________________
...सपाही याने मन्ते आवेदो सवाश्रीना नि[य]
[२33 विवादपदं चतुर्थम् । ____ अतीतानां बहूनां संवत्सराणां चण्डांशुचण्डुपञ्चाङ्गपुस्तकानि समुपलब्धान्यस्माभिः परीक्षितानि । तत्र प्रायः प्रतिसंवत्सरमुपदशाः क्षीणास्तिथयः पञ्चषाश्च वृद्धास्तिथयः, तथा पौषाषाढौ वर्जयित्वान्येऽप्यधिकमासा दृश्यन्ते श्रावणभाद्रपदादयः। अतस्तेषां प्रामाणिकत्वमकामैरप्याचार्यश्रीसागरानन्दसूरिप्रभृतिभिस्तपागच्छीयैरवश्यमभ्युपगन्तव्यमिति तुरीयविवादपदविषयेऽस्माकं निर्णयः। श्रावणभाद्रपदादीनामधिकमासानां सिद्धान्तबाह्यानां प्रामाण्यं यथाचार्यश्रीसागरानन्दसूरिभिरभ्युपगतमेव तथा सिद्धान्तबाह्यानां तिथीनां क्षयाः, एवं सिद्धान्तबाह्यास्तिथीनां वृद्धयोऽपि तैरभ्युपगन्तव्या इत्यर्थः । केनापि तपागच्छीयश्रावकेण वैक्रमीय १९४५ तमस्य संवत्सरस्य पञ्चाङ्गं 'जैनधर्मनुं पञ्चाङ्ग' इति नाम्ना मुद्रितम् । तत्रापि तिथीनां वृद्धिक्षयौ दृश्यते इति सिद्धा तपागच्छीयानां वृद्धिक्षयाभ्युपगमपरंपरेत्यभिप्रेमः । नैषु केष्वपि पञ्चाङ्गपुस्तकेष्वागमनिर्दिष्टेन पथा तिथीनां क्षयो दृष्टः, दृष्टाश्च श्रावणादयोऽधिकमासा वृद्धयश्च । तदेवं स्थिते सिद्धान्तटिप्पणस्य व्युच्छेदात्परं लौकिकपञ्चाङ्गप्राप्तावेव वृद्धिक्षयौ यथास्थितावभ्युपगन्तव्यौ, अभ्युपगतौ च तौ यथायथं लौकिके लोकोत्तरे च विषये प्रयोक्तव्याविति समीचीनः पन्थाः । आचार्यश्रीसागरानन्दसूरयः आगमविरुद्धावपि श्रावणभाद्रपदी लोकोत्तरविषयेऽपि अधिकमासत्वेनाभ्युपयन्त्येव । तत्तस्मिन्नेव विषये वृद्धिक्षयानभ्युपगमस्तेषां कदाग्रह एव नः प्रतिभाति । श्रावणभाद्रपदादीनामागमविरुद्धानामधिकमासानां लोकिक इव लोकोत्तरेऽपि विषयेऽभ्युपगमात्पर्वतिथीनामेव केवलं वृद्धिक्षयानभ्युपगमाच्चाचार्यश्रीसागरानन्दसूरयोऽर्धजरतीयं न्यायमनुसरन्तीति यथार्थ एवायं प्रवादः ॥ विवादपदं पश्चमम् ।
सिद्धान्तटिप्पणकस्य व्युच्छेदानन्तरं श्रीजैनसंघेन लौकिकलोकोत्तरेषु व्यवहारेषु लौकिकं टिप्पणमेव समाहतमित्युक्तं निर्णीतं च पुरस्तात् । तस्मिन् हि लौकिके टिप्पणे सिद्धान्तटिप्पणेऽनुपलभ्यमानाः षडधिकानां तिथीनामनियतभावेन क्षयाः, तत्र सर्वथैवानुपलभ्यमानास्तिथीनां वृद्धयः, तथा पौषाषाढवर्जमन्येषां केषांचन श्रावणभाद्रपदादीनां मासानामधिकत्वमित्येते विशेषा दृश्यन्ते। सूर्यप्रज्ञप्त्याद्यागमग्रन्थेषु यद्यपि तिथीनां क्षयो निर्दिश्यते, सन्ति च प्रतियुगं पञ्चषाः क्षीणाः पर्वतिथयः, तथापि तत्र किं शास्त्रमाश्रित्य क्षीणानां तिथीनामाराधनायां निश्चयः कार्य इत्येतन्नियामकं किमपि शास्त्रं नैवोपलभ्यते । पौषाषाढौ तु वर्षावाससमयाद् बहिः स्थिताविति ताभ्यां प्रधानपर्वाराधनायां न कोऽपि विरोधः संभवति इत्येव प्रायस्तद्विषयकं किमपि शास्त्रं नैव प्रणीतं स्या दिति संभाव्यते ।
अथ प्रथमं तावत् को नाम तिथीनां क्षयः, का च वृद्धिः, तथा कोऽधिकमासा इति किंचिद्विचार्यते । तत्र तिथिमानं चन्द्रचारायत्तं क्वचिच्चतुष्पञ्चाशद्घटीपरिमाणं क्वचिच्च षट्षष्टिघटिकापरिमाणमपि भवति । अहोरात्रपरिमाणं सूर्यचारायत्तं प्रायः उपपष्टिघटिकामानं भवति । अतः इदं संभवति यत्कस्मिंश्चिदिने काचित् तिथिः सूर्योदयं नैव स्पृशति काचिच्च तिथिर्दिनद्वये सूर्योदयं स्पृशति । या च तिथिः सूर्योदयं नैव स्पृशति सा क्षीणा तिथिरुच्यते, या च द्विः सूर्योदयं स्पृशति सा व्युदयस्पर्शिनी वृद्धत्यभिधीयते । यस्मिंश्च चान्द्रमासे सूर्यो राश्यन्तरं न संक्रामति सोऽधिकमासः । तिथीनां क्षये वृद्धौ वा तथा मासस्य वृद्धौ आराधनायाः क्षयो वृद्धिश्च नैव भवतः । अतस्तिथिनिश्चयस्तिथिनिर्णयश्चावश्यको भवति ।
अथास्ति किंचिच्छास्त्रं यद् वृद्धिक्षयविषये तिथिनिर्णयाय नियुज्यते ? ओमिति ब्रूमः । यद्यपि
30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org