________________
३/१७]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
गोपदेन स्त्रीपुंसत्वमुच्यते । तस्य स्त्रीपुंसत्वानुक्तावियमयमिति विशेषणयोः स्त्रीपुंसत्वानुपपत्तेः । अनपेक्षास्तु त्रिभिः प्रकारैस्तत्तल्लिङ्गान्याहुः ; नाममात्रेणाऽऽदेशेन प्रत्ययेन च । तत्र नाममात्रेण । यथा माता, पिता ; अत्र नाममात्रमेव स्त्रीपुंसत्वोक्तौ क्षमम् । आदेशेन यथा । तिस्त्रः; अत्र स्त्रीत्वं विनाऽनुपपद्यमानेन तिस्त्रादेशेन स्त्रीत्वं प्रतीयते । एवं क्रोष्टा; अत्र पुंस्त्वजेन क्रुशस्तुनस्तृजादेशेन पुंस्त्वम् । प्रत्ययेन यथा । राज्ञी; अत्र स्त्रीत्वोद्भवेन ङीप्रत्ययेन स्त्रीत्वम् । गोचरः; अत्र पुंनामत्वोद्भवेन " गोचरसञ्चर- " ||५|३|१३१॥ इति घेन पुंस्त्वम् ।
सङ्ख्यावैचित्र्यं यथा । " अंअः क ) ( पशषसाः शिद् " ॥ १|१|१६॥ अत्र संज्ञिबहुत्वेऽपि संज्ञाया एकवचनम् । दाराः; अत्रार्थैकत्वेऽपि बहुवचनमित्यादि ॥ १६ ॥ किं हि वचनान्न भवति ॥ १७ ॥
वचनमिष्टार्थप्रत्यायनं, तद्बलात्किं न स्यात्; काक्वा सर्वं स्यादित्यर्थः । इष्टार्थप्रत्यये सति शिष्टप्रयोगानुसारेण केचिद्विधयोऽप्राप्ता अपि प्रवर्त्यन्ते, प्राप्ता अपि च केचिन्न प्रवर्त्यते । इष्टार्थप्रत्ययाभावे तु प्राप्ता अपि केचिद्विधयो न प्रवर्त्त्यन्ते इति यावत् । "समर्थः पदविधि:' ॥७।४।१२२ ॥ इत्यस्यापवादो ऽयं न्याय: । तत्राप्राप्तप्रवर्त्तनं यथा । सूर्यमपि न पश्यन्त्यसूर्यम्पश्या राजदाराः ; " असूर्योग्राद् दृशः " ॥५।१।१२६ ॥ इति खश् । वत्सेभ्यो न हितो अवत्सीयो गोधुक्; "तस्मै हिते" ॥७|१|३५ ॥ इतीयः । अत्र नञः क्रमाद् दृशिना हितेन च सम्बन्धोऽस्ति; न सूर्येण वत्सैश्चैति समस्यमानपदानां मिथः सम्बन्धाभावादसामर्थ्येऽपि इष्टार्थगमकत्वात् समासः सिद्धः । प्राप्ताप्रवर्त्तनं यथा । "नहाहोर्धतौ " ॥ २।१।८५॥ अत्र धात्वग्रे इकिश्तिवो न । इष्टार्थप्रत्ययाभावे प्राप्ताप्रवर्त्तनं यथा । सङ्घस्य भद्रं भूयादित्यत्र सङ्घभद्रमिति षष्ठीसमासो न । न हि सङ्घभद्रं भूयादित्युक्ते सङ्घस्य भद्रं भूयादिति प्रतीयते, अपि तु सङ्घभद्रं नाम सङ्घसम्बन्धितया प्रसिद्धं किञ्चिद्भद्रं कस्यचिद्भूयादिति ॥
अभिधानलक्षणाः कृत्तद्धितसमासाः स्युः इत्यपि न्यायोऽस्ति । अस्यार्थः । अभिधानमिष्टार्थप्रत्यायनं तदेव लक्षणं चिह्नं येषां कृदादीनां, कोऽर्थः इष्टार्थप्रत्ययसम्भवे कृदादयः स्युस्तदभावे तु नेति । एवं च प्रस्तुतन्यायानुयाय्येवायमपि न्यायः ॥ अथ किं हि वचनाद्० इति न्यायस्यान्योऽर्थः कथ्यते । वचनादिति कोऽर्थः । सूत्रोक्तविधानबलात्किं न स्यात्; काक्वा अप्राप्ता अपि विधयः प्रवर्त्तन्ते इत्यर्थः । यथा श्रेष्ठः, श्रेयान्; अत्र इष्ठेयस्वोः परयोः श्रादेशविधानबलेनागुणाङ्गादपि प्रशस्यशब्दाद्
૧૦૯