________________
૨૪૨
[रेन दृष्टिो तिथिहिन भने पाराधन... तु तिथिनियतम् । तस्य लौकिकटिप्पणागतामौदयिकी मुख्यां चतुर्दशीतिथिं परिहृत्यान्यस्यामनुष्ठान एव दोष इति नो निर्णयः। कल्याणकाराधनेऽपि मुख्यानामौदयिकीनामेव तिथीनामुपरिनिर्दिष्टेनैव पथा स्वीकारः कार्यः।
एवं पूर्णिमामावास्ययोवृद्धावपि त्रयोदशीवर्धनं न शास्त्रसिद्धम् । तत्राप्यौदयिकी शास्त्रागतां मुख्यां तिथिं परिहृत्य गौणायां चतुर्दश्यां (लौकिकटिप्पणागतायां प्रथमपूर्णिमायां ) पाक्षिकानुष्ठाने दोष एवेति सकलस्यैवोमास्वातिवच प्रघोषस्य प्रामाण्यमभ्युपगम्य तदागता तिथिरेव स्वीकर्तव्या। वृद्धौ प्रथमा तिथिरधिकमासश्च नपुंसकत्वादाराधनायां नैवोपयुज्यते इति दिक् । ____भाद्रशुक्लपञ्चम्याः संप्रति प्रधानपर्वतिथित्वमेव नास्तीति तस्या वृद्धौ क्षये वा तृतीयाया वृद्धिः क्षयो वा नैव समर्थनीय इति पुनरप्युद्घोषयामहे । ___ सांवत्सरिकप्रतिक्रमणतिथिनिश्चयेन्येऽपि ये केचन प्रश्ना उत्थाप्यन्ते, तेषामधुना विमर्शः क्रियते । उक्तमेव पुरस्तादस्माभिर्यत्कल्पसूत्राद्यागमग्रन्थानुसारेण सांवत्सरिकप्रतिक्रमणस्य भाद्रशुक्लपञ्चमी, तथा चातुर्मासिकप्रतिक्रमणस्य आषाढपूर्णिमैव नियता तिथिरासीत् । तत्र संवत्सरी आषाढपूर्णिमायां वर्षावासप्रारम्भदिवसात्सविंशतिरात्रे मासे गते प्राप्नोतीति कल्पसूत्रे
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कन्ते वासावासं पजोसवेइ...तहा णं अम्हे वि वासाणं सवीसइराप मासे विइक्कन्ते वासावासं पजोसवेमो। अन्तरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवाइणावित्तए ।
इत्यत्रोक्तम् । सा च पर्युषणातिथिर्भाद्रशुक्लपञ्चमी। किं तु युगप्रधानैः कालकाचार्यैः कस्यचिद्राशोऽनुरोधात्तद्देशविशेषाचाररूपेणेन्द्रमहोत्सवेन सह विरोधो मा भूदिति 'अन्तरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवाइणाइत्तए' इति वचानानुसारतो भाद्रशुक्लषष्ठयां तदाराधनां कर्तुमपारयद्भिः 'अन्तरा वि य से कप्पइ' इति निदेशमाश्रित्य भाद्रशुक्लचतुर्थ्यां निश्चिता । तत्प्रभृति सोऽपि तपागच्छीयः श्रीश्वेताम्बरमूर्तिपूजकजैनसंघश्चतुर्थ्यामेव संवत्सरीमाराधयति । वर्षावासदिनादारभ्य भाद्रशुक्लचतुर्थी सविंशतिरात्रस्य मासस्यातिकमार्थ चातुर्मासिकं प्रतिक्रमणमप्याषाढशुक्लचतुर्दश्यां निश्चितं तद्वदेव पाक्षिकं प्रतिक्रमणं प्रतिपक्षं चतुर्दश्यामिति नो मतिः। तदेवाद्यावधि तेषामनुमतमाचीर्णं च । तत्र पुनः 'सविंशतिरात्रे मासे व्यतिक्रान्ते' इत्यस्य कोऽर्थ इति दृश्यते काचिद्विप्रतिपत्तिः । विंशतिरात्रपदस्यार्थस्तु सुलभः एव निश्चेतम । तथाप्यत्र मासशब्देन किं चान्द्रमासः उत सौरमासः आहोस्वित् कर्ममासो ग्राह्य इति विवादविषय एव । तत्र सौरमासस्त्वस्मिन् विषये नैवोपयोक्तुं शक्यः । कर्ममासस्तु त्रिंशदिनात्मकः । चान्द्रमासे वृद्धिक्षयवति कदाचिदेकोनत्रिंशदिनानि भवेयुः, कदाचित् त्रिंशत् , कदाचिदेकत्रिंशदपि भवेयुः। तद्वशाच्चेत्पर्युषणातिथिनिश्चीयेत तदा प्रतिसंवत्सरमपि कदाचित्तिथिभेदः प्राप्नुयादित्येव चतुर्थीनियतं सांवत्सरिकं प्रतिक्रमणम् । रात्रिसंख्यानिर्देशश्चात्र प्रायोवचनः तिथिवचनो वा भवितुमर्हति । एवं पर्युषणादिनानन्तरं वर्षावासस्य सप्ततिरहोरात्राण्यवशिष्यन्त इति यदुच्यते तत्रापि प्रायोवाद एव । तद्वशात्तु सांवत्सरिकप्रतिक्रमणस्य लौकिकटिप्पणागता या नियता तिथिर्भाद्रशुक्लचतुर्थी, तस्याः परिवर्तनं नैव सहामहे तिथिनियतत्वात्संवत्सर्याराधनस्येत्यस्माकं निर्णयः।।
तदेवमाचार्यश्रीसागरानन्दसूरिभिराचार्यश्रीविजयरामचन्द्रसूरिभिश्चास्मिन् विवादे यानि पदानि समुत्थापितानि, तेषां प्रायः सर्वेषामपि पूर्वाचार्यमतानि समालोच्योभयेषामप्याचार्याणां मन्तव्यभेदांश्च विमृश्य निर्णयः कृतः । सन्त्येव केचनावशिष्टा विषयाः आचार्यश्रीविजयरामचन्द्रसूरिभिरस्मत्पुरतः स्थापितेषु विवादपदेषु । न ते विशिष्य निर्णयमहन्तीति नो मतिः । मध्यस्थो हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org