________________
...લવાદી ચર્ચાને અન્તે આવેલા લવાદશ્રીના નિર્ણય ]
क्रमणादिकं चतुर्दश्याराधनं द्वितीयचतुर्दश्यां कार्यम् । पूर्णिमामावास्ययोर्वृद्धौ तद्गतमाराधनादिकं द्वितीय पूर्णिमादिनेद्वितीयामावास्यादिने चानुष्ठेयम् । भाद्रशुक्लचतुर्थ्यां वृद्धायां सांवत्सरिकं प्रतिक्रमणं द्वितीयचतुर्थीदिने कर्तव्यमित्यर्थः ।
।
जानीमः खलु यत्पूर्णिमामावास्ययोः क्षये उमास्वातिवचः प्रघोषस्य पूर्वोक्तार्थविनियोगे भवन्त्येव विप्रतिपत्तयः केषांचिन्मतेन । ताश्चैवम् - पूर्णिमामावास्ययोः क्षये तदनुष्ठानं पूर्वोक्तनियमानुसारेण चतुर्दश्यां प्राप्नोति । सा तु चतुर्दशी पाक्षिकप्रतिक्रमणेन व्यापृतेति 'क्षये पूर्वा तिथिः कार्या ' इति वचनानुसारेण पूर्णिमामावास्ययोराराधना चतुर्दश्यां क्रियते चेत्तदा चतुर्दशीविलोपप्रसक्तिः विलोपप्रसक्तौ च चतुर्दश्यां नियतं पाक्षिकानुष्ठानं कथमनुष्ठेयमिति बहवः शास्त्रकाराः संदेहदोलामारूढाः, तदनुसारिणश्चाचार्यश्री सागरानन्दसूरिप्रभृतयः । हीरप्रश्ने त्वत्र या व्यवस्था सूच्यते सैव नः समीचीना प्रतिभाति । सा च व्यवस्था यथा- पूर्णिमामावास्ययोराराधना न पाक्षिकवत्तिथिनियता, किंतु अभिग्रहादिरूपा । अभिग्रहादीनामाराधनं तिथिनियतं नास्तीति पूर्वं पश्चाद्वानुठातुं शक्यम् । इदमेवाभिप्रेत्य हीरप्रश्ने 'पूर्णिमायां क्षीणायां तत्तपः कथं कार्यम्' इति पृच्छायां 'त्रयोदशीचतुर्दश्योः, विस्मृतौ तु प्रतिपद्यपि ' इत्युक्तम् । पाक्षिकं प्रतिक्रमणं तु चतुर्दशीनियतमिति चतुर्दश्यामेव तदनुष्ठेयम् । पूर्णिमामावास्ययोस्तु तपः प्रायोऽभिग्रहरूपमिति तस्य पूर्वं पश्चाद्वानुष्ठाने न कोऽपि दोषः । पाक्षिकेणाविरोधे तु चतुर्दश्यामपि तत्कर्तुं शक्यत इति सूचनार्थमेव मन्यामहे ' त्रयोदशीचतुर्दश्योः' इत्यत्र चतुर्दशीनिर्देशः । यथा पाक्षिकं प्रतिक्रमणं चतुर्दशीनियतम् एवं सांवत्सरिकं प्रतिक्रमणं भाद्रशुक्लचतुर्थ्या नियतमिति तिथिनियतमेव तदनुष्ठानम् । यत्सत्यं युगप्रधानेभ्यःश्रीकालकाचार्येभ्यः प्राक् तदनुष्ठानं भाद्रशुक्लपञ्चम्यामेव सर्वैरैक्रियत, तथापि कस्यचिद्राज्ञोऽनुरोधात्पञ्चमीनियतेन्द्रमहविरोधपरिहारार्थमेव तैः सांवत्सरिकं प्रतिक्रमणं चतुर्थ्यां स्थापितम् । तत्प्रभृति भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वं व्यपगतमेवेति सामान्यशुभतिथित्वेनैव तस्या आराधनमिदानीं करणीयम् ।
9
૨૩૫
जानीमश्च खलु यथा आचार्यश्री सागरानन्दसूरयः उमास्वातिवचः प्रघोषमन्यथा व्याख्यासिषुः । यथा च तेषां व्याख्यानं व्याख्यानाभासं वाक्यार्थनिर्णयन्यायकलापैरनुपबृंहितं शास्त्रविरुद्धं च, तथा अधस्तादष्टम विवादपदप्रपञ्चावसरे विस्तरेण प्रदर्शयिष्यामः । उपरिनिर्दिष्ट एव तस्यार्थः शास्त्रसिद्धः, समीचीनः, शास्त्रपारंपर्याविरुद्धो वाक्यार्थनिर्णयन्यायकलापैश्चोपबृंहित इत्येवात्र पुनः पुननिर्दिशामः ॥
विवादपदं पष्ठम् ।
उमास्वातिवचः प्रघोषत्वेन प्रसिद्धः श्लोकार्धी यथास्माभिर्व्याख्यातस्तथैव तां व्याख्यामनुसृत्यैव सर्वास्वपि पर्वापर्वतिथिषु क्षीणासु वृद्धासु वा अविशेषेण विनियोक्तव्य इति षष्ठं विवादपदमुद्दिश्य नो निर्णयः । नास्माभिः क्वचिदपि तपागच्छीयशास्त्रेष्वन्यत्र वा शास्त्रमेतदुद्दिश्य तिथीनां पर्वापर्वत्वेन विभागो दृष्टः । टिप्पणमनुसरमाणाः सर्वेऽपि जना यथाटिप्पणमेव सर्वास्तिथीराराधनायामविशेषेण स्वीकुर्वाणा दृश्यन्ते । नापि दृष्टपूर्वं न वा आचार्यश्रीसागरानन्दसूरिभिः प्रमाणत्वेनोपस्तं किमपि शास्त्रं यद्वशातिथीनां पर्वापर्वत्वेन विमागः शक्यः कर्तुमुमास्वातिवचः प्रघोषश्च अपर्व तिथिविषयक इत्येवं नियमयितुम् । प्रकरणाच्चेदयं प्रविभागस्तिथीनां प्राप्नोतीति चेदाचार्यश्री सागरानन्दसूरयो मन्यन्ते, तदा प्रकरणं नामातीव दुर्बलं प्रमाणं वाक्यार्थनिर्णये इति ब्रूमः । अनवस्था चैवं स्यात् । यतः प्रतिपक्षमष्ठमी, चतुर्दशी, पूर्णिमा, अमावास्या चेति प्रतिमासं पडागमनिर्दिष्टा प्रधानाः पर्वतिथयो भवन्ति । तथा तीर्थंकरकल्याणकतिथयोऽपि पर्वतिथित्वेन विज्ञेया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org