________________
- २/६४, ६५]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । ___ व्यापकं त्वस्य यथासंख्यमनुदेश इति न्याये सत्यपि, "वौ व्यञ्जनादे:-" ॥४।३।२५॥ इत्यादावनिष्टस्यापि यथासंख्यस्य निषेधार्थं यत्नाकरणम् ।
अस्य च क्वचिदशक्तित्वात् "शक्तार्हे कृत्याश्च" ॥५॥४॥३५॥ इत्यत्र चानुकृष्टसप्तम्या सह शक्ताहयोर्यथासङ्घयभङ्गाय बहुवचनम् । अस्य हि सर्वत्र शक्तिमत्त्वे सति कृत्यश्चेत्युक्तेऽपि कृत्यसप्तमीम्यां शक्ताहयोर्यथासङ्ख्यं न प्राप्नोत्येव । परं नायं सर्वत्र शक्तिमांस्ततो यथासङ्घयभङ्गार्थं बहुवचनं न्यस्तम् । न च कृत्यानां बहुत्वादेवेदं बहुवचनमिति वाच्यम् । “प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ'' ॥५।४।२९॥ इति सूत्रे कृत्येभ्य एकवचनस्याप्यनुमीयमानत्वात् ॥ ६३ ॥
व्याख्यातो विशेषार्थप्रतिपत्तिः ॥ ६४ ॥ व्याख्यायाः सूत्रतोऽभ्यर्हितत्वज्ञापनार्थोऽयं न्यायः । यथा करीषगन्धेरपत्यं वृद्धं स्त्री "ङसोऽपत्ये" ॥६।१।२८॥ इत्यणि, "अनार्षे वृद्धे-" ॥२।४७८॥ इत्यनेनाणः ष्यादेशे; "अणजेयेकण्ननटिताम्" ॥२।४।२०॥ इत्यनेनाणन्तलक्षणो डीः प्राप्नोति; परं न स्यात् । तत्राणः स्वरूपस्थस्य ग्रहणात्, इह चाणः ष्यरूपीभवनात् । एतच्च "अणजेयेकण-" ॥२॥४॥२०॥ इत्यत्र व्याख्यानत एव लभ्यते; ज्ञापकान्ताराभावात् । ततश्च ड्यभवनेऽदन्तत्वात् "आत्" ॥२।४।१८॥ इत्यापि; कारीषगन्ध्या इत्येव स्यात् । .. अनुमा चास्य "नेमार्द्ध-'' ॥१।४।१०॥ इति सूत्रे तयाययोः प्रत्यययोर्नेमादिनामपङ्को निःशङ्क पठनात् । तद्धयतन्न्यायात्तयायेति तयायशब्दौ न, किन्तु तयायप्रत्ययान्तनामानि लप्स्यन्ते; शेषाणि तु स्वतन्त्रनामानीत्यशयैव ।
अरव्यातिमांश्चायम् । व्याख्यातोऽर्थनैयत्यसिद्धावपि "शरदः श्राद्ध कर्मणि" ॥६।३।८१॥ इत्यत्र कर्मणीति विशेषणोक्तेः । एतन्यायस्य ख्यातिमत्त्वे हि "सृजः श्राद्धे ञिक्या त्मने तथा" ॥३।४।८४॥ इत्यत्र यथा श्राद्धः श्रद्धावानिति लभ्यते । “श्राद्धमद्य भुक्त मिकेनौ" ॥७।१।१६९॥ इत्यत्र तु श्राद्धं पितृदैवत्यं कर्मेति । तथा "शरदः श्राद्धे कर्मणि" ॥६॥३८१॥ इत्यत्रापि श्राद्धशब्देन पितृदैवत्यं कर्म व्याख्यानतो लप्स्यत एवेति किमर्थं कर्मणीति विशेषणं प्रयुज्येत ॥ ६४ ॥ यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥ ६५ ॥
यत्रेति वाक्याङ्गभूतपदसमुदाये इति विशेष्यमध्याहार्यम् । अस्तिना च भवतिविद्यतिरित्यादयोऽपि लक्ष्याः; एकार्थत्वात् । भवन्ती वर्तमाना । उपलक्षणत्वात्प्रकरणादिवशात्सप्तम्यादिपरोऽपि प्रयुज्यते इति । आख्यातपदरहितत्वेन वाक्यत्वरहितस्य पद
=८८