________________
- वक्ष. ३/१, २] न्यायार्थमञ्जूषानाम्नी बृहदृत्तिः ।। अथ स्वसमुच्चितेष्वपि ये केचिन्यायाः केचिन्यायप्रकारा वचनविशेषाश्च
प्रायस्तादृग्व्यापकत्वज्ञापकादिरहिताः सन्ति ते विवियन्ते
यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १ ॥ इट इति शेषः । उपाधिर्व्यवच्छेदकं विशेषणमिति यावत् । यद्विशेषणविशिष्टस्य धातोः प्रत्ययस्य वा इटो विभाषा विकल्पस्तद्विशेषणविशिष्टस्यैव तस्य "वेटोऽपतः" ॥४।४।६२॥ इतीनिषेधः कार्यो न तु तद्विशेषणाभावे । इष्टनियमार्थोऽयं न्यायः । यथा "गमहनविद्लविशदृशो वा' ॥४।४।८३॥ इत्यनेन विद्रोंती लाभे इत्यस्यैव वेट्त्वाद्विदक् ज्ञाने इत्यस्य क्तयोः परयोः “वेटोऽपतः" ॥४।४।६२॥ इतीनिषेधो न, किन्तु नित्यमेवेट । यथा विदितः, विदितवान् । ननु "गमहन-" ॥४।४।८३॥ इत्यत्र विलं इति सानुबन्धोपादानेन विन्दतेरेव वेट्त्वाद्वेत्तेः क्तयोरिनिषेधो न भावीति किमत्र न्यायेन । सत्यम् । परं नानुबन्धकृतान्यसारूप्य० इतिन्यायेनानुबन्धवशाद्वैरूप्यं न स्यात् । तथा हृषितः, हृषितवान्; तुष्ट इत्यर्थः; अत्र “वेटोऽपतः" ॥४।४।६२॥ इतीनिषेधो न; केशलोमविस्मयाद्यर्थस्यैव हृषेर्वेट्त्वात् ।
__ अस्य चानुवादकं “आदितः" ॥४।४७१॥ "नवा भावारम्भे" ॥४।४।७२॥ इत्यनयोः पृथक् सूत्रकरणम् । तथाहि । “आदितो नवा भावारम्भे" इत्येकयोगकरणेऽपि तावदादितां धातूनां भावारम्भार्थक्तयोः परयोर्वेट्त्वेन पारिशेष्यात्कर्तृकर्मादिविहितयोः क्तयोः “वेटोऽपतः" ॥४।४।६२॥ इतीनिषेधः सिध्यति । परं भावारम्भे एव वेट्त्वादेतन्यायबलेन भावारम्भविहितयोरेव क्तयोरिनिषेधः प्राप्नोति; न तु कर्तृकर्मादिविहितयोः । तथाच साक्षाद्विरोधः । कथम् । आदितो नवा भावारम्भे इत्यनेन आदितां भावारम्भार्थं क्तयोरिड् विकल्प्यते । "वेटोऽपतः" ॥४।४।६२॥ इत्यनेन च भावारम्भार्थक्तयोरेव स निषिध्यत इति । पृथग्योगकरणे तु कर्तृकर्मादिविहितयोः क्तयोरिनिषेधः "आदितः" ॥४।४७१॥ इत्यनेन सिद्धो, भावारम्भविहितयोस्तूत्तरेण तद्विकल्प इति व्यवस्थितत्वात् "वेटोऽपतः" ॥४।४।६२॥ इत्यस्य क्वचिदप्यादिद्धातुष्ववकाशाभावादेवाप्रवृत्त्या विरोधः परिहृत एव स्यात् । - तदेवमेतन्यायोद्भूतविरोधनिरोधार्था पृथग्योगकृतिरिमं न्यायं ज्ञापयति ॥ १ ॥
यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः ॥ २ ॥
यथा अश्वेन चैत्रः संचरते इत्यादौ चैत्र इत्यनेन व्यवधानेऽपि तृतीयान्तेन योगसद्भावात्संचरते इत्यत्र "समस्तृतीयया" ॥३॥३॥३२॥ इत्यात्मनेपदं सिद्धम् । योगः किलानन्तरयोरेव प्रसिद्ध इत्यतोऽयं न्यायः ॥ २ ॥
= ૧૦૧