________________
[ जैन दृष्टि तिथिहिन अने पर्वाशधन...
(४) 'वृद्धौ कार्या तथोत्तरा' इत्यस्य शास्त्रस्यायमर्थः - टिप्पणे तिथीनां वृद्धौ दृष्टायामाराधनार्थ उत्तरा द्वितीया तिथिः स्वीकर्तव्या इति । वृद्धा तिथिद्विरुदयं स्पृशतीति कतरा औदयिकी तिथिरिति संदेहे 'वृद्धौ कार्या तथोत्तरा' इति नियमविधिविधायकेन शास्त्रेणोत्तरस्यामेवौदयिकत्वं नियम्यते । यानि त्वाचार्य श्रीसागरानन्द सूरिभिलौकिक टिप्पणागतानां तिधीनां वृद्धौ पूर्वपूर्वतरतिथिवृद्ध्यर्थमुपन्यस्तानि प्रमाणानि शास्त्राणि च तेषां प्रामाण्यं च शास्त्रत्वं चासिद्धमेव । जीतव्यवहारबलाच्चेतत्सिध्यति, तदा जीतव्यवहारसिद्धये येंऽशाश्चत्वारोऽपेक्षितास्तेषां चैकल्याज्जी तव्यवहारोऽप्यसिद्धः । एवं चाष्टमीवृद्धौ द्वितीयाष्टमी, चतुर्दशीवृद्धौ द्वितीया चतुर्दशी, पूर्णि मामावास्यो द्वैधे द्वितीया पूर्णिमा अमावास्या वा, भाद्रशुक्लचतुर्थ्याश्च वृद्धौ द्वितीयैव चतुर्थी ग्राह्या । भाद्रशुक्लपञ्चम्यास्तु प्रधानपर्वतिथित्वमेव व्यपगतमित्यसकृदुक्तं पुरस्तात् । वृद्धायास्तिथेः प्रथमो दिवसः अधिकमासवन्नपुंसक इत्याराधनायां नैवोपयुज्यते । तिथेरनुपयोगे न क्वापि शास्त्रे किंचन प्रायश्चितं दृष्टमित्यनुपयोगे दोषदुष्टत्वं नास्ति ।
२४४
(५) तिथीनां वृद्धिक्षयविषये आचार्यश्री सागरानन्दसूरिभिः शास्त्रसिद्धत्वेनोपन्यस्तं तिथिपरिवर्तनं तपागच्छीयैः शास्त्रैर्नैवानुमन्यते । तैरुपन्यस्तो जीतव्यवहारोऽप्येतद्विषयकः शास्त्रेणासिद्धः ।
(६) सांवत्सरिकं प्रतिक्रमणं तिथिनियता आराधना । सा च टिप्पणप्राप्तायां भाद्रशुक्लचतुर्थ्यामाराधनीया । कालकाचार्यैः कस्यचिद्राज्ञो विशतिमनुरुध्य भाद्रशुक्लपञ्चमीनियतेन तद्देशोयेनेन्द्र महोत्सवेन विरोधो मा भूदिति, षष्ठयां च शास्त्रविरोधभयेन, सा चतुर्थ्यां स्थापिता, सर्वैरपि तपागच्छोयश्रीजैन संघीयैरनुमता । एवं जीतव्यवहारसिद्धा भाद्रशुक्लचतुर्थ्येव सांवत्सरिकप्रतिक्रमणस्य नियता तिथिः । तद्वशाश्च चतुर्दशी पाक्षिकस्य चातुर्मासिकस्य च प्रतिक्रमणस्य नियता तिथिः । भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वमेव व्यपगतमिति तद्वृद्धिक्षयनिमित्तं शास्त्रैरसिद्धं तृतीयावृद्धिक्षयप्रवर्तनं कदाग्रह एव ।
(७) आषाढ पूर्णिमामारभ्य, अथवा वर्षावासदिनादाषाढशुक्लचतुर्दश्या आरभ्य भाद्रशुक्लचतुर्थी यावद् या सविंशतिरात्रस्य मासस्य गणना शास्त्रेषु दृश्यते स प्रायोवाद देव । एवमेव भाद्रशुक्लचतुर्थ्या आरभ्य कार्तिकशुक्लचतुर्दशीं यावद् या सप्ततिरात्रगणना सोऽपि प्रायोवादः । प्रायो बहुषु संवत्सरेषु तस्था गणनायाः पूर्तिर्भवेदेव । श्रावण भाद्रपदाद्यधिकमासप्राप्तौ सा दिनगणना शास्त्रनिर्दिष्टां संख्यां व्यभिचरत्येव । तत्र यथा तपागच्छीयैरधिकमासदिनानि नैव गण्यन्ते, एवमेव क्षीणवृद्धतिथीनामपि गणनं तैर्नैव कर्तव्यं तद्वशाच्च सांवत्सरिकप्रतिक्रमणस्य नियता तिथिनैव परिवर्तनीया ।
(८) लौकिक टिप्पणस्वीकारे पर्वापर्वतिथि संकरस्तथा आराधना संकर इत्यादयो ये दोषा आचार्यश्री सागरानन्द सूरिभिरुत्प्रेक्षिताः तेषां शास्त्रेषु क्वाप्यदर्शनात्तथा तद्दोषनिमित्तं शास्त्रेषु प्रायचित्ताविधानाददोषत्वमेव सिध्यति । हीरप्रश्नादिशास्त्रेषु पूर्णिमादिक्षये प्राप्तानां तपआदीनां या व्यवस्था सूचिता, सैव समीचीनेति मन्यामहे । सैव च सर्वैरप्याश्रयणीया ।
अन्ततश्च विवादेऽस्मिन्नवतीर्णानामुभयेषामप्याचार्याणां विषये किमप्यवश्यं निवेदनीयम् । वादिप्रतिवादिशब्दप्रयोगः, अर्थिप्रत्यर्थिशब्दप्रयोगश्च किमपि प्रयोजनमुद्दिश्यैव परिहृत इत्यप्यवश्यं मनसि निधेयमेभिः । तत्र प्रथमं तावदाचार्यश्री सागरानन्दसूरयः । वैदुष्यमेषां सार्वजनीनम् । श्वेताम्बर जैनागम संपादनेन तथा सिद्धगिरेरुपत्यकायामागमन्दिरकल्पनाप्रतिष्ठापनाचातुर्येण च यथार्थमेव 'आगमोद्वारकाः' इत्येषां बिरुदम् । संविग्नगीतार्थाचेते तपागच्छीयेभ्यः साधुभ्यः श्रावकेभ्यश्च परं बहुमानं लभन्ते । आगमोक्ताचारप्रतिष्ठापनमेव परं प्रयोजनमुद्दिश्य सिद्धान्तटिप्पणकप्रचारः कर्तुमेषामभिमतः । किं तु केवलैजैनागमेषु समुपलभ्यमानैः करणैरशक्यैव सिद्धान्तटिप्पणविरचना, अशक्य
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org