________________
२४१
...सपाही याने मन्ते मा साश्रीन निर्णय ] वचनस्य स्वाभिमतार्थसिद्धये यानि शास्त्राणि समुपन्यस्तानि तानि शास्त्राभासान्येवेति नैव तदीयमभिमतं पुष्णन्तीति सविस्तरं प्रतिपादितमस्माभिः।। ___ अन्ते चाचार्यश्रीसागरानन्दसूरिभिर्देवसूरतपागच्छीयानामियं सामाचारीति यजीतव्यवहाराश्रयेण तस्याः प्रामाण्यं प्रतिपाद्यते तत्परीक्षिप्यामहे । जैनशास्त्रेषु जीतव्यवहारस्य प्रामासिद्धये चत्वारोंऽशा अपेक्ष्यन्ते । ले च (१) युगप्रधानसदृशाचार्यप्रवर्तकत्वम् , (२) किमपि विशिष्टं कारणं प्रयोजनमुद्दिश्य प्रवर्तनम् , (३) प्रवर्तितस्य धर्मस्य शास्त्रैः सहाविरोधः, (४) संविग्नगीता. थैरप्रतिषेधितत्वं बहुभिरनुमतत्वं चेति । यत्र यत्र जीतव्यवहारस्य प्रामाण्यं श्रीजैनसंघेनानुमन्यते तत्र तत्र सर्वेऽप्येतेऽशाः समाप्ता भवन्ति । कालकाचार्यप्रवर्तितसंवत्सरीतिथिपरावर्तनमत्र समुचितमुदाहरणम् । अस्मिन् विषये तु नैव ते समाप्तिमुपयन्ति । यद्यप्याचार्यश्रीविजयदेवसूरयः संघप्रधाना अभूवंस्तथापि जीतव्यवहारप्रामाण्यसिद्धयेऽवशिष्टास्त्रयोंऽशा नैव सिद्धा भवन्तीति जीतव्यवहार ५वासिद्धः, तद्वशाद्देवसूरसामाचारीप्रामाण्यं तु दूरत एव स्थितमिति जीतव्यवहारवलादप्याचार्यश्रीसागरानन्दसूरीणामभिप्रेतस्यार्थस्यासिद्धिरेव विवादपदं नवमम् ।
उमास्वातिवचनस्यास्माभिः सुपरिनिश्चितस्यार्थस्याभ्युपगमे प्रादुर्भवन्ति वा केचन पर्वापर्वः तिथिसंकरादयः आराधनासंकरादयो वा दोषाः इत्यधुना परीक्षामहे । तत्र निर्णीतमेवास्माभिः पुरस्ताद्यथा शास्त्रेषु उमास्वातिवचनमुद्दिश्य तिथीनां प्रापर्वरूपो विभाग एव न दृश्यत इति । एतादृशस्य विभागस्थादर्शनात्तथा निशीथछेदसूत्रादिषु पर्वापर्वतिथिसंकरे आचार्यश्रीसागरानन्दसूरिभिरुत्प्रेक्षितानां दोषाणां प्रायश्चित्तविधानादर्शनाच तादृशस्य दोषस्याभाव ५व निश्चीयते । एवमेव शास्त्रे ग्वाराधनालंकरदोषस्यानुल्लेखात्तद्दोषजन्यप्रायश्चित्तादिविधानादर्शनादप्यभाव एव। तदेवास्मन्मतं किमपि विस्तरेण प्रपञ्चयामः । आचार्यश्रीसागरानन्दसूरिभिरेवं प्रतिपाद्यते-अष्टम्यादितिथीनां क्षये यदि सप्तम्यामेवाष्टमी आरोप्यते, तदा सप्तम्या अपर्वतिथित्वादष्टम्याश्च पर्वतिथित्वाद् द्वयोरेकस्मिन्नेव दिवसे समावेशो न युक्तः, अतः सप्तम्या एव क्षयं कृत्वा टिप्पणागतां च सप्तमीमष्टमीत्वेन परिगृह्याराधनायां क्रियमाणायां तिथिः सुनिश्चिता भवति, पर्वापर्वतिथिलंकरोऽपि न भवतीति । तत्रैवं प्रतिविधीयते-तत्र योऽयं पर्वापर्वतिथिसंकररूपो दोप आचार्यश्रीसागरानन्दसूरिभिरुत्प्रेक्षितस्तस्य शास्त्रेष्वदर्शनात्तदुद्भवे प्रायश्चित्तविधानादर्शनाच्च मृगतृष्णिकारूप ५व । आचार्यश्रीसागरानन्दसूरिभिरभिमतायां तिथिपरिवर्तनप्रक्रियायामाश्रीयमाणायां तु कल्पनागौरवं श्रुतहानिरश्रुतकल्पना चेत्येते दोषाः प्राप्नुवन्ति । अस्मत्प्रदर्शितायां तु प्रक्रियायामुमास्वातिवचोरुपेण अपू
विधिविधायकेन शास्त्रेणेव सप्तम्यामष्टमीस्थापनाविधानात्प्रत्यवाय एव न भवतीति कुतस्तजनितप्रायश्चित्तसंभवः । अतोऽस्मत्प्रदर्शितेनैव पथा सर्वं सुष्टु संगच्छत इत्याचार्यश्रीसागरानन्दसू. रिभिः प्रदर्यमानं लौकिकटिप्पणस्याकुलीकरणं नैव सहामहे ।
पूर्णिमामावास्याक्षये तु सन्त्येव काश्चन विप्रतिपत्तयः, यत्परिहारार्थमेव मन्यामहे आचार्यश्रीसागरानन्दसूरीणां लौकिकटिप्पणाकुलीकरणप्रयासः। पूर्णिमाक्षये अमावास्यायाश्च क्षये पूर्वा तिथिश्चतुर्दशी । सा चौदयिकीति पाक्षिकप्रतिक्रमणेन व्याप्ता । यदि तस्यामेव पुनः पूर्णिमामावास्ययोः समावेशस्तदा पूर्णिमामावास्याराधनस्य पाक्षिकेण सह संकरो विरोधो वा समापतति । तदर्थमेवाचार्यश्रीलागरानन्दसूरयस्त्रयोदशीक्षयं कर्तुं समीहन्ते । तदेतन्नावश्यकं नापि शास्त्रप्रमाणकम् । यानि तु प्रमाणान्याचार्यश्रीसागरानन्दसूरिभिः स्वमतसिद्धये समुपन्यस्तानि तानि प्रमाणाभासा. न्येवेति प्रपञ्चितं प्रारू । हीरप्रश्नादिग्रन्थेषु च तपांसि न तिथिनियतानीति प्रतिपादितम । पाक्षिक ૩૧
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org