________________
न्यायसङ्ग्रहः । मंजान्तरबाधिका ॥ २७ ॥ सापेक्षमसमर्थम् ॥ २८ ॥ प्रधानस्य तु सापेक्षत्वेऽपि समासः ॥ २९ ॥ तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥ ३० ॥ गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः ॥ ३१ ॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ॥ ३२ ॥ आदशभ्यः सङ्ख्या सङ्खयेये वर्त्तते न सङ्ख्याने ॥ ३३ ॥ एकशब्दस्यासङ्ख्यात्वं क्वचित् ॥ ३४ ॥ णौ यत्कृतं कार्यं तत्सर्वं स्थानिवद्भवति ॥ ३५ ॥ द्विर्बद्धं सुबद्धं भवति ॥ ३६ ॥ आत्मनेपदमनित्यम् ॥ ३७ ॥ क्विपि व्यञ्जनकार्यमनित्यम् ॥ ३८ ॥ स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि ॥३९॥ अनित्यो णिच्चुरादीनाम् ॥ ४० ॥ णिलोपोऽप्यनित्यः ॥ ४१ ॥ णिच्सन्नियोग एव चुरादीनामदन्तता ॥ ४२ ॥ धातवोऽनेकार्थाः ॥ ४३ ॥ गत्यर्था ज्ञानार्थाः ॥ ४४ ॥ नाम्नां व्युत्पत्तिरव्यवस्थिता ॥ ४५ ॥ उणादयोऽव्युत्पन्नानि नामानि ॥ ४६ ॥ शुद्धधातूनामकृत्रिमं रूपम् ॥ ४७ ॥ क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते ॥ ४८ ॥ उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् ॥ ४९ ॥ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति ॥ ५० ॥ येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ ५१ ॥ यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥ ५२ ॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥ ५३ ॥ त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ ५४ ॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ५५ ॥ यावत् सम्भवस्तावद्विधिः ॥ ५६ ॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥ ५७ ॥ सर्वं वाक्यं सावधारणम् ॥ ५८ ॥ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ।। ५९ ॥ द्वौ नौ प्रकृतमर्थं गमयतः ॥ ६० ॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥ ६१ ॥ चानुकृष्टं नानुवर्तते ।। ६२ ॥ चानुकृष्टेन न यथासङ्ख्यम् ॥ ६३ ॥ व्याख्यातो विशेषार्थप्रतिपत्तिः ॥ ६४ ॥ यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥ ६५ ॥
इत्येते पञ्चषष्टिः, पूर्वैः सह द्वाविंशं शतं न्याया व्यापका ज्ञापकादियुताश्च ।
अतः परं तु ये वक्ष्यन्ते ते केचिदव्यापकाः प्रायः सर्वे ज्ञापकादिरहिताश्च; ते चामी --