________________
न्यायसङ्ग्रहस्य
[ न्या. सू. १/५
प्लुतविधौ स्वर: स्थानी नोपात्तो भावी तन्मते तदेव स्थान्यनुपादानं प्लुतांशेऽपि बोधकं भावि । नानाव्याकरणसाधारणानि किल चिरन्तनत्वान्न्यायसूत्राणि
॥ ४ ॥
आद्यन्तवदेकस्मिन् ॥ ५ ॥
यत्रैक एव वर्णो नाम वाऽस्ति, कार्यं तु तदादिकस्य तदन्तस्य वोक्तं; तत्र तदेवैकमादित्वेनान्तत्वेन च प्रकल्प्य तत्कार्यं कार्यम् । अप्राप्तप्रापणार्थोऽयं न्याय: । एवमुत्तरोऽपि । तत्रादित्वेन वर्णस्य कल्पना यथा । ईहांचक्रे इत्यादौ धातोर्गुरुनाम्यादित्वेन परोक्षाया यथा “गुरुनाम्यादेरनृच्छूर्णोः " ||३|४|४८ ॥ इत्याम् स्यात्, तथा ईङ् च् गतौ, अयाञ्चक्रे इत्यादौ नामिमात्रस्यापि धातोर्नाम्यादित्वकल्पनात्परोक्षाया "गुरुनाम्यादेः-" ।।३।४।४८॥ इत्याम् सिद्धः । नाम्नो यथा । " इन्द्रे " ॥ १।२।३० ॥ इत्यस्य आदिः" ॥७|४|११४ ॥ इति परिभाषया इन्द्रादौ शब्दे पर इति न्यासकारव्याख्यासद्भावादिन्द्रयज्ञशब्दे परे गवेन्द्रयज्ञ इत्यादावेवाव आदेशः प्राप्नोति; परं गवेन्द्र इत्यत्रापीन्द्रस्येन्द्रादित्वकल्पनादव आदेशः सिद्धः ।
सप्तम्या
गमकं त्वत्र “यस्वरे पादः पदणिक्यघुटि" ॥ २।१।१०२ ॥ इत्यत्र णिवर्जनम् । तद्धि णेः स्वरादित्वात्कृतम् ; यदि च स्वरमात्रस्यापि णेरेतन्यायात् स्वरादित्वं न स्यात्तदा प्रसङ्गाभावादेव णिवर्जनं नाकरिष्यत । अत्रांशे चास्य अनित्यत्वाद् ईयतेरेव गुरुनाम्यादित्वकल्पनाया अभावे, आमादेशाभावात् ईये, ईयाते, ईयिरे इत्याद्यपि स्यात् ।
अन्तत्वेन वर्णस्य कल्पना यथा । जेता इत्यादौ धातोर्नाम्यन्तत्वेन यथा "नामिनो गुणोऽक्ङिति " || ४ | ३ | १ || इति गुणः स्यात्, तथा एता इत्यादौ नामिमात्रस्यापि धातोर्नाम्यन्तत्वकल्पनात् "नामिनो गुणोऽक्ङिति " || ४ | ३ | १ || इति गुणः सिद्धः । नाम्नो यथा । " सर्वादेः स्मैस्मातौ" || १ |४| ७|| इत्यत्र सर्वादेरित्यस्य स्याद्यधिकाराक्षिप्तनामविशेषणत्वात्, ततश्च "विशेषणमन्तः" || ७|४|११३ ॥ इति परिभाषया सर्वाद्यन्तस्य नाम्न इति न्यासकारव्याख्यासद्भावात् परमसर्वस्मै इत्यादावेव स्मायादयः प्राप्नुवन्ति; परं सर्वस्मै इत्यादावपि सर्वशब्दस्य सर्वाद्यन्तत्वकल्पनात् स्मायादयः सिद्धाः ।
अत्र गमकं तु, यन्ति इत्यादाविय्बाधनार्थं "ह्विणोरप्विति व्यौ" ॥४।३।१५ ॥ इति यत्वविधानम् । तथाहि । " धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये" ||२।१।५०॥ इत्यत्र तावदिवर्णान्तस्य इय् ऊचे । यदि चेण इकारमात्ररूपस्यैतन्न्यायादिवर्णान्तत्वं न स्यात्तदा इय्प्राप्तेरेवाभावात्किमिति तद्बाधनार्थं "ह्निणोरप्विति || ४ | ३ | १५ ॥ इति यत्वं कुर्याद्; यत्तु
१०