________________
- ३/१०]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
नुमत्यर्थोऽयं न्यायः । यथा मासेन पूर्वायेत्यत्रवन्मासपूर्वायेत्यत्र "ऐकार्थ्ये" ॥३॥२॥८॥ इत्यनेन समासान्तर्वर्त्तितृतीयाया लुप्यपि तृतीयान्तलक्षणः " तृतीयान्तात्पूर्वावरयोगे" ॥ १।४।१३॥ इत्यनेन पूर्वशब्दस्य सर्वादित्वनिषेधः सिद्धः । तथा पापचीति । अत्र लुबन्तरङ्गेभ्य इति न्यायात् प्रथममेव यङो लुप्यप्येतन्यायेन यङ्ङन्तलक्षणं "सन्यङ श्च" ||४|१|३ ॥ इति द्वित्वं सिद्धम् ।
बोधकं चास्य "सिज्विदोऽभुवः " ॥४। २ । ९२ ।। इत्यत्र भूवर्जनम् । तथाहि । अभूवन्नित्यत्रानः पुसादेशनिषेधर्थं हि तत्कृतम् । तस्य च प्राप्तिरेव नास्ति । भुवोऽत्र सिज् - लुबन्तत्वात् सूत्रे च सिजिति सिजन्तस्य ग्रहणात् । तथापि यद्भूर्वर्जितस्तज्ज्ञायते लुप्तसिजतस्यापि सिन्तकार्यमेतन्न्यायात्प्राप्नोतीति ।
11
क्वचिद् अप्रणिधेयश्चायम् । यौधेयशब्दस्य "द्रेरञणोऽप्राच्यभर्गादेः " ५६।१।१२३॥ इत्यञ्लोंपविधायकसूत्रस्थभर्गादिगणे पाठात् । तथाहि । युधा नाम काचित्; तस्या अपत्यानि ‘“द्विस्वरादनद्याः " ॥ ६ ॥ १ ॥७१॥ इत्येयणि; यौधेयाः । ते शस्त्रजीविसङ्घाः स्त्रीत्वविशिष्टा विवक्षिता इति " यौधेयादेः - " || ७|३ | ६५ ॥ इत्यञि, " अणञेय - " ||२|४॥२०॥ इति ङयां, यौधेय्य इति निष्पन्नम् । अस्मिन्नवसरे च "प्रेरञणोऽप्राच्य- ॥६।१।१२३ ॥ . इत्यनेनाञ लुप् प्राप्नोति । अञो लुक्करणे च निमित्ताभावे० इति न्यायादग्निमित्तकाया वृद्धेर्निवृत्त्या युधेय्य इति रूपं स्यात् । लोपाभावात्तु यौधेय्य इत्येव स्थितम् । तदनु यौधेयीनां सङ्घो यौधेयमित्यत्राञन्तलक्षणः “सङ्घघोषाङ्कलक्षणेऽञ्यञिञः " ॥६॥३॥१७२॥ इत्यनेनाण् यथा स्यादित्येवमर्थं तावद्भर्गादिगणपाठेन यौधेयशब्दात् शस्त्रजीविसङ्घार्थागतस्या लुप् प्रतिषिध्यते । यदि चायं सर्वत्र प्रणिधेयः स्यात्तदा लुब्भूतेऽप्यञि तदन्तलक्षणः 'सङ्घघोषाङ्क - ॥६।३।१७२॥ इत्यण् भविष्यत्येवेति किमर्थं यौधेयशब्दस्य भर्गादिपाठः क्रियेत । यत्त्वसौ कृतस्तदञो लुब्भवन एतन्न्यायस्य क्वचित् क्वचिदप्रणिधेयत्वात्तदन्तलक्षण: “सङ्घघोषाङ्क-" ॥६।३।१७२॥ इत्यण् न भविष्यतीत्याशङ्कयैव ॥ ९ ॥
"
विधिनियमयोर्विधिरेव ज्यायान् ॥ १० ॥
यत्र सूत्रे विधिनियमरूपौ द्वौ व्याख्याप्रकारौ सम्भवतस्तत्र नियममपास्य विधिरेव व्याख्येयस्तस्यैवाप्राप्तप्रापकत्वेन प्रधानत्वात् । शास्त्रान्तरे व्याख्या क्वापि नियमिता नास्ति; तस्या यथाकांमीनत्वात् । व्याकरणे तु तस्या अपि नियमनार्थोऽयं न्याय: । यथा “प्रत्यभ्यतेः क्षिपः " ॥ ३|३ | १०२ ॥ इत्यत्र क्षिपत् प्रेरणे इत्ययं क्षिपिरुभयपदी तौदादिको व्याख्येयस्तस्यैव परस्मैपदविध्यर्हत्वात् । न तु क्षिपंच् प्रेरणे इत्ययं केवलपरस्मैपदी दैवादि'कस्तस्य सिद्धपरस्मैपदत्वेन सूत्रस्य नियमार्थताप्रसंगात् ।
૧૦૫