________________
न्यायसङ्ग्रहस्य
[ न्या. सू. ३/१८ -
“गुणाङ्गाद्वेष्ठेयसू” ॥७|३ | ९ || इत्यनेन इष्ठेयसुप्रत्ययौ सिद्धौ । अयं भावः । यस्य गुणोऽङ्गं प्रवृत्तिनिमित्तं स्यात्स शब्दो गुणाङ्ग उच्यते । यथा पटुत्वगुणयोगात्पटुरित्यतः पटुशब्दो गुणाङ्गः । एवं मृदुगुरुलध्वादिः । प्रशस्यशब्दस्य तु प्रवृत्तिनिमित्तं प्रशंसनक्रियैवेत्यतः कर्त्रादिशब्दवत् क्रियाशब्दोऽयं न तु गुणाङ्गः । ततश्च प्रशस्यशब्दादिष्ठेयसुप्रत्ययौ न प्राप्नुतः । तथापि इष्ठेयस्वोः प्रत्यययोः परयोः प्रशस्यशब्दस्य 'प्रशस्यस्य श्रः ' ॥७|४ | ३४ ॥ इति सूत्रेण श्रादेशो यद्विहितोऽस्ति सूरिणा तद्विधानबलेनागुणाङ्गादपि प्रशस्यशब्दात् ‘“गुणाङ्गाद् वेष्ठेयसू" ॥७|३|९ ॥ इति सूत्रेण इष्ठेयसुप्रत्ययौ सिद्धौ । अस्यां व्याख्यायां चाप्राप्तप्रापणार्थोऽयं न्याय: ।
44
अपि च ॥ विचित्रा सूत्राणां कृतिः ॥ १ ॥ मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः ॥२॥ ते वै विधयः सुसङ्गृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च ॥ ३ ॥ इत्यादयोऽपि न्यायप्रकारा वाग्विशेषाः सन्ति परमेते व्याकरणसूत्ररचनायामेवोपयुज्यन्ते । पारिशेष्यादयोऽपि न्यायाः सूत्रार्थव्यवस्थापनायामेवोपयोगिनो न तु केऽपि प्रस्तुतायां प्रयोगरचनायां क्वचिदितीहोपेक्षिता: । शास्त्रान्तरेषु च यथोद्देशं निर्देश इत्यादयो बहवोऽपि न्यायाः सन्ति; परमत्र व्याकरणे क्वापि ते साक्षादुदाहृता न दृश्यन्ते इति नोक्ताः ॥ १७ ॥
न्याया: स्थविरयष्टिप्रायाः ॥ १८ ॥
यथा स्थविरो गमनादिकार्योत्पादे तत्साधनाय यष्टिमवलम्बते तदभावे तु न; तथा न्याया अपि शिष्टप्रयोगान्यथानुपपत्तावेवाश्रीयन्ते न त्वन्यथा । एकस्मिन्नपि प्रयोगादौ स एव न्याय आश्रितोऽनाश्रितश्च यद् दृश्यते तद्विरुद्धमित्याशङ्कां भङ्क्तुमयं न्याय: । यथा रायमतिक्रान्तानां कुलानामतिरीणाम्; अत्र " क्लीबे" || २|४|९७ ॥ इति ह्रस्वे सति तज्जे नामादेशे परे एकदेशविकृतमनन्यवदिति न्यायात्प्राप्तमपि " आ रायो व्यञ्जने" ॥२॥१॥५॥ इत्यात्वं, सन्निपातलक्षणो विधि० इति न्यायेन निषेधान्न स्यात् । तत्करणे हूस्वविघातसम्भवात् । " दीर्घो नाम्यतिसृ-" ॥ १।४।४७ ॥ इति दीर्घावसरे तु सन्निपातलक्षण - न्यायानाश्रयणान्निर्विघ्नं दीर्घः सिद्धः । तथा " वत्तस्याम् " ॥ १|१| ३४ ॥ इत्यत्र वत्तस्योस्तद्धितयोः साहचर्याद् आमोऽपि तद्धितस्यैव ग्रहणं प्राप्तम् । परं साहचर्यन्यायानाश्रयणात्परोक्षास्थानजोऽप्याम् गृह्यते । न च तद्वदेव षष्टीबहुवचनस्याप्यामो ग्रहः; तदा तदाश्रयणात् ।
ज्ञापकं चास्य तत्तत्प्रयोगादिषु तत्तन्यायाश्रयणानाश्रयणफलदर्शनम् ॥ १८ ॥ इति स्वसमुच्चितानामेव पूर्वेभ्यो विलक्षणानामष्टादशानां न्यायानां बृहद्वृत्तिः ॥
૧૧૦