________________
न्यायसङ्ग्रहस्य - [न्या. सू. ३/११, १२ - नियमश्चैवं प्रसज्यते । प्रत्यभ्यतिपूर्वादेव क्षिपेः परस्मैपदं न त्वन्योपसर्गपूर्वादनुपसर्गाद्वेति । तदेवं प्रसज्यमानाया नियमार्थतायास्त्यागेन विधिरेवात्र ग्राह्यः ॥ १० ॥
अनन्तरस्यैव विधिनिषेधो वा ॥ ११ ॥ तत्र निषेधो यथा । "नामन्त्र्ये" ॥२॥१९२॥ इत्यनेन "नाम्नो नोऽनह्नः" ॥२।१।९१॥ इत्यनन्तरसूत्रविहितस्य नकारलुको निषेधः क्रियते । न तु परंपरैः "रात्सः" ॥२।१।९०॥ इत्यादिपूर्वसूत्रैर्विहितानां सकारलुगादीनाम् । विधिर्यथा । "क्लीबे" ॥२।१।९३॥ इत्यनेनानन्तरसूत्रविहितस्य नकारलुको निषेधस्य विकल्पनेन विधिः क्रियते । इत्यादि ।
यद्यपि च शब्दशक्तिरेवैषा यद्विधिनिषेधो वाऽनन्तरस्यैव स्यादिति; परं शब्दशक्तेरेवानुवाद्ययं न्यायो, विचित्राः शब्दशक्तय इत्यादिन्यायवत् ॥ ११ ॥
पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२ ॥ यथा पर्जन्य ऊनं पूर्णं वाऽनपेक्षमाणः सर्वत्र वर्षति तथा स्वविषयं प्राप्य लक्षणेन सर्वत्र फलाभावेऽपि प्रवर्तितव्यमेव । अप्रवृत्तौ हि तस्यानर्थक्यं स्यादिति । यथा गोपायति, पापच्यते, चिकीर्षति, पुत्रीयतीत्यादिष्वायादीनामदन्तत्वेन तदन्तधातूनामप्यदन्तत्वात् शवोऽनाकाङ्क्षायामपि "कर्त्तर्यनद्भयः शव्" ॥३।४।७१॥ इति शव् सिद्धः । तथा दधि अत्र इत्यत्र "इस्वोऽपदे वा" ॥१।२।२२॥ इति हूस्वस्यापि सतः पुनर्हस्वः सिद्धः ।
ननु कथमत्र फलाभावो यतो हूस्वविधानसामर्थ्यादत्र यत्वादि कार्यं न स्यादिति यत्वादिकार्यान्तराभवनं हूस्वकरणस्य फलमस्त्येव । सत्यम् । परं कालान्तरभावीदं, न तु तादात्विकं रूपान्यथात्वादिरूपम् अत एव पर्जन्यवदित्युपमानं साकूतम् । पर्जन्यस्यापि हि पूर्णे वर्षतस्तात्कालिकमेव फलं नास्ति । कालान्तरे त्वौषधीनिष्पत्तिरसाधिक्यादिकं फलमस्त्येव ।
अव्यापकचायम् । “समानानां तेन-" ॥१॥२१॥ इत्यत्राग्रेतनसूत्रसमानव्याप्तिसिद्धयर्थं बहुवचनप्रयोगात् । तथाहि । क्लृ ऋषभः, होतृ लकार इत्यादौ तावद् लऋतोः, "ऋतृति हूस्वो वा" ॥१।२।२॥ इति हूस्वं बाधित्वा परत्वाद् "ऋस्तयोः" ॥१॥२५॥ इति ऋरेव प्राप्नोति । सूरेश्चात्र ह्रस्वोऽपीष्टस्ततो यावन्तः केऽपि समानास्तेषां सर्वेषामपि ऋतृति हुस्वः स्यादेवेति व्याप्तिसिद्धयर्थं "समानानां-" ॥१२॥१॥ इत्यत्र बहुवचनं प्रयुक्तम् । यदि चायं न्यायो व्यापकः स्यात्तदा ऋत्ववत् इस्वोऽपि भविष्यत्येवेति किमिति तदर्थं बहुवचनं प्रयुज्येत । यत्तु प्रयुक्तं तदेतन्न्यायस्याव्यापकत्वाद् हुस्वस्याबलत्वेन बाधं परत्वात्सबलत्वेन ऋत्वस्यैव प्रवृत्तिं च संभाव्यैवेति ॥ १२ ॥
= ૧૦૬