________________
न्यायसङ्ग्रहस्य - [न्या. सू. ३/३, ४, ५, ६ - येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ॥ ३ ॥
यद्येन सहचरितमेव दृश्यते न त्वेकाकि, तत्तस्य निर्निमित्ततया प्रसिद्धस्यापि निमित्तमित्युच्यते । ततश्च क्वचित्तदभावे निमित्ताभावे० इति न्यायान्नैमित्तिकमपि निवर्त्तत इति तात्पर्यम् । यथा कतणः कीर्त्तादेशो णिचा सहचरित एव दृश्यते इत्यतो णिच् कीर्त्तादेशस्य निर्निमित्तं विहितस्यापि निमित्तमित्युच्यते । तथाच कृततीत्यत्र अनित्यो णिच्चुरादीनामिति न्यायेन णिचोऽनित्यत्वात्तदभावे कीर्तादेशोऽपि न्यवर्त्तत ॥ ३ ॥
नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥ ४ ॥ उपसर्गस्यापि नामत्वाद् ग्रहणे प्राप्ते निषेधार्थोऽयं न्यायः । यथा उपस्पृशतीत्यत्र स्पृशेरुपरूपान्नाम्नः परत्वेऽपि "स्पृशोऽनुदकात्" ॥५।१।१४९॥ इत्यनेन क्विप् न स्यात् । तेन उपस्पृगिति प्रयोगो न साधुः । प्रायेण इति वचनान्नामग्रहणे वाप्युपसर्गस्यापि ग्रहणाद् अर्द्धभागित्यादिवत् प्रभागित्यादावपि "भजो विण्" ॥५।१।१४६॥ इति विण् सिद्धः ॥ ४ ॥
सामान्यातिदेशे विशेषस्य नातिदेशः ॥ ५ ॥
अन्यत्र प्रसिद्धस्यार्थस्यान्यत्र कथनमतिदेशः । विशेषाः किल सामान्येऽन्तर्भवन्तीति युक्त्या सामान्येऽतिदिष्टे विशेषस्याप्यतिदेशः प्राप्नोतीत्यतोऽयं न्यायः । यथा “भूतवच्चाशंस्ये वा" ॥५।४।२॥ इति सूत्रे भूतवदित्यनेन भूतमात्रस्यैवातिदेशेऽनद्यतनपरोक्षत्वविशिष्टभूतकालस्यातिदेशाभवनाद् उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महीत्यादौ स्थानद्वयेऽपि भूतमात्रलक्षणाऽद्यतन्येव “भूतवच्च-" ॥५।४।२॥ इति सूत्रेण स्यात् न त्वनद्यतनत्वपरोक्षत्वविशिष्टभूतविहिते शस्तनीपरोक्षे ॥ ५ ॥ . सर्वत्रापि विशेषेण सामान्यं बाध्यते न तु सामान्येन विशेषः ॥ ६ ॥
तार्किकाणां सामान्यविशेषयोर्बाध्यबाधकव्यवहारो नास्ति, परं व्याकरणेऽस्तीति ज्ञापनार्थोऽयं न्यायः । सर्वत्रापीति कोऽर्थः । प्राप्तावस्थायां, प्राप्स्यदवस्थायां च । तत्र प्राप्तावस्थायां यथा । कोऽर्थ इत्यादौ से: “सो रुः" ॥२।१७२॥ इति रुभवनादनु प्राप्त "रोर्यः" ॥१।३।२६॥ इति सामान्यस्वरनिमित्तकं सूत्रं बाधित्वा "अतोऽति-" ॥१।३।२०॥ इत्येतद् विशेषस्वरनिमित्तकसूत्रं प्रावर्त्तिष्ट ।
प्राप्स्यदवस्थायां यथा । सोऽहं तथापि तव... इत्यादि । अत्र "रोर्यः" ॥१।३।२६॥ इति "तदः से:-" ॥१३॥४५॥ इति "अतोऽति-"॥१।३।२०॥ इति सूत्राणां
૧૦૨