________________
श्रीहेमहंसगणिसंगृहीतः श्रीसिद्धहेमचन्द्रव्याकरणस्थ -
• न्यायसंग्रहः .
ॐरूपाय नमः श्रीमद्हैमव्याकरणाय च ।
श्रीसोमसुन्दरगुरूत्तंसाय च नमोनमः ॥ १ ॥ अथ ये तु शास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थं यत्नः क्रियते ।
स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ १ ॥ सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य ॥ २ ॥ ऋतोर्वृद्धिमद्विधाववयवेम्यः ॥ ३ ॥ स्वरस्य हुस्वदीर्घप्लुताः ॥ ४ ॥ आद्यन्तवदेकस्मिन् ॥ ५ ॥ प्रकृतिवदनुकरणम् ॥ ६ ॥ एकदेशविकृतमनन्यवत् ॥ ७ ॥ भूतपूर्वकस्तद्वदुपचार : ॥ ८ ॥ भाविनि भूतवदुपचार : ॥ ९ ॥ यथासङ्ख्यमनुदेशः समानाम् ॥ १० ॥ विवक्षातः कारकाणि ॥ ११ ॥ अपेक्षातोऽधिकारः ॥ १२ ॥ अर्थवशाद्विभक्तिपरिणामः ॥ १३ ॥ अर्थवद्ग्रहणे नानर्थकस्य ॥ १४ ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ १५ ॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥ १६ ॥ प्रकृतिग्रहणे यङ्लुबन्तस्यापि ॥ १७ ॥ तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥ १८ ॥ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ १९ ॥ असिद्धं बहिरङ्गमन्तरङ्गे ॥ २० ॥ न स्वरानन्तर्ये ॥ २१ ॥ गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः ॥ २२ ॥ कृत्रिमाकृत्रिमयोः कृत्रिमे ॥ २३ ॥ क्वचिदुभयगतिः ॥ २४ ॥ सिद्धे सत्यारम्भो नियमार्थः ॥ २५ ॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ॥ २६ ॥ नत्रुक्तं तत्सदृशे ॥ २७ ॥ उक्तार्थानामप्रयोगः ॥ २८ ॥ निमित्ताभावे नैमित्तिकस्याप्यभावः ॥ २९ ॥ सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः ॥ ३० ॥ नान्वाचीयमाननिवृत्तौ प्रधानस्य ॥ ३१ ॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥ ३२ ॥ एकानुबन्धग्रहणे न द्वयनुबन्धकस्य ॥ ३३ ॥ नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ॥ ३४ ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि ॥ ३५ ॥ पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ॥ ३६ ॥