________________
[ वक्ष०१ / न्या. सू. १
अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थं यत्नः क्रियते
न्यायसङ्ग्रहस्य
इति ।
अत्र शास्त्रस्याभिधेयं तावत् साक्षादेवोक्तम् । सम्बन्धप्रयोजने त्वेवं गम्ये स्तः । तथाहि । अथेति । कोऽर्थः हैमसंस्कृतव्याकरणवृत्तेरनन्तरम् । अनेन तया सह न्यायानामानन्तर्यसम्बन्धो गम्यते । तथा ये तु इति तुशब्दो व्याकरणसूत्राणां नव्यकृतत्वं न्यायसूत्राणां तु व्याकरणान्तरादिशास्त्रेष्वपि तथैव पठितत्वाच्चिरंतनत्वमिति विशेषं द्योतयन्नेते न्याया गुरुपरम्परयैव ग्रन्थकारं यावदागता इति गुरुपर्वक्रमलक्षणमपि सम्बन्धं द्योतयति । शास्त्रे इति । साङ्गशब्दानुशासनादौ । लोकप्रसिद्धाश्च इति । लोको वैयाकरणसमयज्ञः प्रामाणिकादिश्च । न्याया इति । न्यायशब्दः किल दृष्टान्तेऽपि रूढः । यथां सूचीकटाहन्यायः, काकाक्षिगोलकन्यायो, डमरुकमणिन्यायो, घण्टालालान्याय इत्यादि । इह तु नीयते सन्दिग्धोऽर्थो निर्णयमेभिरिति " न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम्” ॥५॥३।१३४॥ इत्यनेन घञि निपातनान्याया: स्वेष्टसंसाधनानुगुणा युक्तय उच्यन्ते । अनया च सान्वर्थव्युत्पत्त्या सन्दिग्धार्थनिर्णयरूपं सर्वन्यायसाधारणं प्रयोजनमावेदितं द्रष्टव्यम् ॥
अथ प्रतिज्ञातं प्रस्तूयते ।
स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १ ॥
"
11
व्याकरणसूत्रे सर्वत्र शब्दस्य स्वं रूपं ग्राह्यम् । अशब्दसंज्ञा । यदि तेन शब्देन, संज्ञेत्यत्र ‘“उपसर्गादातः || ५ | ३ | ११० ॥ इत्यनेन भावे अङ्प्रत्ययसद्भावात् संज्ञानं कोऽर्थः संज्ञाकरणं न स्यात् । यदि तु तेन शब्देन किञ्चिद्विषया संज्ञा कृता स्यात्तदा रूपमनादृत्य यावतां सा संज्ञा कृताऽस्ति तावन्तो ग्राह्या इत्यर्थः । गौणमुख्ययोः० इत्यादिन्यायानामपवादोऽयं न्यायस्तथैव चाग्रे भावयिष्यते । यथा 'समः ख्यः ||५ ।१ ॥७७॥ इत्यत्र ख्यांक्धातुश्चक्षादेशश्चेति द्विधाऽपि ख्या इति रूपमेव गृह्यते, ख्या इति संज्ञाया अभावात् । तेन गाः संख्याति, सञ्चष्टे वेत्युभयथाऽपि गोसंख्य इत्यादौ डः सिद्धः । अन्यथा तु गौणमुख्ययो: ० इति न्यायेन स्वाभाविकधातोः ख्यांक् इत्यस्मादेव डः प्राप्नोति न तु धात्वादेशत्वेन धातुत्वभाजश्चक्षादेशात् ख्यः । यद्वा कृत्रिमाकृत्रिमयो: ० इति न्यायेन कृत्रिमाच्चक्षादेशादेव ख्यो डः प्राप्नोति, न त्वकृत्रिमात् ख्यांक्धातोरिति । “उपसर्गाद्दः किः'' ।।५।३।८७।। इत्यादौ तु " अवौ दाधौ दा" || ३ | ३ |५|| इति दासंज्ञा धातवो गृह्यन्ते, दा इति संज्ञासद्भावात् । तेन आदिरित्यत्र दारूपसद्भाव इव आधिरित्यादौ दारूपाभावेऽपि किः सिद्धः ।