________________
न्यायसङ्ग्रहः । मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ ३७ ॥ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ॥ ३८ ॥ यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते ॥ ३९ ॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः ॥ ४० ॥ बलवन्नित्यमनित्यात् ॥ ४१ ॥ अन्तरङ्गं बहिरङ्गात् ॥ ४२ ॥ निरवकाशं सावकाशात् ॥ ४३ ॥ वार्णात्प्राकृतम् ॥ ४४ ॥ य्वृद् य्वृदाश्रयं च ॥ ४५ ॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६ ॥ लुबन्तरङ्गेभ्यः ॥ ४७ ॥ सर्वेभ्यो लोपः ॥ ४८ ॥ लोपात्स्वरादेशः ॥ ४९ ॥ आदेशादागमः ॥ ५० ॥ आगमात्सर्वादेशः ॥ ५१ ॥ परान्नित्यम् ॥ ५२ ॥ नित्यादन्तरङ्गम् ॥ ५३ ॥ अन्तरङ्गाच्चानवकाशम् ॥ ५४ ॥ उत्सर्गादपवादः ॥ ५५ ॥ अपवादात् क्वचिदुत्सर्गोऽपि ॥५६ ॥ नानिष्टार्था शास्त्रप्रवृत्तिः ॥ ५७ ॥
एते न्यायाः प्रभुश्रीहेमचन्द्राचार्यैः स्वोपज्ञसंस्कृतशब्दानुशासनबृहद्वृत्तिप्रान्ते समुच्चितास्तैरसमुच्चितास्त्वेते --- .
प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ १ ॥ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ २ ॥ अदाधनदाद्योरनदादेरेव ॥ ३ ॥ प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ॥ ४ ॥ निरनुबन्धग्रहणे सामान्येन ॥ ५ ॥ साहचर्यात् सदृशस्यैव ॥ ६ ॥ वर्णग्रहणे जातिग्रहणम् ॥ ७ ॥ वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ ८ ॥ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ ९ ॥ आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ १० ॥ स्वाङ्गमव्यवधायि ॥ ११ ॥ उपसर्गो न व्यवधायी ॥ १२ ॥ येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ १३ ॥ ऋकारापदिष्टं कार्य लकारस्यापि ॥ १४ ॥ सकारापदिष्टं कार्यं तदादेशस्य शकारस्यापि ॥ १५ ॥ हस्वदीर्घापदिष्टं कार्यं न प्लुतस्य ॥ १६ ॥ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य ॥ १७ ॥ ग्रहणवता नाम्ना न तदन्तविधिः ॥ १८ ॥ अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति ॥ १९ ॥ गामादाग्रहणेष्वविशेष : ॥ २० ॥ श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ॥ २१ ॥ अन्तरङ्गानपि विधीन् यबादेशो बाधते ॥ २२ ॥ सकृद्गते स्पर्द्ध यद् बाधितं तद् बाधितमेव ॥ २३ ॥ द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः ॥ २४ ॥ कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्योऽट् च ॥ २५ ॥ पूर्वं पूर्वोत्तरपदयोः कार्यं कार्यं पश्चात्सन्धिकार्यम् ॥ २६ ॥ संज्ञा न
-
.