________________
__१/६,७]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
कृतं तदेतन्न्यायेन इण इवर्णान्तत्वभवनसम्भावनादेव ।
अनित्यता त्वत्रांशेऽस्माकं न पोस्फुरीति ॥ ५ ॥
प्रकृतिवदनुकरणम् ॥ ६ ॥
अनुकार्यं धात्वादिकं प्रकृतिः । अनुकरणेऽपि प्रकृतिवत्कार्यं कार्यंम् । यथा "परिव्यवात् क्रियः" || ३ | ३ |२७|| इत्यत्र धात्वनुकरणस्य की इत्यस्य धातुवद्भावाद्धातुकार्यं “संयोगात्” ॥२॥१॥५२॥ इतीयादेशः सिद्धः । वत्करणाच्च सर्वथा धातुत्वाभावान्न त्यादय:, किन्तु स्यादयः ।
"
प्रमापकं त्वस्य क्रिय इति सूत्रनिर्देश एव । एतन्न्यायाभावे तदनुपपत्तेः । अस्य अरथेष्ठत्वाच्च 'तदः से: स्वरे पादार्था " || १ | ३ | ४५ ॥ इति सूत्रे तद इत्यस्य स्थाने ंतस्मादिति न निर्दिष्टम् ॥ ६ ॥
एकदेशविकृतमनन्यवत् ॥ ७ ॥
एकस्मिन् प्रदेशे वैसदृश्येन शब्दस्यान्यत्वं न गण्यते, किन्तु तथाविधस्यापि यथोक्तं कार्यं क्रियत इत्याशयः । साक्षाल्लक्ष्यमाणस्यापि वैसदृशस्यापह्नवार्थोऽयं न्याय: । एवमुत्तरावपि । यथा अतीसारोऽस्यास्तीत्यतीसारकी इत्यत्रवदतिसारोऽस्यास्तीत्यतिसारकी इत्यत्रापि " वातातीसारपिशाचात्कश्चान्तः" || ७ |२| ६१ ॥ इत्यनेन मत्वर्थीय इन् कागमश्च सिद्धः । तथा जराशब्दाट्टायां जरसा इत्यादिवदतिजरसा कुलेनेत्यादौ " क्लीबे" ||२|४|९७॥ इति ह्रस्वे कृते जरस्यापि सतो "जराया जरस्वा" || २|१|३ ॥ इति जरसादेशः सिद्धः । ..एकदेश० इत्यस्य चोपलक्षणत्वात् क्वचिदनेकदेशविकृतमप्यनन्यवत् । यथा " यमिरमिनमिगमिहंनिमनिवनतितनादेर्धुटि क्ङिति ॥ ४ । २ । ५५ ॥ इति नलोपे प्रणिहत इत्यादावेकदेशविकृतस्येव, प्रणिघ्नन्ति इत्यादौ हनेः " गमहनजनखनघसः स्वरेऽनङिक्ङिति लुक् ॥४।२।४४॥ इत्यल्लोपे " हनो ह्नो घ्नः " || २ |१| ११२ ॥ इत्यनेन ह्नो घ्नकरणात् हो घे च कृतेऽनेकदेशविकृतस्याप्यनन्यवद्भावात्तस्मिन् परे "नेर्मादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ " ॥ २ ॥३॥७९॥ इति नेर्नो णः सिद्धः ।
01
न च वाच्यम् । प्रन्योर्हनेश्च योगे जातमात्र एव नेर्णः करिष्यते; तथा च कथमेतन्न्यायावकाश इति । " णषमसत्परे - " ॥२।१।६०॥ इति वचनात् त्याद्युत्पत्त्यादिपरकार्ये कर्त्तव्ये णत्वशास्त्रस्यासत्त्वेनाप्रवृत्तेः । एवमग्रेऽपि यथायोगमाशङ्कापरिहारौ वाच्यौ ।
अनुमापकं त्वस्य "सख्युरितोऽशावैत्" || १ |४| ८३ ॥ इत्यत्र इत इति । तद्धि सखीशब्दस्य ऐत्त्वनिषेधार्थम् । एतन्यायाभावे च सखीशब्दस्य ऐत्त्वप्राप्तिरेव नास्ति; सूत्रे
૧૧