________________
२४३
...सवाहा ययाने मन्ते आसा सवाश्रीना निणय ] विवादप्रशमाय प्रवृत्तो न तु तवृद्धये इत्यप्यवश्यं मनसि निधेयमुभयैरप्याचार्यः । इदं च नः प्रमोदभरमावहति यदुभयेऽप्याचार्यास्तत्त्वबुभुत्सयैव विवादमवतीर्णा न विजिगीषया । निर्णयश्चाधोनिर्दिष्टो देवसूरतपागच्छीयानां शास्त्राणि समालोच्य प्रमाणसिद्धं च जीतव्यवहारमवलम्ब्य प्रदत्तस्तत्त्वमेव केवलं बोधयति । अतस्तत्त्वावबोधपरायणैरुभयैरप्याचार्यैः सौमनस्येन स स्वीकर्तव्यः, स्वीकृत्य च श्रीश्वेताम्बरमूर्तिपूजकजैनसंघस्य पूर्वाचार्यप्रणीतां सामाचारीमद्य यावत्प्रतिपालयद्भिर्देवसूरतपागच्छीयैः श्रीजैनसंघभेदः संमुखीनः परिहर्तव्यः । संघसामग्रयामेव धर्मवृद्धिरायत्तेत्यपि नैव विस्मर्तव्यमेभिः ॥ निगमनं निर्णयश्च । ___ तदेवमाचार्यद्वयेनोपन्यस्तानां विवादपदानां यथावद्विमर्शन जैनशास्त्राणां च समालोचनेन प्राप्तं निगमनं निर्णयश्चैवम्-- __ (१) श्रीश्वताम्बरमूर्तिपूजकजेनेषु तपागच्छीयेन चतुर्विधनापि संघन लौकिकलोकोत्तरासूभयविधास्वप्याराधनासु यथानिर्दिष्टतिथिक्षयवृद्ध्यधिकमाससहितं योधपुरीयं चण्डांशुचण्डुपञ्चाङ्गमुपयोक्तव्यम । जैनटिप्पणापरपर्यायं सिद्धान्तटिप्पणं बहोः कालाद् व्युच्छिन्नमिति तस्य प्रचार पव नास्ति । आगमानुसारिजैनटिप्पणकं पुनः प्रवर्तयितुमपि न शक्यमिति श्रीजैनसंघेन संप्रति तदभ्युपगमोऽप्यशक्य एव ।।
(२) चण्डांशचण्डपञ्चाङ्गानुसारतस्तिथीनां वृद्धौ क्षये वा प्राप्ते उमास्वातिवचप्रघोषत्वेन प्रसिद्ध मध्यस्थनिर्णीतार्थ 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इति शास्त्रमाश्रित्य तिथिनिश्चयः कर्तव्यः ।
(३) उपरिनिर्दियस्योमास्वातिवचनस्यायमथा मध्यस्थन निर्णतः-टिप्पणे कस्याश्चित्तिथेः क्षये दृष्टे क्षीणतिथेराराधनार्थं पूर्वा तिथिः कार्या, क्षीणतिथिविषयकमाराधनं पूर्वस्यां तिथौ कार्यमित्यर्थः । श्रीजैन संघेनाराधनार्थमौदयिकी तिथिरपेक्ष्यते, तिथिक्षये तु तादृशतिथरत्यन्तमप्राप्तौ अपूविधिविधायकेन 'क्षये पूर्वा तिथिः कार्या' इति शास्त्रण क्षीणायास्तिथेः पूर्वस्यां स्थापना क्रियते, एवं क्षीणा तिथिरौदयिकी भवति, ततश्च सा आराधनार्थमुपयुज्यते । तथा च, अटम्यां क्षीणायां पूर्ववर्तिनी सप्तम्येव तदाराधनार्थमष्टमी कर्तव्या । एवं चतुर्दशीक्षये पूर्ववर्तिनी त्रयोदश्येव चतुर्दशीत्वेन स्वीकरणीया, पाक्षिकं च प्रतिक्रमणं तस्यामेवानुष्टेयम् । पूर्णिमाक्षयेऽमावास्याक्षये च पूर्वस्याश्चतुर्दश्याः पाक्षिकार्थमुपयुक्तत्वात्तदभिग्रहरूपं तप आदिकं श्रीहीरप्रश्ननिर्दिष्टेन पथा त्रयोदश्यामनुष्ठेयम् , पाक्षिकानुष्ठानेनाविरोधश्चेच्चतुर्दश्यामनुष्ठयम , यथारुचि वा प्रतिपद्यप्यनुष्ठेयम् । पाक्षिकं प्रतिक्रमणं नाम तिथिनियतमनुष्टानम् , तत्र मुख्यातिथिटिप्पणप्राप्ता औदयिकी चतुर्दशी, अतः पूर्णिमामावास्ययोः क्षयेऽपि पाक्षिकं मुख्यायामेवौदयिक्यां चतुर्दश्यां कार्यम् , क्षीणतिथिविषयकस्तु तपआदिकोऽभिग्रहः पूर्वं पश्चाद्वा यथारुच्यनुष्ठेयः । एवं भाद्रशुक्लचतुर्थ्याः क्षये सांवत्सरिकं प्रतिक्रमणं पूर्ववर्तिन्यां तृतीयायां चतुर्थी स्थापयित्वाराधनीयम् । भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वमेवापगतमिति तस्याः क्षये तद्गतस्तपआदिकोऽभिग्रहो यथारुचि पूर्व पश्चाद्वानुप्ठेयः, सांवत्सरिकेनाविरोधश्चेद् भाद्रशुक्लचतुर्थ्यामपि। भाद्रशुक्लपञ्चमीक्षयनिमित्तस्तृतीयायाः क्षयः
सिद्धः। कल्याणकाढीन्यपि सिद्धान्तप्रोक्तायामेवानुष्ठेयानीति तद्विषयेऽप्ययमेव न्यायः प्रयोक्तव्यः । अस्मिन्नर्थे स्वीक्रियमाणे पर्वापर्वतिथिसंकरादयः आराधनासंकरादयश्च ये दोषा आचार्यश्रीसागरानन्दसूरिभिरुत्प्रेक्ष्यन्ते तेषां शास्त्रेष्वदर्शनात्तथा तादृशदोषोत्पत्तौ प्रायश्चित्ताविधानाददोषत्वमेव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org