________________
- १/४]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । धारये पूर्ववर्षास्तासु भवं पौर्ववर्षिकम्; एवं पौर्वशिशिरिकम्; उभयत्रापि “वर्षाकालेभ्यः" ॥६३८०॥ इत्यनेन काललक्षण एवेकण् । इह च पूर्वशब्दो न ऋतोरेकदेशं ब्रूते, किं तर्हि ? व्यवहितत्वमित्यतो "अंशादृतोः" ॥७।४।१४॥ इत्यनेनोत्तरपदवृद्ध्यप्राप्तेः; "वृद्धिः स्वरेष्वादेणिति तद्धिते" ॥७।४।१॥ इत्यनेनाद्यस्वरस्यैववृद्धिः ।
स्थापकं त्वस्य "अंशादृतोः" ।।७।४।१४॥ इत्यनेनांशवाचिनः परस्य ऋतुवाच्युत्तरपदस्य वृद्धिविधानमेव । तथाहि । “अंशादृतोः" ॥७।४।१४॥ इत्यत्रोत्तरपदवृद्धिस्तावद् "वर्षाकालेभ्यः" ॥६।३।८०॥ "भ सन्ध्यादेरण्" ॥६॥३८९॥ इत्यादिसूत्रैर्विहिते णित्प्रत्यये पर उक्ता । स च णित्प्रत्ययो यदि पूर्ववर्षादिशब्देभ्य ऋत्वन्तत्वेन ग्रहणवता० इति न्यायेन निषेधान्नायात्येव, तदा "अंशादृतोः" ॥७।४।१४॥ इति सूत्रं निर्विषयत्वात् क्रियत एव न; एतच्च तावत् कृतम्; तज्ज्ञायतेऽवयवपूर्वादृत्वन्ताद् णित्प्रत्ययविधौ कर्त्तव्य एतन्यायेन ग्रहणवता० इति न्यायस्य बाधभवनानिर्विघ् णित्प्रत्यय आयास्यतीत्याशयेनैव कृतमिति ॥ ३ ॥
... स्वरस्य हुस्वदीर्घप्लुताः ॥ ४ ॥
हस्वाद्यादेशाः स्वरस्यैव स्युन तु व्यञ्जनस्येत्यर्थः । स्थानिविशेषानुक्त्या स्वरवद्वयअनस्यापि हुस्वाद्यादेशप्रसङ्गे प्रतिषेधार्थोऽयं न्यायः । तत्र हरवो यथा । सह श्रिया सश्रि कुलम् अत्र ईत: "क्लीबे" ॥२।४।९७॥ इति हुस्वः । व्यञ्जनस्य तु न स्यात्, यथा तत् । अत्र तकारस्य, 'लवर्णतवर्गलसा दन्त्याः' इत्यासन्नत्वात् लहूस्वः प्राप्नोति । दी? यथा । प्रत्यञ्चन्तीति क्विपि तान्, प्रतीचः । अत्र "अच्च् प्राग् दीर्घश्च" ॥२।१।१०४॥ इत्यनेनाचश्चत्वे प्राक्स्थितस्य इतो दीर्घः । व्यञ्जनस्य तु न स्यात् । यथा दृषदमञ्चन्तीति क्विपि तान्, दृषच्चः । अत्र "अच्च् प्राग्-" ॥२।१।१०४॥ इत्यचश्चत्वे प्राक् स्थितदस्य प्राग्वदासन्नलुदीर्घप्राप्तिः । प्लुतो यथा । हे चैत्र३ एहि; अत्राऽकारस्य "दूरादामन्त्र्यस्य गुरुर्वैकोऽनन्त्योऽपि लनृत्" ॥७।४।९९॥ इत्यनेन प्लुतत्वम्; ततश्च "प्लुतोऽनितौ" ॥१।२।३२॥ इत्यसन्धिः ।
बोधकं त्वस्य, हुस्वदीर्घाशयोस्तद्विध्योः प्रायः स्थान्यनुपादानम् । तथाहि । हुस्वदीर्घविधी तावत्सर्वत्र स्वरस्यैव क्रियेते । स्वरश्च स्थानी बहुषु स्थानेषु यनोपात्तस्तदेतन्न्यायाशयेनैव । प्लुतांशे तु नास्ति ज्ञापकम् । प्लुतविधौ, “सम्मत्यसूयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः" ॥७।४।८९॥ इत्येवं स्वरस्य स्थानिनः साक्षादुक्तेः ।
ननु कुतस्तर्हि न्याये प्लुतः पेठे । उच्यते । हुस्वादीनां सहचारित्वमात्रात्संभाव्यते; इहोदाहृतोऽपि स्थानाशून्यत्वार्थमेव । यद्वा । यैर्वैयाकरणैरेतन्न्यायसापेक्षैः सद्भिः