________________
[ जैन दृष्टियो तिथिहिन ने पर्वाशधन... सूर्यप्रज्ञप्त्यादिष्वागमेषु न तादृशं शास्त्रमुपलभ्यते तथाप्यागमबाह्येषु बहुषु ग्रन्थेषु वाचकमुख्योमास्वातिवचःप्रघोषत्वेन प्रसिद्धं प्रामाणिकैस्तपागच्छीयैर्ग्रन्थकारैर्बहुशः समुद्धृतं
" क्षये पूर्वा तिथिः कार्या (ग्राह्या) वृद्धौ कार्या (ग्राह्या) तथोत्तरा "
इति श्लोकपादद्वयमेवात्र विधायकं नियामकं च शास्त्रमिति शास्त्रकाराः समामनन्ति । यद्यपि कार्धमिदमद्य प्रसिद्धेषूमास्वातिग्रन्थेषु नैव क्वापि दृश्यते, तथापि बहुशः पारंपर्येण तस्योमास्वातिवचः प्रघोषत्वेन निर्देशान्नैव तस्याप्रामाण्यमुत्प्रेक्षितुमपि शक्यते । अस्मिश्च श्लोका तिथीनां वृद्धिक्षययोरेव साक्षान्निर्देशः । अतिदेशवाक्यार्थत्वात्वस्य श्लोकार्थस्याधिकमासविषये ऽप्युपयोगः कर्तुं शक्यः । कृतश्चैवंविधो विनियोगो महोपाध्याय श्रीधर्मसागरैः स्वीये ग्रन्थे । अस्मिंस्तु शास्त्रे तिथिवृद्धिनिर्देश एवं ज्ञापयति यदुमास्वातिसमयेऽपि समुपलभ्यमानेषु टिप्पणेषु तिथीनां वृद्धिर्विज्ञातासीत् । तदेवमुमास्वातिवचः प्रघोषत्वेन प्रसिद्धमिदं तिथिक्षयवृद्धिविधिनियामकं शास्त्रं प्रमाणमिति सर्वेणापि श्रीजैनसंघेनाभ्युपगन्तव्यमस्यैव च विनियोगेन तिथिक्षयवृद्धिनिर्णयः कार्य इति निर्णीयतेऽस्माभिः ।
૨૩૪
आचार्यश्री सागरानन्दसूरयः 'आगमोद्धारक' इति यथार्थं बिरुदं धारयन्तो विख्याताः । अन्येवपि शास्त्रेषु वैदुष्यमेषां पण्डितप्रकाण्डानपि विस्मापयति । शास्त्रप्रमाणकाः पारंपर्यप्रमाणकाश्चैते । तथाप्यस्मत्कृतायां मौखिकपरीक्षायां यदेतैः “ यद्यपि क्षये पूर्वा तिथिः कार्येति प्रथमस्य श्लोकचरणस्य प्रामाण्यमस्माभिरभ्युपगम्यते, तथापि जैनटिप्पणके तिथीनां वृद्धिरेव नास्तीति वृद्धौ कार्या तथोत्तरा इत्यस्योत्तरचरणस्य प्रामाण्यं प्रत्येव नः संशयः" इत्युक्तं तन्नो महान्तं विस्मयं जनयति । यदि सिद्धान्तटिप्पणकमद्य यावत् प्रसृतप्रचारमभविष्यत्तदैषामेतन्मतं विचारसहमभविष्यत् । सिद्धान्तटिप्पणोच्छेदाच्च लौकिक टिप्पणस्वीकाराच्चाधुनातनैनैं तेषामेतन्मतं वयं सहामहे । तस्मात् " क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा "
इत्युभयोरपि चरणयोस्तपागच्छीयैरन्यैरपि शास्त्रकारैर्भूयो भूयो निर्देशादेकादश्याः शताब्द्याः प्रभृति शास्त्रत्वेनाभ्युपगमादागमैः सहाविरोधाद् बहुभिरनुमतत्वाच्च जीतव्यवहारसिद्धमेव प्रामायम् । सिद्धान्तटिप्पणोच्छेदः लौकिक टिप्पणस्वीकारश्चात्र कारणमिति शास्त्रमेवैतदिति निश्चयः । अथास्य शास्त्रस्य कोऽर्थः कथं च तच्छास्त्रं तिथीनां वृद्धिक्षयविषये विनियुज्यते इति किंचिदिवेह विमृश्यते । विस्तरस्त्वन्यत्राष्टमविवादपदविमर्शे भूयो भविष्यति । मीमांसादिशास्त्रका - रैर्वाक्यार्थनिर्णये ये न्यायकलापा उपयुज्यन्ते तानाश्रित्य प्रथमचरणस्यैवमर्थः संजायते । स यथाक्षये पूर्वा तिथिः कार्येति । टिप्पणके कस्याश्चित्तिथेः क्षये दृष्टे सति तत्स्थाने पूर्वा तिथिः कार्या । क्षीणतिथिविषयकमाराधनादिकं पूर्वस्यां तिथौ कार्यमित्यर्थः । अस्य चरणस्य विनियोगस्त्वेवम्यद्यष्टमी तिथिः क्षीणा भवति तदा तद्विषयकं तपआदिकं क्रियाजातं लौकिक टिप्पणागतायां पूर्वस्यां सप्तम्यां तिथौ कर्तव्यम् । एवं यदि चतुर्दशी क्षीयते तदा तदाराधनं पाक्षिकं प्रतिक्रमणं लौकिकटिप्पणागतायां पूर्वस्यां तिथौ त्रयोदश्यां कार्यम् । पुर्णिमायाममावास्यायां वा क्षीणायां त
तं तप आदिकं पाक्षिकप्रतिक्रमणेन सहाविरोधश्चेत्तदा लौकिकटिप्पणागतायां चतुर्दश्यामनुष्ठेयम् । भाद्रशुक्लचतुर्थ्यां क्षीणायां सांवत्सरिकं प्रतिक्रमणं लौकिकटिप्पणानुसारेण प्राप्तायां पूर्वस्यां तिथौ तृतीयायां कार्यम् । द्वितीयचरणस्य 'वृद्धौ कार्या तथोत्तरा' इत्यस्यार्थस्त्वेवम्-टिप्पणके कस्याश्चित् तिथेर्वृद्ध दृष्टायां उत्तरा द्वितीया तिथिः कार्या । वृद्धतिथिविषयकमाराधनादिकं द्वितीयतिथौ कार्यमित्यर्थः । अस्य चरणस्य विनियोगस्त्वेवम्-यदा अष्टमी तिथिवृद्धा भवति, तदा तद्गतं तपआदिकं लौकिकटिप्पणानुसारेण प्राप्तायां द्वितीयाष्टम्यामनुष्ठेयम् । यदा चतुर्दशी वर्धते तदा पाक्षिकप्रति -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org