________________
न्यायसङ्ग्रहस्य -
[न्या. सू. २/६५ - समुदायस्य वाक्यीकरणार्थमस्तीत्याद्याख्यातपदमवश्यप्रयोक्तव्यम्; आख्यातपदस्यैव वाक्यसंज्ञोक्तेस्तद्विना वाक्यत्वस्याभवनादित्यर्थः । कश्चिक्रियापदं साक्षाददृष्ट्वा वक्ष्यमाणोदाहरणेषु वाक्यत्वाभावमाशङ्किष्यते इत्यतस्तदाशङ्कानिरासार्थोऽयं न्यायः ।
तत्र भवन्ती यथा । जम्बूद्वीपस्तत्र सप्त वर्षाणि । अत्रास्ति, सन्तीति । सप्तमी यथा । "शिघुट्" ॥१।१।२८॥ "औदन्ताः स्वराः" ॥११४॥ अत्र स्यात्, स्युरिति । पञ्चम्याशिषौ यथा । देवो मुदे वो वृषभः परे च । अत्रास्तु, सन्त्विति; भूयाद् भूयासुरिति वा । हस्तन्यद्यतनीपरोक्षा यथा । अवन्त्यां विक्रमनृपस्तस्य द्वापञ्चाशद्वीराः । अत्र आसीदासान्निति; अभूदभूवन्निति; बभूव बभूवुरिति वा । श्वस्तनी यथा । अतः परं श्वो भोजनम् । अत्र भवितेति । भविष्यन्ती यथा । अद्य नश्चतुर्पु गव्यूतेषु भोजनम् । भाविन्यां तु पद्मनाभः सूरदेव ★ इत्यादि । अत्र भविष्यति, भविष्यन्तीति । क्रियातिपत्तिप्रयोगस्तु प्रायः साक्षादेवेक्ष्यते ।
___ प्रदर्शकं त्वस्य "तदस्य पण्यम्" ॥६४५४॥ इत्यादिसूत्रनिर्देशः । अत्र हस्तीतिक्रियापदमस्त्येव । अन्यथा अर्थसङ्गत्यभवनात् । एवं सत्यपि यदस्तीति साक्षान्नोक्तं तदेतन्यायाशयैव । अनित्यत्वात्चास्य क्वचिदन्यक्रियाऽध्याहारोऽपि । यथा अर्हम् । अत्र प्रणिदध्महे इति ॥ ६५ ॥ इति स्वसमुच्चितानां पञ्चषष्टिमितन्यायानां बृहद्वृत्तिः ।
श्रीसूरीश्वरसोमसुन्दरगुरोनिःशेषशिष्याग्रणीः गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्रवहेमहंसगणिना न्यायार्थमञ्जूषिकावक्षस्कारक एष लोचनमितः सम्पूर्णतां लम्भितः ॥२॥
* अत्राग्रिमस्य क्रमप्राप्तस्य भविष्यन्तीतिपदस्य योगसङ्गत्यर्थं बहुवचनमेषितव्यमिति चिन्त्यम् ।।
१००