________________
-- १/२]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । स्वं रूपं शब्दस्य इत्यंशस्य ज्ञापकं "नदीभिर्नाम्नि" ॥३।१।२७॥ इत्यत्र बहुवचनम् । एकवचने हि स्वं रूपं शब्दस्य इति वचनात् स्वरूपस्यैव केवलस्य नदीरूपस्य ग्रहणं मा प्रसाङ्क्षीदित्यतोऽत्र नदीविशेषाणामपि ग्रहणाय बहुवचनं न्यस्तम् । ततश्च "सङ्घया समाहारे' ॥३।१।२८॥ इत्युत्तरसूत्रेण यथा पञ्चानां नदीनां समाहारः पञ्चनदमित्यत्र नदीशब्देन सहाव्ययीभावसमासः स्यात्तथा द्वयोर्यमुनयोः समाहारो द्वियमुनम्, एवं त्रिगङ्ग, सप्तगोदावरमित्यत्र नदी विशेषवाचिभिरपि सहाव्ययीभावः समासः सिद्धः । तथाच "संख्याया नदीगोदावरीभ्याम्" ॥७३॥११॥ इत्यत्समासान्तः; "क्लीबे" ॥२।४।९७॥ इति इस्वो, विभक्तेः “अमव्ययीभावस्यातोऽपञ्चम्याः'' ॥३।२।२॥ इत्यनेनाम्भावश्च यथायोगं सिद्धाः ।
____ अशब्दसंज्ञा इत्यंशस्य तु ज्ञापकं "स्वरादुपसर्गाद्दस्ति कित्यधः" ॥४।४।९।। इत्यत्र धावर्जनम् । यदि हि स्वं रूपं शब्दस्ये ति वचनाद्द इत्यनेन दारूपमेव गृह्यमाणं स्यात्तदाऽत्र धाप्रसङ्ग एव नास्तीति किमर्थं धा वर्खेत । परं अशब्दसंज्ञेति वचनाद्धाप्रसङ्गोऽस्तीत्यतो धावर्जनं सफलम् ।
अस्य चाधोंडशोऽनित्यस्तेन "उत्स्वराधुजेरयज्ञतत्पात्रे'' ॥३।३।२६॥ इत्यत्र, "युजादेर्नवा'' ॥३।४।१८।। इत्यनेन विकल्पितणिचश्चौरादिकयुजेर्णिचोऽभावपक्षे युजिरूपसम्भवेऽपि न ग्रहणम् । अनित्यताया ज्ञापकं तु "पूक्लिशिभ्यो नवा" ॥४।४।४५॥ इत्यत्र बहुवचनम् । तद्धि क्लिश्यतिक्लिश्नात्योहणार्थं न्यस्तम् । एतन्न्यायांशनित्यत्वे च तयोरुभयोरपि क्लिशिरूपसद्भावाद् बहुवचनं विनापि ग्रहणं सिध्यतीति कुतस्तदर्थं बहुवचनं प्रयुज्यतेति ।
द्वितीयांशोऽप्यनित्यस्तेन "प्राज्ज्ञश्च" ॥५॥१७९॥ इत्यत्र, "दश्चाङः" ।।५।१७८॥ इति पूर्वसूत्राद्द इत्यनुवृत्त्या दासंज्ञावददासंज्ञयोरपि दाव्दैवोर्ग्रहः सिद्धः । अनित्यताज्ञापकं तु “प्राज्ञश्च'' ॥५।१७९॥ इत्यस्य वृत्तौ द इतिदारूपमेवेह ग्राह्यमित्युक्तिः ॥ १ ॥
सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य ॥ २ ॥ - ये शब्दा दिशि वाचकत्वेन रूढाः सन्ति तेऽर्थान्तरवत्तयोऽपि सन्तो दिग्वाचिसादश्याद्दिक्शब्दा इत्युच्यन्ते, न तु दिशि वर्तमाना एव । एतदर्थसंग्रहार्थमेव हि प्रकृतन्यायसूत्रे शब्दशब्दप्रयोगो, यथा “प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः'' ॥२।२७५॥ इत्यत्र । अन्यथा तु दिगिति केवलमेवोच्येत, यथा “दिशो रूढ्यान्तराले" ॥३।१।२५॥ इत्यत्र । ततश्चायमर्थः । जनपदवाचिनो यो विधिरुक्तः स सुसर्वार्द्धदिक् शब्दपूर्वस्य जनपदान्तस्यापि