SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १४ द्विज: X X x X X कर्णः - (अपवा प्रतिहारस्य कर्णे । ) एवमेव । विजयपाल- विरचितं कर्णः ( प्रतीहारस्तथा करोति । ) (द्विजः सर्वानपि शरानाकृध्य कराभ्यां निष्पिष्य वज्रसारशरद्वयमेव दर्शयति । ) प्रतीहारः X शरजालेऽमुना क्षुण्णे परिशिष्टावुभौ शरौ । युगान्तसंहृते विश्व देवौ हरिहराविव ||१३|| कृष्णः - (स्वगत ) अमुना भुवनाद्भुतेन भुजबले भवते भवते ( 2 ) ..... (इति प्ररिक्रामति । स्मृत्या) वयमपि दुःसाधराधावेधसमुद्यतदुर्योधनवसुधाधिपसविधमधिगच्छामः । ( इति निष्क्रान्तः ! ) भीमः - (परिकम्य ) कथममी भ्रातरो मामेव प्रतीक्षमाणाः प्रेक्ष्यन्ते । (ततः प्रविशन्ति युधिष्ठिरादय; 1 ) भीमसेनः - ( शरौ दर्शयति) प्रचल सत्वरम् (१) । येन तत्र मण्डपे गच्छाम इति । सर्वे(परिक्रम्य पुरोऽवलोकय च ) अये ! कथमयं मिलत्सकलकाश्यपीवलयमहीपालमाला परिकर लोकसङ्कुलिताकलित बहुलकोलाहलले नभस्तलतरलविपुलपत का मण्डलीमण्डितो राधामण्डपः । ( ततः प्रविशति यथोक मण्डपस्थः सकल दिगन्तागत नृप चक्र परिकलितो राधास्तम्भ सविधस्थितो द्रुपदः । युधिष्ठिरादयः सर्वे मण्डपैकदेशेन च विशन्ति । ) युधिष्ठिरः - ( समन्तादवलोक्य) व्यसनी तत्रभवान् वसुदेवनन्दनः । कथमद्यापि चिरयति अस्मद्भ्युदय साहाय्यक (ततः प्रविशति सोन्मादयादवजनानुगम्यमानः कृष्णः । ) (समन्ताद् मण्डपमवलोक्य स्वगतम् | ) शक्रातिक्रमविक्रमक्रमचणं चक्रं नृपाणामितो वीरैः स्वैरमितो वृतो मदधनो दुर्योधनो भूपतिः । भूपालः शिशुपाल एष कलितो निस्वानवैर्दानवैः प्रच्छन्नाकृतयश्च पौरुषपुषः पश्वाप्यमी पाण्डवाः ||१४
SR No.005715
Book TitleDropadi Swayamvaram
Original Sutra AuthorN/A
AuthorJinvijay, Shantiprasad M Pandya
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages90
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy