________________
न्यायसङ्ग्रहस्य -.
[न्या. सू. १/३ - स्यात् । “ग्रहणवता नाम्ना न तदन्तविधिरिति" न्यायस्यापवादोऽयं न्यायः । एवमुत्तरोऽपि । यथा मगधेषु भवो मागधक इत्यादौ केवलाज्जनपदवाचिशब्दादिव, सुमगधेषु सर्वमगधेष्वर्द्धमगधेषु पूर्वमगधेषु च भवः सुमागधकः, सर्वमागधकः, अर्द्धमागधकः, पूर्वमागधक इत्यादौ सुसर्वार्द्धदिक्शब्दपूर्वाज्जनपदान्तादपि "बहुविषयेभ्यः" ॥६।३।४५।। इत्यकञ् सिद्धः । सुमागधकादिषु च त्रिषु "सुसर्वा द्राष्ट्रस्य' ॥७।४।१५॥ इत्यनेन; पूर्वमागधक इत्यत्र तु "अमद्रस्य दिशः" ।।७।४।१६।। इत्यनेनोत्तरपदवृद्धिः । सुसर्वादिभ्य इत्येव । ऋद्धमगधेषु भवः आर्द्धमगधः; अत्र "भवे" ॥६३।१२३॥ इत्यणेव, न तु 'बहुविषयेभ्यः'' ॥६।३।४५॥ इत्यकञ्; ग्रहणवता० इति न्यायेन तदन्तविधेनिषेधात् ।
ख्यापकं त्वस्य, "सुसर्वार्द्धाद्राष्ट्रस्य" ॥७।४।१५॥ "अमद्रस्य दिशः" ।।७।४।१६॥ इति सूत्राभ्यामुत्तरपदवृद्धिविधानमेव । तथाहि । आभ्यां सूत्राभ्यामुत्तरपदवृद्धिस्तावद् "बहुविषयेभ्यः" ॥६।३।४५॥ इत्यादिसूत्रैविहिते णित्प्रत्यये पर उक्ता । स च ञ्णित्प्रत्ययो यदि सुमगधादिशब्देभ्यो राष्ट्रान्तत्वेन ग्रहणवता० इति न्यायेन निषेधान्नायात्येव तदैते वृद्धिसूत्रे निर्विषयत्वात् क्रियेते एव न; एते च तावत् कृते, तज्ज्ञायते सुसर्वादिपूर्वस्य राष्ट्रवाचिनो विधौ कर्त्तव्ये एतन्यायेन ग्रहणवता० इति न्यायस्य बाधभवनानिर्विघ्नं णित्प्रत्यय आयास्यतीत्याशयेनैव कृते इति । अस्थिरता त्वस्य नास्ति; उत्तरन्यायद्वयस्यापि च ॥ २ ॥
ऋतोर्वृद्धिमद्विधाववयवेभ्यः ॥ ३ ॥ यस्मिन् परे वृद्धिप्राप्तिः स णित्प्रत्ययो वृद्धिमानिह गृह्यते । ऋतुवाचकाद् ञ्णित्प्रत्ययस्य विधौ कर्त्तव्ये तदवयवपूर्वादृत्वन्तादपि स विधिः स्यात् । तेन यथा वर्षासु भवं वार्षिकमित्यत्र केवलाद्वर्षाशब्दाद् "वर्षाकालेभ्यः'' ॥६॥३८०॥ इतीकण् स्यात्तथा पूर्वः प्रथमोऽवयवो वर्षाणां पूर्ववर्षाः "पूर्वापराधरोत्तरमभिन्नेनांशिना" ॥३१॥५२॥ इत्यंशितत्पुरुषः । यद्वा । पूर्वावयवयोगात्पूर्वाः प्रथमा इत्यर्थः; ततः पूर्वाश्च ता वर्षाश्च पूर्ववर्षाः, "पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम्" ॥३।१।१०३॥ इति कर्मधारयः; ततस्तासु भवं पूर्ववार्षिकम् अत्र वर्षान्तादपि "वर्षाकालेभ्यः" ||६।३।८०॥ इति वर्षालक्षण इकण सिद्धः; "अंशादृतोः" ॥७।४।१४॥ इत्यनेनात्रोत्तरपदवृद्धिः । एवं शिशिरे भवं शैशिरमित्यादौ केवलऋतुशब्दादिव पूर्वशिशिरे भवं पूर्वशैशिरमित्यादावृतुशब्दान्तादपि "भर्तुसन्ध्यादेरण" ॥६।३।८९॥ इति ऋतुलक्षणोऽण् सिद्धः; वृद्धिस्तु प्राग्वत् । वृद्धिमद्विधाविति किम् । “प्रावृष एण्यः'' ॥६।३।९२॥ इत्येण्यस्य विधौ, पूर्वप्रावृषि भवः पूर्वप्रावृषण्य इति मा भूत् । अवयवेभ्य इति किम् । पूर्वा ऋत्वन्तरैर्व्यवहिताश्च ता वर्षाश्च प्राग्वत्कर्म
-