________________
न्यायसङ्ग्रहस्य - न्या. सू. २/६२, ६३ - अनित्यतां त्वस्य न पश्यामः । समुच्चिनोतीतिवचनाच्च समुच्चयार्थ एव चकार एवं नियम्यते । अनुकर्षणार्थस्तु चो विजातीयमप्यनुकर्षति । तथैव चाग्रेतनन्याय उदाहरिष्यते ॥ ६१ ॥
चानुकृष्टं नानुवर्तते ॥ ६२ ॥ चकारेणानुकृष्टं पदं वाक्यं वाऽग्रेतनसूत्रेषु न याति । अपेक्षातोऽधिकार इति न्यायाच्चानुकृष्टस्याप्यनुवृत्तौ प्रसक्तायां तनिषेधार्थोऽयं न्यायः । तत्र पदं यथा । "गडदबादेः" ॥२।१।७७॥ इति सूत्रे स्वध्वोश्चेति चेनानुकृष्टं पदान्त इति पदं “धागस्तथोश्च" ॥२॥१७८॥ इत्युत्तरसूत्रे न याति । वाक्यं यथा । "सदोऽप्रतेः परोक्षायां त्वादेः" ॥२।३।४४॥ इति सूत्रात्परोक्षायां त्वादेः इत्येतावद्वाक्यं स्वधात्वपेक्षया विजातीयमपि सत् “स्वञ्जश्च" ॥२।३।४५॥ इति सूत्रे चेनानुकृष्टमित्यतः “परिनिवेः सेवः" ॥२।३।४६॥ इत्युत्तरसूत्रे न याति । तेन स्वळेः परोक्षायां द्वित्वे कृत आदेरेव सस्य षः स्यान्न तु द्वितीयस्य । यथा परिषस्वजे । सेवेस्तु परोक्षायामुभयोरपि सयोः षः स्यात् । यथा परिषिषेवे । चानुकृष्टमित्येव । चेन समुच्चितं तु यथेच्छमनुवर्त्तत एव । यथा “मो नो म्वोश्च'' ॥२।१।६७॥ इत्यत्र पदान्त इत्यस्य म्वोश्चेति * समुच्चयार्थश्चकारः । ततश्च चेन समुच्चितं पदान्त इत्येतत्पदं "स्रंसध्वंसक्त स्स्-" ॥२॥१६८॥ इत्याद्युत्तरसूत्रेष्वनुवर्त्तते ।
___ अस्य न्यायस्य ज्ञापकं तु "स्वञ्जश्च" ॥२।३।४६॥ इति सूत्रवृत्तौ, चकारः परोक्षायां त्वादेः इत्यस्यानुकर्षणार्थस्ततश्च तस्य पुरोऽननुवृत्तिः सिद्धेत्यक्षराणि ।
अस्य च अनादरणात् "मारणतोषण-" ॥४।२।३०॥ इत्यत्र 'चो णिचि च इत्यस्यानुकर्षणार्थ' इत्युक्तेऽपि तस्य पुरोऽनुवृत्तिः सिद्धा ॥ ६२ ॥ .
चानुकृष्टेन न यथासङ्घयम् ॥ ६३ ॥ चानुकृष्टनाम यथासङ्गयेऽनुपयोगीत्यर्थः । यथासङ्गयमनुदेशः समानामिति न्यायस्यापवादोऽयं न्यायः । यथा "वौ व्यञ्जनादेः सन् चाय्वः" ॥४।३।२५॥ अस्यार्थः । वौ उकारे इकारे वा उपान्त्ये सति व्यञ्जनादेर्धातोः परौ सेटौ क्त्वासनौ प्रत्येकं किद्वद्वा स्याताम्। यथा मुदित्वा, मोदित्वा मुमुदिषते, मुमोदिषते । लिखित्वा, लेखित्वा । लिलिखिषति, लिलेखिषति । तदेवमत्र क्त्वासनोर्वावित्यनेन सह सङ्ख्याया वचननिर्देशस्य च साम्येऽपि यथासङ्खयं नास्ति; क्त्वश्चानुकृष्टत्वात् । अय्व इति तु न व्याख्यातमत्र; तद्विनाऽपि प्रस्तुतन्यायोदाहरणसिद्धेः । * अत्र पूर्वपुस्तकमुद्रितो 'म्वोश्च' एतावन्मात्र : पाठ : सम्यग् न प्रतीयते ।
=८८