________________
न्यायसङ्ग्रहस्य -
न्या. सू. १८ - सखिशब्दस्यैव साक्षादुक्तेरिति कुतः सखीनिषेधार्थमित इति ब्रूयात्; केवलमेतन्न्यायबलात् सखीशब्दस्यापि प्राप्नोतीत्यतस्तनिषेधार्थमित इत्यूचे ।
अस्य च अस्थैर्यात् सूरशब्दस्य मर्त्तादित्वे सत्यप्येकदेशविकृतस्य शूरशब्दस्य मर्त्तादित्वं नास्ति; ततश्च यथा सूरस्य "मर्त्तादिभ्यो यः" ॥७।२।१५९॥ इति स्वार्थिके यप्रत्यये सूर्य इति स्यात्, तथा शूरस्य शूर्य इति न स्यात्, म दित्त्वाभावेन यप्रत्ययाभवनात् । अस्थैर्यव्यापकं तु "संख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाह्वरुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः" ॥५।१।१०२॥ इति सूत्रे लिपिलिव्योर्ग्रहणम् । एतन्यायस्थैर्ये ह्यन्यतरग्रहणेनापि सिध्येत्
भूतपूर्वकस्तद्वदुपचार : ॥ ८ ॥ यः प्राक् तथा भूत्वा सम्प्रत्यन्यथाभूतः स उपचारेण प्राच्यावस्थावानिव व्यवहार्यः । यथा शस्तन्या दिवि परे, प्रण्यहन् इत्यादौ, साक्षाद् हनाविवाद्यतन्यादौ परे प्रण्यवधीद् इत्यादौ हनादेशस्य वधेर्भूतपूर्वहन्रूपत्वोपचारात्तस्मिन्नपि परे "नेर्मादा-" ॥२।३।७९॥ इति नेर्नो णः सिद्धः ।
निवेदकं चास्य, “नेमादा-" ॥२॥३॥७९॥ इति सूत्रे वधेरपाठः । तथाहि । प्रणिहन्ति इत्यादाविव प्रण्यवधीदित्यादावपि तावन्नेर्णत्वमिष्टम्; तथा च हन्तिवद्वधिरपि सूत्रे पठितो विलोक्येत; यत्तु न पेठे, तदेतन्यायेन वधेर्भूतपूर्वहन्रूपत्वोपचारात्तस्मिन्नपि परेऽनेन नेर्णत्वं सेत्स्यतीत्याशयेनैव ॥
अस्य च क्वचिद् औदासीन्याद् विज्ञपय्य इत्यादौ "मारणतोषणनिशाने ज्ञश्च" ॥४।३।३०॥ इत्यनेन कृतहस्वस्य ज्ञपेर्भूतपूर्वज्ञापिरूपत्वानुपचरणात् "लघोर्यपि" ॥४।३।८६॥ इत्यनेन लघूपान्त्यधातुलक्षणो णेरय सिद्धः । औदासीन्यज्ञापकं तु, “सङ्ख्यानां
र्णाम्' ॥१४॥३३॥ इत्यत्र र्णामिति बहुवचनम् । तद्धि अष्टानामित्यत्र परत्वाद् "वाऽष्टन आः स्यादौ" ॥१४५२॥ इत्यात्वे प्रथमं कृते नान्तत्वाभावाद् भूतपूर्वनान्तादपि सङ्ख्यावाचिशब्दादामो नाम्भावार्थं न्यस्तम् । यदि चायं न्यायोऽनुदासीनः स्यात्तदा बहुवचनं विनाऽप्येतन्यायादेवाष्टानामित्यत्र भूतपूर्वनान्तेऽपि नामादेशः स्यादिति किमर्थं बहुवचनं न्यस्येतेति ।
___"स्थानीवावर्णविधौ" ॥७।४।१०९॥ "स्वरस्य परे प्राग्विधौ" ॥७।४।११०॥ इति परिभाषे एतन्यायस्यैव प्रपञ्चः । तथाहि । एताभ्यामवर्णविध्यादिविशेषसापेक्षं स्थानिवद्भावः साध्यते । एतन्यायेन तु सामान्यतः सर्वत्रैवेति ॥ ८ ॥