________________
[ जैन दृष्टियो तिथिहिन भने पर्वाशधन... मतार्थपरिपोषायोपन्यस्तं तत्परामृश्यते । इदं च तैः ' देवसूरतपागच्छीयानामीदृशी सामाचारी ' इति जीतव्यवहारसिद्धिद्वारा तस्याः प्रामाण्यप्रतिपादनार्थमुपन्यस्तम् । पत्रकमिदं प्रक्षिप्तमिति मध्यस्थस्य ग्रहो मा भूदिति तस्य द्वे हस्तलिखिते, तथा प्रकाशकिरणाधिगता अन्यतरस्य हस्तलिखितस्य प्रतिकृतिरपि तथा मुद्रितं पुस्तकमिति तत्प्रामाण्यसिद्धये सामग्री अपि नः प्रदत्ता । अविज्ञातकर्तृनामधेयकं चतुष्पत्रात्मकं पुस्तकमिदं वैक्रमीय १८९५ तमे संवत्सरे लिखितां प्रतिमामाश्रित्य मुद्रितम् । हस्तलिखिता प्रतिमा तु खरतरीयाणां भाण्डागाराल्लब्धेति ग्रन्थान्तनिर्देशादवगम्यते । मुद्रणसंवत्सरस्तु नैव निर्दिष्टः, किं तु प्रस्तुतस्य विवादस्य प्रादुर्भावानन्तरमेव तन्मुद्रितं भवेदिति तत्रत्यप्रथमपृष्ठाधोवर्तिनटिप्पणादनुमीयते । सोऽयं चतुष्पत्रात्मको ग्रन्थः केन कदा वा लिखित इत्याद्यन्तपरीक्षणेनापि नैव ज्ञातुं शक्यते । ग्रन्थारम्भे 'श्रीविजयदेवीयानाम् ' इति यलिखितं तत्रु संपादयित्रा प्रयुक्तम् । यतो ग्रन्थमध्ये ग्रन्थान्ते वा विजयदेवीयानां नाम्नोल्लेख एव नास्ति । सुनिपुणं परीक्ष्यमाणोऽयं ग्रन्थः परस्परविरुद्धोक्तिबहुलो युक्तिरिक्तश्च दृश्यते । अतस्तस्य प्रामाण्यं प्रत्येव संशेते नः चेतः । अस्मिन् ग्रन्थे सेनप्रश्नहीर प्रश्नयोः सावतरणो नामग्राहमुल्लेखो दृश्यते । उमास्वातिवचः प्रघोषत्वेन प्रसिद्धः श्लोकार्थी द्विरुपन्यस्तः, व्याख्यानं तु तस्य नैवोपलभ्यते । विजयानन्दसूरीयाणां ( आणसूरीयाणां ) पूर्णिमावृद्ध प्रतिपदवृद्धिरिति मतमुपन्यस्य निराक्रियते । ' जैन टिप्पणके तावत् तिथीनां वृद्धिरेव न भवतीति वाक्यमपि प्रत्यन्तरादुपलब्धेन ' तिथीनाम् ' इति स्थाने ' पर्वतिथीनाम् ' इति पाठान्तरेण सहितमुपन्यस्तम् । ततः परं सेनप्रश्नग्रन्थात् 'अष्टम्यादितिथिवृद्धौ अतन्या आराधनं क्रियते ' इत्युपन्यस्य ' वृद्धौ सत्यां स्वल्पाप्यग्रेतना तिथिः प्रमाणम् ' इति निगमनमवलोक्यते । ततः परं पूर्णिमावृद्धौ कथं त्रयोदशीवर्धनमिति प्रश्नमुत्थाप्यैवमुक्तम्
२४०
C
ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः द्वे चतुर्दश्यौ कथं न क्रियेते, तृतीयस्थानवर्तनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि, शृणु तत्रोत्तरम् - जैनटिप्पणके तावत् [ पर्व ] तिधीनां वृद्धिरेव न भवति, ततः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपदवृद्धिर्भवति लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्वात् । तस्मात्सिद्धं चैतत्पूर्णिमावृद्ध त्रयोदशीवर्धनम् '
सर्वोऽप्ययं ग्रन्थो युक्तिरिक्त एव दृश्यते । त्रयोदशीवर्धने न कामपि युक्ति न वा लौकिकं लोकोत्तरं वा शास्त्रमुपन्यस्तमुत्पश्यामः । अग्रे च ' चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज' इत्यनेन ग्रन्थेन पराभिमतपक्षाभ्यनुज्ञया स्पष्टमेवासदुत्तरात्मकजातिदृषितत्वमस्य ग्रन्थस्य प्रतीयते । परस्ताच्च शेषं कोपेन (शापेन वा) पूरयेदिति न्यायेन 'त स्मात् त्यज कदाग्रहम्, कुरु पूर्णिमाभिवृद्ध त्रयोदशीवर्धनम्, अन्यथा गुरुलोपी ठको भविष्यसि' इत्येवंप्रकारेण शापोऽपि दीयते । तदेवंस्वरूपोऽयमविज्ञातकतृकः परस्परविरुद्धोक्तिबहुलो युक्तिरितो ग्रन्थः कथं प्रमाणपदवीं वा शास्त्रपदवीं वा समारोहयेदित्येव तावत्स्वचेतसि चिन्तनीयमाचाश्रीसागरानन्दसूरिभिः । अस्मिन् ग्रन्थे ' क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा ' इत्यस्य न कापि व्याख्या दृश्यते, अष्टमीवृद्धौ द्वितीयाटमीग्रहणम्, पूर्णिमाभिवृद्धावपि द्वितीयपूर्णिमादिनमाराधनार्थमभ्यनुज्ञातमेव स्वाभ्युपगमविरुद्धम् । आचार्यश्रीविजयरामचन्द्रसूरयोऽपि प्रामाण्यमस्य शङ्कन्ते ततु यथार्थमेवेति नो निश्चयः ।
दृष्टाः खल्वस्माभिः काश्चन मुद्रिताः पुस्तिका यास्वाचार्यश्रीसागरानन्दसूरीणामभिप्रेतेन प्रकारेणोमास्वातिवचनस्य व्याख्याः कृता दृश्यन्ते । किं त्वाचार्य श्रीसागरानन्दसूरिभिः स्वमतसिद्धये ताः अनुपन्यस्यद्भिः समीचीनमेवानुष्ठितमित्यभिप्रेयतेऽस्माभिः । उपरिनिर्दिष्टमतपत्रकमिव तासामपि प्रामाण्यविषये संशीतिरेव तेषामिव नश्चेतसि । तदेवमाचार्य श्री सागरानन्दसूरिभिरुमास्वाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org