________________
२३८
[न दृष्टिय तिथिहिन भने पारायन... मास्वातिवचः-प्रघोषत्वेन प्रसिद्धस्यापूर्वविधिनियमविधिविधायकस्य 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इत्यस्य श्लोकार्धस्यार्थः संपन्नः । स एव शास्त्रसिद्धः प्रामाणिकश्चेति सर्वैरपि तपागच्छीयैरभ्युपगन्तव्य इति निर्णीयते ।।
अथाचार्यश्रीसागरानन्दसूरिभिरभिप्रेतः उमास्वातिवचःप्रघोषस्यार्थो विमृश्यते । प्रथमं तावदेतेषामयमभिनिवेशः, यथा क्षये पूर्वा तिथिः कार्येति श्लोकपादः पर्वतिथीरधिकृत्यैव विनियुज्यते न साधारणापर्वतिथीः । अपि च तैरेवमुद्घोप्यते यत्सूर्यप्रज्ञप्त्याद्यागमग्रन्थेषु तिथीनां वृद्धरनिदेशादुत्तरस्य श्लोकपादस्य प्रामाण्यं प्रत्येव नः संशयः इति । तत्र षष्ठविवादपदविमर्शावसरे निर्णीतमेवास्माभिर्यच्छास्त्रेषु न केनाप्याचार्येण प्राचीनेन 'क्षये पूर्वा तिथिः कार्या' इत्यस्य चरणस्य व्याख्यानावसरे प्रयुक्तौ पर्वापर्वशब्दौ, अतस्तदध्याहारद्वारा क्रियमाणो वाक्यार्थ एवायक्त इति नो मतम् । सिद्धान्तटिप्पणव्युच्छेदानन्तरं साङ्गस्य लौकिकटिप्पणस्य श्रीजैनसंघेनाङ्गीकारात्तत्र च तिथिवृद्धिदर्शनाद् द्वितीयचरणस्यापि प्रामाण्यं जीतव्यवहारसिद्धं सर्वैरपि तपागच्छीयैः शास्त्रकारैर्वहुशोऽभ्युपगतमित्ययुक्ततर श्वायमाधुनिकानां तत्प्रामाण्ये संशयः। ___आचार्यश्रीसागरानन्दसूरिभिरभिप्रेतः 'क्षये पूर्वा तिथिः कार्या' इत्यस्यायमर्थः-यदा लौकिकटिप्पणानुसारतः पर्वतिथेश्चतुर्दश्यादेः क्षयो दृश्यते, तदा पर्वतिथेः पूर्ववर्तिन्या अपर्वतिथेलायोदश्या एव क्षयः कार्यः । एवं च यदा लौकिकटिप्पणानुसारेण पूर्णिमाया अमावास्याया भाद्रशुक्लपञ्चम्याश्च क्षयो दृश्यते, तदा पर्वतिथित्वाच्चतुर्दश्या भाद्रशुक्लचतुर्थ्याश्च क्षयमकृत्वा तत्पूर्वतरवर्तिन्या अपर्वतिथेस्त्रयोदश्या भाद्रशुक्लतृतीयायाश्च क्षयः कार्यः । __ तदिदं 'क्षये पूर्वा तिथिः कार्या' इत्यस्य व्याख्यानं दोषदुष्टमत एवाग्राह्यं नः प्रतिभासते। पर्वापर्वशब्दाध्याहारं कृत्वैव श्लोकपादोऽयमाचार्यश्रीसागरानन्दसूरिभिर्व्याख्यायते । तदध्याहारे च न किमपि प्रमाणं शास्त्रेषु दृष्टचरम् । अस्माभिरपि नैतादृशं व्याख्यानं क्वापि शास्त्रे दृष्टम् । तपागच्छीयैस्तत्त्वतरङ्गिणीकारादीनां स्वोपशव्याख्यायुक्तेष्वपि ग्रन्थेषु 'एवमस्याओं निश्चेतव्यः' इति निदेशलेशोऽपि नोपलभ्यते । असमर्थ एवायं श्लोकपादः आचार्यश्रीसागरानन्दसरिभिरभिप्रेतमर्थं प्रतिपादयितुमित्येव नः सिद्धान्तः । पर्वतिथीनां क्षय एव न भवतीति न केनापि शास्त्रकारेणोक्तम् । प्रत्यत सूर्यप्रज्ञप्त्यादिषु ग्रन्थेषु प्रतियगं पञ्चषाः क्षीणास्तिथयो दृश्यन्त एव । युगमध्ये पौष पूर्णिमायाः युगान्ते चाषाढपूर्णिमायाः क्षयोऽपि तत्राभ्यनुज्ञातः । न च तेषु तत्क्षयनिमित्ता काचन आराधनाव्यवस्था कृता दृश्यते । भवितव्यमेव तदर्थं 'क्षये पूर्वा तिथिः कार्या' इत्येतेन अन्येन वा तादृशार्थप्रतिपादनपरेण शास्त्रेण । तदेव शास्त्रमनुस्मृत्योमास्वातिभिरुद्घोषितं भवेत् 'क्षये पूर्वा तिथिः कार्येति । एवं स्थिते आचार्यश्रीसागरानन्दसूरिभिः क्रियमाणा व्याख्या शास्त्रैरननुमता न्यायविरुद्धा चेति न सा प्रमाणं भवितुमर्हतीति निःशङ्कमभिप्रेमः ।
अथ वृद्धौ कार्या तथोत्तरा' इत्युत्तरचरणस्याचार्यश्रीसागरानन्दसूरिभिरभिमताया व्याख्याया विमर्शावसरः । अयं तेषामभिप्रायः-जैनटिप्पणके तावत् पर्वतिथीनां वृद्धिरेव न भवतीति 'वृद्धौ कार्या तथोत्तरा' इत्युमास्वातिवचःप्रघोषत्वेन प्रसिद्धः श्लोकपादो लौकिकटिप्पणानुसारेण प्राप्तानां पर्वतिथीनां वृद्धि विषयेऽनुपयुक्त एव । अस्य श्लोकपादश्य प्रामाण्यं प्रत्येव नः संशयः । अतः 'क्षये पूर्वा तिथिः कार्या' इत्येतदेव शास्त्रमतिदेशेने लौकिकटिप्पणानुसारेण प्राप्तानां पर्वतिथीनां वृद्धिविषयेऽपि विनियोज्यम् । एवं सति 'क्षये पूर्वा तिथिः कार्या' इत्यस्य शास्त्रस्यातिदेशवाक्यत्वादयमर्थः संपद्यते । स यथा-पर्वतिथेः क्षये ( वृद्धौ च) पूर्वस्याः अर्थात् पूर्वतिथेः पर्वतिथ्योर्वा पूर्वस्याः अपर्वतिथेः क्षयः (वृद्धिश्च ) कार्यः (कार्या)। एवं च पर्वतिथेश्चतुर्दश्या वृद्धौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org