४॥ इत्यादिसूत्रेषु विजातीयसमुच्चयव्यवच्छित्त्यै यत्नाकरणम् । तथाहि । चस्य तावदेषु समुच्चयमात्रमर्थः । समुच्चेयं च "किरो लवने" ॥४।४।९३॥ इत्यादि पूर्वसूत्रस्थं द्विधा । सजातीयं विजातीयं च । तत्र सजातीयमेवोपसर्गादि समुच्चेतुमिष्टं न तु विजातीयं लवनादि । ततो विजातीयसमुच्चयव्यवच्छित्त्यै कश्चिद्यत्नः कृतो विलोक्येत । यत्तु न कृतस्तदेतन्यायाशयैव ।