________________
वक्ष० ४/१]
श्रीसूरीश्वरसोमसुन्दरगुरोर्निःशेषशिष्याग्रणीर्गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्रवहेमहंसगणिना न्यायार्थमञ्जूषिकावक्षस्कारक एष विष्टपमितः संपूर्णतां लम्भितः ॥ ३ ॥
अथ पूर्वदर्शिताष्टादशकसजातीय एवैको न्यायो बहुवक्तव्यत्वात् पृथक् प्रतन्यते १४१. शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः ॥ १ ॥
शिष्टां शेषा ये व्याकरणेन नान्वाख्याताः ; ईद्दशा ये नामानि निष्पत्तयः, प्रयोगाः, घातवश्च तेषाम् । सौत्रत्वादिति । सूत्रं व्याकरणादि तत्र निर्दिष्टाः सौत्राः । लक्ष्यानुरोधाद्देति । लक्ष्याणि पूर्वमहाकविप्रयोगाः । सिद्धिशब्दो मङ्गलार्थः ।
तत्र नान्नां यथा | चतुर्थी, षष्ठीत्यादि; अत्र हि चतुर्णां षण्णां पूरणीति वाक्ये "चतुरः " ॥७।१।१६३॥ " षट्कतिकतिपयात्थट्" ॥७।१।१६२ ॥ इति सूत्राभ्यां थट्प्रत्यये " नाम सित् - " ॥ १।१।२१ ॥ इति पदत्वे, चतुस्थी, षट्ठीति प्राप्नोति । " चतुर्थी " ||२।२।५३॥ " अज्ञाने ज्ञः षष्ठी " ॥ २।२८० ॥ इति सौत्रनिर्देशात्तु न जातम् । लक्ष्यानुरोधाच ॥ भिस्सा, कच्छाटिका, ग्रामटिका इत्यादौ लक्ष्यानुरोधाट्टागमः । कान्दविकः, काम्बविको, वैणविक इत्यादौ च " ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् " • || ७ |४| ७१ ॥ इति प्राप्त इकण इलुग्न । निष्पत्तीनां यथा । "अंअः अनुस्वारविसग" ॥१॥१॥९॥ “आपो ङितां यैयास्यास्याम्" ॥१।४।१७ ॥ इत्यत्र क्रमात् औजसोर्लुक् सौत्रत्वात् सिद्धः । लक्ष्यानुरोधात्तु आसां सिद्धिर्न दर्श्यते; असम्भवात् । एवमग्रेऽपि सौत्रत्व - लक्ष्यानुरोधयोरन्यतरस्यैवोक्तौ हेतुरूह्यः । प्रयोगाणां यथा । रणादिधातूनां शब्दार्थत्वाविशेषेऽपि रणितं नूपुरादौ; मणितं रतकूजिते; कणितमार्त्ते; क्वणितं वीणादौ; कूजितं विहगादौ; वृंहितं गजे; हेषितं हये; वासितं पशुषु गर्जितं मेघादौ; गुञ्जितं सिंहादावित्यादिकं लक्ष्यानुरोधात्सिद्धम् । धातूनां यथा सौत्रादीनाम् । तत्र कण्ड्वाद्यास्तावत् सौत्राः प्रतीता एव । तेषामर्थोदाहरणादि “ धातोः कण्ड्वादेर्यक्" ॥३॥४८॥ इत्यस्य बृहद्वृत्तिबृहन्यासतोऽवसेयम् ॥ शेषाणां तु सौत्रादिधातूनां कविकल्पद्रुमोणादिगणवृत्तिनिघण्टुवृत्तिधातुपारायणादिग्रन्थेषु सूत्रतोऽर्थतश्च दृष्टानां पृथग् २ वर्णक्रमेणेहोच्यमानानां कचटतपादिवर्णानुबन्धाददादिप्रभृतितत्तद्गणकार्यम्, तदभावे तु शव् इङित्त्वादीगित्त्वाञ्चात्मनेपद्युमयपदित्वं, तदभावे तु “शेषात्परस्मै" ३।३।१०० ॥ इति परस्मैपदित्वं चेत्यूह्यम् ॥
(अध्येताखोने સૂચના :- અહીંથી આગળ ન્યાયાર્થમંજૂષા ટીકામાં અનુબંધનું ફળ તથા
૧૧૧
>