________________
૨૩૯
...सपाही त्याने मन्ते यावया पाश्रीना निय] पूर्ववर्तिन्या अपर्वतिथेस्त्रयोदश्या एव वृद्धिः । पर्वतिथेः पूर्णिमाया अमावास्याया भाद्रशुक्लपञ्चम्याश्च वृद्धौ पूर्वस्याश्चतुर्दश्या भाद्रशुक्लचतुर्थ्याश्च पर्वतिथित्वात्तत्पूर्वतरवर्तिन्या अपर्वतिथेः त्रयोदश्या भाद्रशुक्लतृतीयायाश्च वृद्धिर्भवतीत्यर्थः।
सेयमाचार्यश्रीसागरानन्दसूरिभिरभिमता व्याख्या मृगतृष्णिकारूपेति नैव प्रामाण्यं भजते । तिथिक्षयवृद्धिनिर्णयाय प्रवृत्ताः सर्वेऽपि तपागच्छीयास्तत्त्वतरङ्गिणीकारादयः उमास्वातिवचःप्रघोपत्वेन प्रसिद्धमुभयमपि चरणद्वयमावृत्त्या युगपदुपदिशन्तीत्यसकृद् दृष्टत्वादेकस्य प्रामाण्यमपरस्याप्रामाण्यमिति वक्तुमपि न युक्तमित्युभयोरेव चरणयोः प्रामाण्यपरिग्रहो युक्तः। नो चेत् श्रुतहानिरश्रुतकल्पना चेति दोषद्वयस्य ते भागिन एव भवेयुः । कल्पनागौरवदोषस्तु न प्रपञ्चमधिकतरमर्हति । एवं च क्षये पूर्वा तिथिः कार्येत्यस्य शास्त्रस्यातिदेशवाक्यत्वेन वृद्धिविषये योजना न प्राणाण्यमहतीति निःशङ्कमभिप्रेमः ।
अथैतादृशस्य व्याख्यानस्य प्रामाण्यसिद्धये यानि शास्त्रवचनान्याचार्यश्रीसागरानन्दसूरिभिरुपन्यस्तानि तानि परीक्ष्यन्ते । इदमत्रावश्यं निर्देष्टव्यं यदत्रामुकेनाचार्येणोमास्वातिवचनं यथोपरिनिर्दिष्टेन पथा व्याख्यातमित्येवंरूपं प्रत्यक्षं वचनं नास्त्येव । अतोऽनुमानमाश्रित्य तैः स्वाभिप्रायानुरूपस्यार्थस्य समर्थनं करणीयम् । तच्चानुमानं यथा न प्रमाणं किंत्वनुमानाभासमिति विस्तरेण पुरस्तात्प्रतिपादयिष्यामः । तच्चानुमानं 'हीरप्रश्ने' तथा 'श्रीविजयदेवीयानां पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या पव वृद्धिर्भवतीति मतपत्रकम्' इत्यभिधे पत्रचतुष्टयात्मके पत्रके लभ्यमानेभ्यो ग्रन्थांशेभ्यः सुप्रतिष्ठितं भवतीति ते मन्यन्ते । ___हीरप्रश्नो नाम प्रश्नोत्तरसंग्रहरूपो वैक्रमीय १६५० तमे वत्सरे विरचितो ग्रन्थः । आचार्यश्रीहीरविजयसूरिभ्यस्तच्छिष्यैर्य प्रश्नाः पृष्टास्तेषां च तैर्यान्युत्तराणि प्रदत्तानि तेषां संग्रहरूपः, तच्छिज्येष्वन्यतमेन श्रीकीर्तिविजयेन संगृहीतः । तत्र द्वीपवन्दवासिना संघेन पृष्टेषु प्रश्नेष्वन्यतमोऽयं प्रश्नः-'पञ्चमी तिथिस्त्रटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते, पूर्णिमायां च त्रुटितायां कुत्रेति' प्रश्नः । अत्रोत्तरम्-'पञ्चमी तिथिस्युटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते । पूर्णिमायां च श्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते, विस्मृतौ तु प्रतिपद्यपि' इति । ___ अत्र चाचार्यश्रीसागरानन्दसूरयस्तिथिक्षयव्यवस्थां स्वाभिमतामुत्प्रेक्षन्ते । न च सा तत्र दृश्यत इति नोऽभिप्रायः । अस्मन्मतेन त्वत्र क्षीणासु तिथिषु तपोव्यवस्था कथं करणीयेति प्रश्नतात्पर्यम् । उत्तरं तु पञ्चम्यां त्रुटितायां पञ्चमीतपश्चतुर्थी कार्यमित्येतद्रूपम् । अत्र पञ्चमीति सामान्यनिर्देशः, स च विशिष्य भाद्रशुक्लपञ्चमी नाधिकरोति । पूर्वस्यामिति पदस्य चतुर्थ्यामित्येवार्थो न्यायप्राप्तः। पूर्णिमातपोविषये तु तिथित्रयनिर्देशः, पूर्णिमातपः त्रयोदश्यां चतुर्दश्यां प्रतिपदि वा कार्यमित्येवास्य वाक्यार्थः । पूर्णिमातपस्तु प्रायोऽभिग्रहविशेषरूपं न तु तिथिनियतमिति तदाचरणं पूर्व पश्चाद्वा कर्तुं शक्यत इत्यस्य तात्पर्यार्थः। स एवार्थो हीरप्रश्नग्रन्थस्थादन्यस्मादपि श्रीहीरविजयसूरीणामुत्तराद्यथा सिद्ध्यति तथा प्रदर्श्यते । तद्यथा_ 'यदा चतुर्दश्यां कल्पो वाच्यते अमावास्यादिवृद्धौ वा अमावास्यायां प्रतिपदि वा कल्पो वाच्यते तदा पष्ठतपः क्व विधेयम्' इतिप्रश्नः । अत्रोत्तरम्-'पष्ठतपोविधाने दिननैयत्यं नास्ति इति यथारुचि तद्विधीयतामिति कोऽत्राग्रहः ।' ____ तदेवं श्रीहीरप्रश्नीयेभ्यो वाक्येभ्यो यथाचार्यश्रीसागरानसूरीणामभिप्रेतः ‘क्षये पूर्वा तिथिः कार्या' इत्यस्यार्थो न संपद्यते तथा प्रदर्शितमस्माभिः ।
अथ श्रीविजयदेवोयानां पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या एव वृद्धिर्भवतीति मतपत्रकम् । श्रीतिथिहानिवृद्धिविचारः' इति पत्रचतुष्टयात्मकं यत्पुस्तकमाचार्यश्रीसागरानन्दसूरिभिः स्वाभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org