________________
न्यायसङ्ग्रहस्य
सर्वादित्वमस्तीति कृत्वा णिति बन्तयोरपि सर्वादित्वं विवक्ष्यते ।
न चात्र शब्दभेदस्यार्थभेदस्य च साक्षादेव लक्ष्यमाणत्वादयुक्तैवेयं बिवक्षेति वाच्यम्; “सिद्धिः स्याद्वादात् " ॥ १।१।२ ॥ इति सूत्रेणाभिन्नानामपि भेदविवक्षाया भिन्नानामप्यभेदविवक्षायाश्चाभ्यनुज्ञानात् । कथमन्यथा पीयमानं मधु मदयतीत्यत्रैकस्यैव मधुनः कर्मत्वं कर्तृत्वं चेत्याद्युपपद्यते । ततो यथा मधुनोऽभेदेऽपि भेदविवक्षा, तथाऽत्र भेदेऽप्यभेदविवक्षा । ततश्च णिज्विबन्तयोर्युष्मदस्मदोः केवलाभ्यां ताभ्यां सहाभेदविवक्षया सर्वादित्वाद् ङे : स्मिन्नादेशे त्वस्मिन् मस्मिन्नित्यपि स्यात् ।
एवं च णिक्किबन्तयोर्युष्मदस्मदोः शब्दभेदादर्थभेदाच्चाप्राप्तस्य सर्वादित्वस्य प्रापणार्थोऽयं न्याय: ॥ १४ ॥
द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥ १५ · 11
शब्द इति शेषः । यथा " एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः " ॥ १|१|५ ॥ इत्यादौ मात्राशब्द एकद्वित्रीतिद्वन्द्वात्परः सन्नेकाद्यैः सह प्रत्येकं सम्बध्यते । अन्यथेष्टार्थप्रतीतिर्न स्यादित्यतोऽयं न्याय: ॥ १५ ॥
विचित्रा: शब्दशक्तयः ॥ १६ ॥
तेनैव लिङ्गसङ्ख्यादौ वैचित्र्यं दृश्यते इति ज्ञप्त्यर्थोऽयं न्याय: । तत्र लिङ्गवैचित्र्यं यथा । प्रशस्तं पचतीति "त्यादेश्च प्रशस्ते रूपप्" ॥७|३|१० ॥ इति स्वार्थिके रूपपि पचतिरूपमित्यादौ " पदं वाक्यमव्ययं चेत्यसङ्ख्यं च" (लिङ्गा - पर०४।२ ) इति लिङ्गानुशासनपाठादलिङ्गस्यापि त्याद्यन्तपदस्य क्लीबलिङ्गत्वं सिद्धम् । तथा कुत्सिता ज्ञातिः; स्वार्थिके कप्रत्यये "स्वज्ञाऽजभस्त्राऽधातुत्ययकात्" ॥२|४|१०८ ॥ इत्याप इत्वे, स्विका । अत्र ज्ञातौ "कामलकुद्दालावयवस्वाः " ( लिङ्गा - पु० १४।१ ) इति पाठात् पुलिङ्गस्यापि स्वशब्दस्य कुत्सितार्थविवक्षणाद्वाक्यावस्थायां कप्प्रत्ययान्तत्वे च स्त्रीलिङ्गत्वम् । तथा स्वा कुटी "कुटीशुण्डाद्रः " ||७|३|४७॥ इति स्वार्थिके रे; कुटीरः; कुटीरम् । अत्र कुटीशब्दस्य ‘“लालसोरभसोवर्त्तिवितस्तिकुटयस्त्रुटि: " ( लिङ्गा - पुंस्त्री ०९।२ ) इति वचनात् पुंस्त्रीलिङ्गस्यापि पुंक्लीबलिङ्गत्वम् । तथा ह्रस्वं वनं वनिका; अत्र नान्तत्वात् “नलस्तुतत्तसंयुक्त - " ( लिङ्गा- न० १।१ ) इति पाठात् क्लीबलिङ्गस्यापि वनशब्दस्य स्वार्थे कपि, स्त्रीलिङ्गता । तथा केऽपि शब्दाः पदान्तरस्य सापेक्षाः केऽप्यनपेक्षाश्च तत्तल्लिङ्गान्याहुः । तत्र सापेक्षो यथा । इयं गौः; अयं गौः; अत्र गवार्थस्योभयलिङ्गत्वादियमयमितिपदापेक्षेण
૧૦૮
[ न्या. सू. ३/१५, १६
-