________________
२३६
रेन दृष्टिो तिथिहिन भने पशिधन... इति श्राद्धविधिप्रकरणकारास्तपागच्छनायकीभूताः श्रीरत्नशेखरसूरयो त्रुवन्ति, आचार्यश्रीसागरानन्दसूरीणामपि यथाकथंचिदनुमताः। ताश्च प्रधानपर्वतिथीर्वजयित्वापि प्रतिसंवत्सरं सप्ततिसंख्याकाः संपद्यन्ते । तथा प्रतिपक्षं द्वितीया, पञ्चमी, एकादशी इति तिस्रस्तिथयः शुभदिनत्वात्पर्ववदाराधनीया इति शास्त्रम् । एवं स्थिते शास्त्रमिदमुद्दिश्य तिथीनां पर्वापर्वत्वेन प्रविभागः प्रायोऽनवस्थामेव जनयेन्मूलक्षयकारिणीम् । अतः पर्वापर्वतिथिविभागमनाश्रित्यैव यथाटिप्पणं तिथ्यादिनिर्णयो ग्राह्यः, वृद्धिक्षयविषये चास्मद्व्याख्यातेन पथा 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इति शास्त्रमनुसृत्य व्यवस्था कार्येत्येव समीचीनः पन्था इत्यभिप्रेमः ॥ विवादपदं सप्तमम् ।
तपागच्छीयशास्त्रानुसारेण पाक्षिकं प्रतिक्रमणं चतुर्दशीतिथिनियतमाराधनम् , तथा च सांवत्सरिकं प्रतिक्रमणं भाद्रशुक्लचतुर्थीनियतमाराधनमिति द्वे पवाराधने तिथिनियते इति नो निर्णयः । अन्यास्त्वाराधनास्तपोविशेषरूपा न तिथिनियताः, केनचिद्रुग्णत्वादिकारणेन अन्यास्वपि तिथिषु, पूर्व पश्चाद्वा, यथावलमाराधयितुं शक्या इति बहुशः शास्त्रेषु निर्दिष्टम् । तीर्थंकरकल्याणकादीन्यपि तिथिनियतानि भवन्ति । क्षीणासु कल्याणकतिथिषु पूर्वस्यामाराधनीयानि, वृद्धासूत्तरस्यां तिथौ, उत्तरासु च क्षीणासु औदयिकीत्वेन मुख्यासु तिथिष्वेव तानि संपादनीयानि ।
कल्पसूत्राद्यागमग्रन्थानुसारेण पूर्व सांवत्सरिकं प्रतिक्रमणं भाद्रशुक्लपञ्चम्यां नियतमासीत् । सा तिथिर्वर्षावासप्रारम्भदिवसादाषाढपूर्णिमाया अनन्तरं प्रायः सविंशतिरात्रे मासे गते प्राप्नोति । आषाढपूर्णिमायां च चातुर्मासिकं पाक्षिकं च प्रतिक्रमणमेकतन्त्रेणाराधनीयमभूत् । सांवत्सरिकप्रतिक्रमणानन्तरं वर्षावासस्य प्रायः सप्ततिरहोरात्राण्यवशिष्यन्ते, स च वर्षावासः कार्तिकपूर्णिमायां समाप्यत इति सैषा प्राचीना सरणिः ।
किं तु केनापि कारणेन सांवत्सरिकप्रतिक्रमणार्थ भाद्रशुक्लचतुर्थी निर्धारिताभूत्, तन्मूलकाश्च चातुर्मासिकपाक्षिकप्रतिक्रमणतिथयोऽपि परावर्तनं प्राप्य चतुर्दश्यां निश्चिताः । केषांचिन्मतेन पाक्षिकं प्रतिक्रमणं पुरापि चतुर्दशीनियतमेवासीत् । सांवत्सरिकप्रतिक्रमणदिनपरावर्तनव्यतिकरस्तु विस्तरेण युगप्रधानकालकाचार्यकथानकादवसेयः। संक्षेपस्त्वेवम्-युगप्रधानकालकाचार्याः कस्यचिद्राज्ञो विज्ञप्तिमनुरुध्य भाद्रशुक्लपञ्चम्यां नियतेनेन्द्रमहोत्सवेन सह विरोधं परिहर्तुकामाः आगमप्राप्तां सांवत्सरिकप्रतिक्रमणतिथि चतुर्थी समकामन्त । ततः प्रभृति सर्वोऽपि श्रीजैनसंघस्तपागच्छीयः सांवत्सरिकं प्रतिक्रमणं भाद्रशुक्लचतुर्थ्यामेवाराधयति । तन्मूलकं च कालकाचार्यकथानकेऽनिर्दिष्टमपि चातुर्मासिकप्रतिक्रमणतिथिपरावर्तनमित्यनुमीयते । ततः प्रभृति तपागच्छीयैः सर्वैरपि चातुर्मासिकं प्रतिक्रमणं आषाढशुक्लचतुर्दश्यां सांवत्सरिकं प्रतिक्रमणं च भाद्रशुक्लचतु
र्थ्यामाराध्यते । एवं च भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वमेव व्यपगतम् । तच्च प्रधानपर्वतिथित्वं भाद्रशुक्लचतुर्थी प्रतिष्ठितम् । एवं च भाद्रशुक्लपञ्चम्याः पर्वानन्तरपर्वतिथित्वमपि व्यपगतम् । 'बीआ पंचमि अट्ठमि' इति शास्त्रानुसारेण सामान्यशुभतिथित्वमेव तस्या अवशिष्टम् । अतस्तद्वृद्धिक्षयमधिकृत्याचार्यश्रीसागरानन्दसूरिभिरभिमतं तृतीयावृद्धिक्षयरूपं परावर्तनमनावश्यकमेव नः प्रतिभाति ॥ विवादपदमष्टमम् । ___ उमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इति तिथिवृद्धिक्षयव्यवस्थाप्रतिपादकस्य शास्त्रस्य आचार्यश्रीसागरानन्दसूरिभिर्योऽर्थोऽभिप्रेतः, स इदानीं परीक्ष्यते । आचार्यश्रीसागरानन्दसूरयस्त्वेवं मन्यन्ते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org