________________
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
न केवला प्रकृतिः प्रयोक्तव्या ॥ १३ ॥
प्रकृतिर्धातुरूपाऽपि संभवेत्परं धातोः प्रत्ययान्तत्वे विवादाभावेन केवलत्वशङ्काया अभावान्नाम्नस्तु वक्ष्यमाणरीत्या प्रत्ययोत्पादस्य विवादापन्नत्वेन केवलत्वशङ्कासद्भावान्नामरूपैव प्रकृतिरिहाधिक्रियते । यथा कटं करोति भीष्ममुदारं दर्शनीयमित्यत्र यद्यपि कटरूपस्य द्रव्यस्यैव क्रियायां साक्षादुपयोगात्कटस्यैव कर्मत्वं युज्यते न तु भीष्मादीनां किमपि ; तथाप्येतन्यायकृतनियमेन भीष्मादीनामविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद् यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमतत्वात्तद्धनेनैव फलभाक्त्वं स्यादेवमेषामकर्मणामपि कटकर्मत्वेनैव द्वितीया सिद्धा ।
.
-
३/१३, १४]
ननु · भीष्मादीनामविभक्तिकानामप्रयोगार्हत्वादित्यनयोक्त्या केवलत्वव्यवच्छेदमात्रसाधिनी सामान्यविभक्तिः प्रथमैवानेतुं शक्यते, न तु कर्मशक्त्यादिप्रकाशिन्यद्वितीयाद्या विशेषविभक्तय इति चेत्, तदाऽस्य न्यायस्य व्याख्यान्तरमुच्यते । तथाहि । केवला इति कोऽर्थः । क्रियारहिता प्रकृतिर्न प्रयोज्या किन्तु प्रयुज्यमानया गम्यमानया वा क्रिया सहितैव प्रयोज्या । ततोऽत्र यथा कटस्य करोतिना सम्बन्धस्तथा भीष्मादीनामपि । यथैव ह्ययं कटं करोति तथा तद्गतान् भीष्मादिगुणानपि । तत्र यद्यत् करोतिना व्याप्तुमिष्टं तत्सर्वं द्रव्यं गुणश्च कर्मेति सर्वेषां पृथक्कर्मत्वे सर्वेभ्यो द्वितीया । पश्चात्तु एकवाक्यतया विशेषणविशष्यभाव इति ।
विशेषणानां विशेष्यसमानविभक्त्युपपादनार्थोऽयं न्यायः ॥ १३ ॥
क्विबर्थं प्रकृतिरेवाह ॥ १४ ॥
यथा त्वां मां चाचक्षाणे इति णिजि, क्विपि, तल्लुकि च युष्म् अस्म् इति मान्ताद् . ङौ "टाङयोसि" ॥२॥१॥ ७ ॥ इत्यनेन मस्य प्राप्तं यत्वं बाधित्वा परत्वात् त्वमादेशे पश्चाच्च त्वमयोरकारस्य प्राप्नुवतोऽपि यत्वस्य सकृद्गते स्पर्द्ध० इतिन्यायादभवने, युष्मदस्मदोश्चात्र णिज्क्विबन्तत्वेन सर्वादित्वाभावात् स्मिन्नादेशाभावे त्वे मे इति स्यात् इत्येष प्रकृतन्यायानपेक्षः पक्षः । यदा तु बर्थं प्रकृतिरेवाह इति न्यायः प्रयुज्यते तदा स्मिन्नादेशोऽपि स्यात् । तथाहि । अस्यार्थस्तावदयम् । क्विबन्तयोर्युष्मदस्मदोर्योऽर्थस्तमर्थं विब्रहिता युष्मदस्मद्रूपा प्रकृतिरेवाह न हि प्रकृतिं विना क्विब् भवतीति । एतेनायं भावः । यथा अगुडित इव गुडितोऽपि गजो गज एवोच्यते । न हि गजं विना गुडना भवति । तथा केवलाविव . णिक्किबन्तावपि युष्मदस्मच्छब्दौ तावेवोच्येते, न त्वपरं किञ्चित् । एवं च केवलयोस्तयोः
૧૦૭