________________
- ३/६]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । प्राप्तिर्विचार्यते । तथाहि । "रोर्यः" ॥१३।२६॥ इति तावत्सामान्यसूत्रम्, सर्वरुविषयत्वात्। "तदः सेः-" ॥१३॥४५॥ इत्येतत्तु तदपेक्षया विशेषसूत्रम्, सिमात्रविषयत्वात् । “अतोऽति-" ॥१३॥२०॥ इत्येतत्तूभयोरपि तयोः स्वरसामान्यनिमित्तकयोरपेक्षया विशेषसूत्रम्, अकारमात्रनिमित्तकत्वात् । इह च "तदः सेः" ॥१३॥४५॥ इत्यस्य प्राप्तौ सत्यां "सो रुः" ॥२।१७२॥ इति सूत्रेणान्तरिता द्वयोः सूत्रयोः प्राप्तिरस्ति । इयं च प्राप्स्यत्तेत्युच्यते; सूत्रान्तरप्रवृत्त्याऽन्तरित्वात् । कथम् । यदि "तदः से:-" ॥१३॥४५॥ इति सेर्लुकमकृत्वा परत्वात् "सोरुः" ॥२।१७२॥ इति रुः करिष्यते; तदा तदनु "रोर्यः" ॥१।३।२६॥ इति "अतोऽति" ॥१।३।२०॥ इति च सूत्रे प्राप्स्येते इति । ततश्च "रोर्यः" ॥१।३।२६॥ इत्यस्य सामान्यसूत्रस्य प्राप्स्यत्त्वे सति "तदः से:-" ॥१।३।४५॥ इति विशेषसूत्रेण "सो रुः" ॥२।१७२।। इत्यस्य प्रवृत्तिनिरुध्यते । तन्निरोधे च परंपरया "रोर्यः" ॥१३।२६।। इत्येतदेव बाधनम् । “सो रुः" ॥२।१७२॥ इत्येतत्प्रवर्त्तनानन्तरमेव तस्य प्रवृत्तिसंभवात् । “अतोऽति-" ॥१।३।२०॥ इति विशेषसूत्रस्य प्राप्स्यत्त्वे सति तु "सो रुः" ॥२।१७२॥ इत्यस्य प्रवृत्तिर्न निरुध्यते । तदनिरोधेन च परंपरया "अतोऽति-" ॥१३॥२०॥ इत्यनेन "तदः से:-" ॥१३।४५॥ इत्येतदेव बाध्यते; एतन्न्यायात् । तदेवं "अतोऽति-'" ॥१३॥२०॥ इत्येव बलिष्ठत्वात् "सो रुः" ॥२।१।७२॥ इत्यस्य पुरस्करणपूर्वं प्रवृत्तमितिकृत्वा सोऽहमिति सिद्धम् । .
-इह चोदाहरणेऽस्माभिर्यदेष न्यायोऽवतारितस्तत् "तदः से:-" ॥१३॥४५॥ इत्यस्य न्यासे न्यासकारेणात्रास्यावतारणादेव । अन्यथा त्वेतन्यायावतारणं विनाऽपि पादार्थेतिपदेनात्र सेलुंगभावः सिध्यत्येव । तथाहि । “तदः से:-" ॥१॥३॥४५॥ इत्यनेन तावत्सेर्लुक् तदा क्रियते, यदि सा लुक् पादपूरणार्था स्यात् । इह तु सेलुकि साहं तथापीति; अलुकि तु सोऽहं तथापीत्युभयथाऽपि पादः पूर्यत एवेत्यत: सेलुंकः प्राप्तेरप्यभावात्किमिति सिलुग्निवारणार्थमत्रैष न्यायोऽवतार्यते इति ॥ . तक्रकौण्डिन्यन्यायश्चास्यैव प्रपञ्चस्तथाहि । तर्क देयमस्मै स तक्रदेयः, स चासौ कौण्डिन्यश्च तक्रकौण्डियः । मयूरव्यंसकादित्वाद्देयशब्दलोपः । स एव न्यायो दृष्टान्तः । कोऽर्थः, यथा द्विजेभ्यो दधि देयमित्युक्त्वा कौण्डिन्याय तक्रं देयमित्युक्ते कौण्डिन्यस्य दधिदाननिषेधोऽनुक्तोऽपि प्रतीयते; तथा यत्र विशेषलक्षणेन विधिना पूर्वोक्तस्य सामान्यलक्षणस्य विधेर्बाधोऽनुक्तोऽपि प्रतीयते तत्रायं न्यायः । यथा "व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा" ॥३।४।९॥ इति सामान्येन भृशाभीक्ष्ण्ये यडंविधाय पुनः “गत्यर्थात् कुटिले" ॥३।४।११॥ इति विशेषविधिरुक्तस्तेन गत्यर्थेभ्यो भृशाभीक्ष्ण्ये यनिषेधोऽनुक्तोऽपि गम्यते । तदेवमत्रापि विशेषेण सामान्यबाध इत्येतावदेव जातम्; न त्वपरं
१०३
-