________________
श्रीहेमहंसगणिविरचिता
न्यायसंग्रहनाम्नो न्यायसूत्रस्य स्वोपज्ञन्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । त्रैलोक्याह्लादहेतुश्रीसोमसुन्दरमूर्तये । नमः श्रीसिद्धचक्राय जगज्ज्येष्ठाय तायिने ॥ १॥ न्यायाध्वन्यध्वगानां दिशि दिशि सुयशोऽद्यापि रामादिराजां न्यायोपात्तानि वित्तान्यसमसुखकराण्यत्र चामुत्र चापि ॥ न्याय्यत्वादेव जय्यं न खलु खलगिरां शासनं जैनचन्द्रं
तन्नित्यं न्यायवृत्तिं शुभपदफलदामाद्रियध्वं बुधेन्द्राः ॥२॥ इह तावत्सुगृहीतनामधेयप्रभुश्रीहेमचन्द्राचार्यैः स्वोपज्ञसंस्कृतशब्दानुशासनबृहद्वृत्तिप्रान्ते सप्तपञ्चाशन्यायाः समुच्चीयन्ते स्म । तेषां चानित्यत्वमुपेक्ष्य व्याख्योदाहरणज्ञापकानामेव प्रज्ञापनी कनीयसी टीका कैश्चित्प्राचीनानूचानैश्चक्रे ।
साम्प्रतं तु पूर्वं समुच्चिताना सप्तपञ्चाशतः स्वसमुच्चितानां च चतुरशीतेायानां सूत्रोद्देशपूर्वं व्याख्याप्रयोजनोदाहरणज्ञापकानि यथायोगमनित्यतां तज्ज्ञापकं च प्रत्याययितुमियं न्यायसंग्रहनाम्नो न्यायसूत्रस्य न्यायार्थमञ्जूषानाम्नी वृहद्वृत्तिवितन्यते ।
तत्र सूत्रादौ मङ्गलार्थं नमस्कार : । ॐरूपाय नमः श्रीमद्हैमव्याकरणाय च ।
श्रीसोमसुन्दरगुरूत्तंसाय च नमोनमः ॥ १ ॥ अत्र ओमित्यस्य रूपमर्हदशरीराचार्योपाध्यायमुनीनामाद्यवर्णैर्निष्पन्नं नमस्कार्यत्वेनेष्टं, तेन च परिमेष्ठिपञ्चकनमस्कारः सिद्धः । इह चादौ सर्वगुरुर्मगणः, पृथ्वीतत्त्वं श्रीहेतो
य॑स्तम् । यदाहुः - मो भूमिः श्रियमातनोतीति । ओमित्यस्य नम इति पदयोजने ॐ नमः इति च पठितसिद्धमन्त्रः सर्वथाऽभ्युदयहेतवे न्यस्तः । श्रीमद्हैमव्याकरणस्य च सम्यग्दृष्टिपरिगृहीतत्वेन श्रुतज्ञानत्वान्नमस्कारो, विशेषतश्च प्रस्तुतग्रन्थेऽस्यैवाधिकृतत्वात् । स्वगुरुनमस्कारे च विशेषभक्तिहेतुकसम्भ्रमद्योतनार्थं "असकृत्सम्भ्रमे" ॥७।४।७२॥ इत्यनेन नमःशब्दस्यासकृद्भावः । शिष्टं स्पष्टम् ॥१॥
अथ श्रीहेमचन्द्राचार्यैरेव न्यायसूत्रस्यादौ यदुक्तमादिवाक्यं तदत्रोच्यते ।