________________
न्यायसङ्ग्रहः । यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १ ॥ यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः ॥ २ ॥ येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ॥ ३ ॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥ ४ ॥ सामान्यातिदेशे विशेषस्य नातिदेशः ॥ ५ ॥ सर्वत्रापि विशेषेण सामान्यं बाध्यते न तु सामान्येन विशेषः ॥ ६ ॥ ङित्त्वेन कित्त्वं बाध्यते ॥ ७ ॥ परादन्तरङ्गं बलीयः ॥ ८ ॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते ॥ ९ ॥ विधिनियमयोविधिरेव ज्यायान् ॥ १० ॥ अनन्तरस्यैव विधिनिषेधो वा ॥ ११ ॥ पर्जन्यवलक्षणप्रवृत्तिः ॥ १२ ॥ न केवला प्रकृतिः प्रयोक्तव्या ॥ १३ ॥ क्विबर्थं प्रकृतिरेवाह ॥ १४ ॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥ १५ ॥ विचित्राः शब्दशक्तयः ॥ १६ ॥ किं हि वचनान्न भवति ॥ १७ ॥ न्यायाः स्थविरयष्टिप्रायाः ॥ १८ ॥
एतेऽष्टादश न्यायाः, पूर्वैः सर्वैः सह चत्वारिंशं शतं स्तोकस्तोकवक्तव्याः ॥ एकस्त्वयं बहु वक्तव्यः । शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः ॥ इति श्रीसिद्धहेमचन्द्रव्याकरणस्थन्यायसंग्रह : ।
श्रीसूरीश्वरसोमसुन्दरगुरोनिश्शेषशिष्याग्रणीगच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् ॥ . तच्छिष्याश्रवहेमहंसगणिना श्रीसिद्धहेमाभिधे . न्याया व्याकरणे विलोक्य सकलाः संसंगृहीता इमे ॥ १ ॥ प्रत्यक्षरं गणनया ग्रन्थेऽस्मिन्न्यायसंग्रहे । श्लोकानामष्टषष्टिः स्यादधिका च दशाक्षरी ॥ २ ॥ ग्रन्थाग्रम् श्लो ० ६८ अक्षर - १० ॥