________________
...सपाही यर्याने मन्ते पावसा पाश्रीना निर्णय ]
૨૩૭ १. लौकिकटिप्पणानुसारेण प्राप्तायाः पर्वतिथेः क्षये पूर्वस्या अपर्वतिथेः क्षयः कार्यः । २. लौकिकटिप्पणानुसारेण प्राप्तायाः पर्वतिथेवृद्धौ पूर्वस्या अपर्वतिथेवृद्धिः कार्या ।
३. पर्वानन्तरपर्वतिथीनां ( चतुर्दश्या भाद्रशुक्लचतुर्थ्याश्च पर्वतिथित्वात् तदनन्तरवर्तिन्याः पर्वतिथेः पूर्णिमाया अमावास्याया भाद्रशुक्लपञ्चम्याश्च ) क्षये वृद्धौ वा ( प्रथमपर्वतिथिपूर्ववर्तिन्याः ) पूर्वतरवर्तिन्या अपर्वतिथेः (त्रयोदश्या भाद्रशुक्लतृतीयायाश्च) वृद्धिः क्षयो वा कर्तव्यः ।
४. अपि आचार्यश्रीसागरानन्दसूरिभिरेवं मन्यते यद् देवसूरतपागच्छीयानामेतादृशी सामाचारी जीतव्यवहारसिद्धा शताब्दीत्रयं यावदविच्छिन्नपरंपरया आचीर्णेति ।
एतद्विषयेऽस्माकं निर्णयस्त्वेवम्
१. आचार्यश्रीसागरानन्दसूरिभिरुमास्वातिवच प्रघोषस्य योऽर्थः प्रदर्शितः स वाक्यार्थनिर्णयन्यायकलापेन सह विरोधादग्राह्यः ।।
२. एतादृशार्थप्रदर्शनार्थमुपन्यस्तानि कारणानि नास्माकं बुद्धि प्रामाणिकत्वेनाधिरोहन्ति ।
३. एतादृशार्थसमर्थने यानि तैः शास्त्राण्युपन्यस्तानि तेषां प्रामाण्यमेव वयं न सहामहे, यश्च तेषां तत्प्रतिपादितोऽर्थः सोऽप्ययुक्तः।। __४. देवसूरतपागच्छीयानामियं सामाचारीति जीतव्यवहारबलादयमर्थः सिध्यतीति यत्तैरुच्यते, तस्याः सामाचार्या जीतव्यवहारत्वमेव न सिध्यतीति नो मतम् । ___ उभयेऽप्याचार्या आराधनार्थमौदयिकीमेव तिथिमभ्युपगच्छन्ति शास्त्रप्रामाण्यात् । तच्च शास्त्रमेवंविधं श्राद्धविधिप्रकरणस्थम्-'तिथिश्च प्रातः प्रत्याख्यानबेलायां यः (या) स्यात्सा प्रमाणम्' इति । प्रत्याख्यानवेला च सूर्योदयसमयः । एतादृशी सूर्योदयस्पर्शिन्येव तिथिरौदयिकीत्युच्यते, सैव सर्वेणापि श्रीजैनसंघेनाराधनार्थमपेक्ष्यते । अथ लौकिकटिप्पणे यदा काचित्तिथिः क्षीणेति निदिश्यते, तदा तस्याः सूर्योदयस्पर्शित्वमेव नास्ति, तदभावाच्चौदयिकीत्वासंभवः । न च क्षीणतिथिगतमाराधनं क्षीयते । कथं नाम तादृशी क्षीणा तिथिरौदयिकी स्यादिति विचार्यमाणे मीमांसकप्रणालिकामनुसृत्य
'विधिरत्यन्तमप्राप्ते' इत्यपूर्वविधिविधायकेन 'क्षये पूर्वा तिथिः कार्या' शास्त्रेण क्षीणा अष्टम्यादितिथिः पूर्वस्यां सप्तम्यादौ विधीयते, अन्यथा औदयिकतिथेरसंभवादाराधनाविनाशदोषः श्राद्धं संस्पृशेदिति । तत्रानेनापूर्वविधिविधायकेन शास्त्रेण सप्तम्याः सप्तमीत्वं केवलमष्टम्याराधनानिमित्तमेव निराकृत्य तत्राएमीत्वं स्थाप्यते। एवं च लौकिकटिप्पणप्राप्ता औदयिकी सप्तमी अष्टम्याराधनाविषये औदयिक्येव अष्टमी भवति, तदैव तत्राष्टमीगतं तपआदिकमनुष्ठानं संभवतीत्यपूर्वविधिद्वारैव क्षये सति अष्टमीप्राप्तिः । एवमन्यत्र ।
वृद्धा नाम सा तिथिर्या द्विः सूर्योदयं स्पृशति । एवं सति औदयिक्योयोस्तिथ्योः संभवात्पक्षद्वयसंभवः, पक्षद्वयसंभवाञ्च कतरस्यामाराधना कार्येति संदेहश्चेतः समाकुलयति । तत्र मीमांसकप्रणालिकामनुसृत्य नियमविधेः प्रयोगः । नियमविधिस्तु सः यः पक्षद्वये सति संभवति,
'नियमः पाक्षिके सति' इत्येवमुक्तत्वात् । अत्र 'वृद्धौ कार्या तथोत्तरा' इति नियमविधिविधायक शास्त्रम् । तेन नियमविधिविधायकेन शास्त्रेण तिथिवृद्धावुत्तरस्यामेवौदयिकीत्वं नियम्यते । अनेन शास्त्रेण नियता उत्तरैव तिथिराराधनार्थमुपयोक्तव्येति प्राप्नोति । सोऽयं मीमांसकानां वाक्यार्थनिर्णयन्यायकलापमनुसृत्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org