________________
न्यायसङ्ग्रहस्य - [न्या. सू. ३/७, ८, ९ - किञ्चिदिति ॥ ६ ॥
ङित्त्वेन कित्त्वं बाध्यते ॥ ७ ॥ बलाबलोक्तिन्यायोऽयम् । एवमुत्तरोऽपि । यथा णूत् स्तवने, कुटादिः । नुवितः; प्रणुवितः अत्र "उवर्णात्" ॥४।४।५८॥ इत्यनेन कित्प्रत्ययस्यादौ विहित इड्निषेधो नाभूत् । कुटादित्वहेतुकेन क्तस्य ङित्त्वेन तत्कित्त्वस्य बाधनात् । ङित्त्वेनेति किम् । प्रकृत्य; अत्र यपः पित्त्वेन क्त्वाकित्त्वस्याबाधनाद्गुणाभावः । कित्त्वमिति किम् । धुत् गतिस्थैर्ययोः, कुटादिः । क्त्वि, प्रध्रुत्य । अत्र कुटादित्वहेतुकेन यपो ङित्त्वेन पित्त्वस्याबाधनात्तागमः ।
अस्य न्यायस्यानित्यत्वाच्च नूतः, प्रणूतवानित्यपि स्यात् ।।
इह च ङित्त्वेन कित्त्वम् इत्युपलक्षणम् । तेनान्यत्रापि धात्वादीनां पूर्वावस्थानुबन्ध उत्तरावस्थानुबन्धेन बाध्यते । तत्र धातोर्यथा । चक्ष्यादेशस्य ख्यागो गित्त्वेन प्राक्तनेदित्त्वस्य बाधनात् धात्वादेशो धातुवदिति स्थानिवद्भावेन प्रसक्तस्यापि नित्यात्मनेपदित्वस्य निवृत्त्या उभयपदित्वं सिद्धम् । यथा आचख्यौ; आचख्ये । प्रत्ययस्य यथा । युतात् । अत्र तातडो डित्वेन तुवो वित्त्वस्य बाधनात् "उत और्विति व्यञ्जनेऽद्वेः" ॥४।३५९॥ इति और्नेत्यादि । क्वचिच्च न बाध्यतेऽपि । यथा प्रकृत्य । अत्र यपः पित्त्वेन क्त्वाकित्त्वस्याबाधनाद्गुणाभावः ॥ ७ ॥
परादन्तरङ्ग बलीयः ॥ ८ ॥ यथा स्योमा इत्यत्र सीव्यतेः “मन्वन्-" ॥५॥१।१४७॥ इति मनि, “य्वोः प्वय्" ॥४।४।१२१॥ इतिवलोपमपवादत्वात् "लघोरुपान्त्यस्य" ॥४।३।४॥ इति गुणं च; नित्यत्वाद्वाधित्वा, ऊटि कृते, तदनु च परत्वादुपान्त्यगुणे प्राप्तेऽप्यन्तरङ्गत्वात्प्रथमं यत्वं सिद्धं; पश्चात्तु ऊटो गुणः । यद्यपि च परान्नित्यं, नित्यादन्तरङ्गम् इति न्यायाभ्यामस्य न्यायस्यार्थो लब्ध एव । तथाहि । परादपि नित्यं तावद्बलवत्; तस्मादपि च यद्यन्तरङ्गं बलवत्तदा पराद् अन्तरङ्गस्य बलवत्त्वे किं वाच्यमिति । तथापि तयोाययोः, परादन्तरङ्गमि इत्यस्य च न्यायस्य भिन्नभिन्नोदाहरणेष्ववतारात् परादन्तरङ्गम् इत्येषोऽपि न्यायो दर्शितः ॥ ८ ॥
प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते ॥ ९ ॥
लोपशब्दस्य लुग्लुपोर्वाचकत्वेऽपि लुकि स्थानिवद्भावेनैव सिद्धत्वाल्लुप्येतन्यायाधिकार : । प्रत्ययस्य लुपि सत्यां "लुप्यय्वृल्लेनत्" ॥७।४।११२॥ इति सूत्रेण य्वल्लत्वैनदादेशवर्जानां तन्निमित्तकसर्वकार्याणां निषेधे कृतेऽपि लुप्तप्रत्ययान्तनिर्दिष्टकार्याणाम
= १०४
-