________________
૨૩૨
[ जैन दृष्टियो तिथिहिन ने पर्वाशधन...
नैव यथावदनुष्ठातुं शक्याः । एवं सति पञ्चदश्याः शताब्धाः प्रभृति शैवटिप्पणस्य वा अन्यस्य वा कस्यचित्सांप्रतिकस्य टिप्पणकस्य श्रीजैनसंघेन संप्रतिपत्तिः प्रमाणतः सिद्धा भवति । तस्मिष्टिष्पके तिथीनां वृद्धिक्षयों, पौपापाढवदन्येषां श्रावणादीनामधिकमासानां च प्राप्तिरासीत् । तदेव लौकिकलोकोत्तरेषु सर्ववपि व्यवहारेषु अविशेषेणोपयुक्तमासीत् । अधुनातनैर्जेनसंघीयैः तादृशस्य सांप्र तिकटिपणकस्य स्थाने योधपुरीयं चण्डांशुचण्डसंज्ञकं पञ्चाङ्गं स्वीकृतमिति जीतव्यवहारसिद्धमिदं ausiyariशकं पञ्चाङ्गं तन्निर्दिष्टवृद्धिक्षयादिप्रपञ्चसहितं लौकिकलोकोत्तरव्यवहारायाद्यत्वे प्रयुज्यते । तस्यैव वृद्धिक्षयादिप्रपञ्चसहितस्य प्रामाण्यं श्रीजैनसंघेनाभ्युपगन्तव्यमिति निर्णीयते ॥
उभयेऽप्याचार्या योधपुरीयस्य चण्डांशुचण्डपञ्चाङ्गस्य लोकव्यवहारविषये प्रामाण्यमभ्युपगच्छन्ति । आचार्यश्रीविजयरामचन्द्रसूरयो लोकोत्तरव्यवहारविषयेऽपि तस्य प्रामाण्यमभ्युपगच्छन्ति । आचार्यश्री सागरानन्दसूरयस्तु लोकोत्तरेषु विषयेषु तस्य प्रामाण्यं नैवाभ्युपयन्ति । पर्वतिथीनां वृयिविषये यच्छास्त्रैर्निर्णीयते यच्च देवसूरतपागच्छीयानां जीतव्यवहारसिद्धां सामाचारीमनुसरति देव मतं ग्राह्यमिति तेषामाग्रहः । स तु नास्माकं समीचीनः प्रतिभाति । सिद्धान्तटिप्पणस्याधुना व्युच्छेदात्तत्स्थाने श्रीजैनसंघेन लौकिकटिप्पणस्याभ्युपगमाच्च सिद्धान्तप्राप्तानां टिप्पणविशेषाणां व्यवहारेऽनवतार एव । प्रतिपन्नमेव खलु आचार्यश्री सागरानन्दसूरिभिर्यत्सिद्धान्तटिप्पणस्य पुनरुजीवनं पुनःप्रचारो वा नैव शक्यते, टिप्पणविरचनोपयोगिनां ग्रहनक्षत्रचाराणामधुना जैनागमेष्वदर्शनादिति । अपि च, आचार्यश्री सागरानन्दसूरयो लोकोत्तरविषयेऽपि लौकिकपञ्चाङ्गप्राप्तौ श्रावभाद्रपद अधिकमासत्वेनाभ्युपगच्छन्ति, तद्गतौ च तिथीनां वृद्धिक्षयावेव केवलं नाभ्युपगच्छ न्तीत्यर्धजरतीयमेतन्मन्यामहे वयम् ।
लौकिक टिप्पणप्राप्तानां तिथीनां वृद्धिक्षयविषये आगमानुसारिणी जीतव्यवहारसिद्धा चेति या व्यवस्था तैः प्रतिपाद्यते सा चैवम्
१. लौकिकपञ्चाङ्गे यदा पर्वतिथीनां क्षयो दृश्यते तदा पर्वतिथेः पूर्वस्या अपर्वतिथेः क्षयः कार्यः । २. लौकिकपञ्चाङ्गे यदा पर्वतिथीनां वृद्धिर्द्दश्यते तदा पर्वतिथेः पूर्वस्या अपर्वतिथेर्वृद्धिः कार्या । ३. लौकिकपञ्चाङ्गे यदा पर्वानन्तरायास्तिथेः ( पूर्णिमाया अमावास्याया भाद्रशुक्लपञ्चम्याश्च ) वृद्धिक्षय दृश्यते, तदा पर्वतिथित्वाच्चतुर्दश्या भाद्रशुक्लचतुर्थ्याश्च वृद्धिक्षया वकृत्वा पूर्वतरवर्तिन्यात्रयोदश्या भाद्रशुक्ल तृतीयाया एव वृद्धिक्षयौ कर्तव्यौ ।
अपरं चाचार्यश्री सागरानन्दसूरय एवं मन्यन्ते यद्देव सूरतपागच्छीयानामुपरिनिर्दिष्टैव सामाचारी शताब्दीत्रयं यावत् जीतव्यवहारसिद्धेति । तैः प्रतिपादिताया व्यवस्थायाः शास्त्रसिद्धत्वं जीतव्यवहारसिद्धत्वं च पुरस्ताद्विस्तरेण परीक्षिष्यामहे । इदं त्वत्रावश्यवक्तव्यं भवति यद्यदि आचार्यश्रीसागरानन्दसूरिभिः सिद्धान्तटिप्पणकस्य पुनरुद्धारः पुनःप्रचारश्चापेक्ष्यते, तदा तैः प्रथममाग मानुसारेण तद्विरचनं, समानतन्त्र सिद्धान्तानूरीकृत्य तत्रस्थत्रुटिपूरणं च कर्तव्यम् । तदनन्तरं श्रीजैनसंघेन अन्यधर्मीयपञ्चाङ्गपरित्यागपूर्वकं पुनरुद्धृतस्य जैनपञ्चाङ्गस्यैव स्वीकारः कर्तव्य इत्यत्र प्रयतितव्यम् । स्वीकृते च संघेन नूतने जैनटिप्पणे, तत्र पूर्णिमाममावास्यां च वर्जयित्वा कस्या अपि पर्वानन्तरतिथेर्बुद्धिझयाभावात् केवलं पूर्णिमामावास्यावृद्धिक्षयमुद्दिश्य कापि शास्त्रसिद्धा व्यवस्था प्रतिपादनीया । न च तैरीदृशं किमप्यनुष्टितम् । न वा वयमेतादृशस्य पथोऽनुसरणमनुमोदाम क्रियासांकर्यसंभवात् प्रत्यवायान्तरदर्शनभयात्तन्मूलकसंघभेदभयाच्च । आचार्यश्रीसागरानन्दसूरीणां यथार्थ वैदुष्याभिमानं बहु मन्यमानैरस्माभिर्नूतनागमपञ्चाङ्गसिद्धये कश्चित् श्रावण बहुप्रतिदि समुचितो युगारम्भदिवसो लभ्यते न वेति निश्चयार्थ समीक्षितानि सुबहून्युपलब्धानि पञ्चाङ्गानि, न च दृष्टः कोऽपि तादृशो युगारम्भदिवस इत्यपि वयमत्र निर्दिशामः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org