________________
...લવાદી ચર્ચાને અને આવેલા લવાદશીને નિર્ણય ]
૨૩૧
द्वितीयं विवादपदम् ।
प्रथमविवादपदनिर्णयेन सिद्धान्तटिप्पणकस्य व्युच्छेदोऽभ्युपगतः । अतो द्वितीयस्य विवादपदस्य निर्णयो यद्यपि नातीवापेक्ष्यते, तथापि तत्संबद्धमिदमिदानी किंचिदिव विविच्यते । तद्यथायद्यपि सिद्धान्तटिप्पणकं व्युच्छिन्नं तथापि तद्गतो यस्तिथिक्षयरूपो विषयः स समीक्षामर्हति । तत्र सिद्धान्तटिप्पणकेऽपि प्रतियुगं त्रिंशत्तिथयः प्रतिसंवत्सरं च पर तिथयो निधनमुपयान्तीत्युतमेव पुरस्तात् । तासु त्रिंशत्संख्याकासु तिथिषु षट् तिथयः पर्वतिथित्वेनाभ्युपगम्यन्ते । यद्याचार्यश्रीसागरान्दसूरीणां मतेन पर्वतिथीनां क्षय एव न भवति, तदा सिद्धान्तटिप्पणप्राप्तानां षण्णां तिथीनां क्षये सति किं शास्त्रमनुरुध्याराधना कृता भवेत् , किं पूर्वासामपर्वतिथीनां क्षयेणोतान्यथा इति ते प्रष्टव्याः । पौषपूर्णिमाषाढपूर्णिमाक्षये च तयोः पर्वानन्तरतिथित्वात्त्रयोदश्याः क्षयं कृत्वैव तयोराराधना तदानीं कृता आसीदिति चेत्तेषां मतं तदा किं शास्त्रं प्रमाणीकृत्य तैरेवमुच्यत इति ते प्रष्टव्याः। 'क्षये पूर्वा तिथिः कार्या' इत्येव तच्छास्त्रमिति चेत् कथमस्य लोकपादस्य ‘पर्वतिथीनां श्रये पूर्वासामपर्वतिथीनां क्षयः कार्यः' इत्येतादृशी व्याख्या शास्त्रेषु क्वापि न दृश्यते इति तैर्वक्तव्यम् । अस्माभिस्त्वेतादृशः श्लोकार्थः क्वापि न दृष्टः । तस्मादेव तादृश्या व्याख्यायाः क्वाप्यदर्शनादध्याहारादिभिर्वाक्यार्थनिर्णये दोषाच निर्मूलैवाचार्यश्रीसागरानन्दसूरिभिरभीप्सिता 'क्षये पूर्वा तिथिः कार्या ' इत्यस्य श्लोकपादस्य व्याख्येत्यवश्यमभ्युपगन्तव्यं भवति । एवं स्थिते सिद्धान्तटिप्पणकप्रचारकालेऽपि क्षीणानां तिथीनां व्यवस्थार्थमुमास्वातिवच प्रघोषत्वेन प्रसिद्धं 'क्षये पूर्वा तिथिः कार्या' इत्येच्छास्त्रमन्यादृशं वा एतदर्थप्रतिपादक शास्त्रमावश्यकमेव । तथा लौकिकटिप्पणागतानां क्षीणानां वृद्धानां च तिथीनां व्यवस्थार्थं 'क्षये पूर्वा तिथिः कार्या वृद्धी कार्या तथोत्तरा' इति पादद्वयात्मकं शास्त्रमावश्यकमेव । पादद्वयस्योमास्वातिकर्तृकत्वं च पारंपर्यसिद्धम् । सिद्धान्तटिप्पणोच्छेदानन्तरं तु लौकिकटिप्पणागतानां वृद्धानां क्षीणानां च तिथीनां व्यवस्थार्थ चरणद्वय स्याविशेषणोपयोगः कृतः स्यादिति अविच्छिन्नपरंपराप्राप्तस्य चरणद्वयस्यान्यतरस्य वा चरणस्य प्रामाण्यं शङ्कितुमपि नैव शक्यते । श्राद्धविधिप्रकरणम् , तत्त्वतरङ्गिणी, प्रवचनपरीक्षा इत्यादिग्रन्थेषु च तपागच्छीयनायकीभूतैराचार्यैरुभयोरपि प्रामाण्यमविशङ्क स्वीकृतमित्यपि नैव विस्मर्तव्यम् ॥ तृतीयं विवादपदम् । __ प्रथमविवादपदमीमांसायां निर्णीतमेवेदं यत्सिद्धान्तटिप्पणं वैक्रमीयायां द्वादश्यां शताब्द्यां ततो वा प्रागेव व्युच्छिन्नमासीत् । व्युच्छिन्नेऽपि सिद्धान्तटिप्पणे लौकिकलोकोत्तरव्यवहारसंपादनार्थं टिप्पणव्यवहारस्त्वावश्यक एव भवति । एवं सति कस्याप्यन्यस्य टिप्पणस्य श्रीजैनसंघे प्रचार आसीदेवेत्यभ्युपगन्तव्यमेवास्मामिः । कीदृशेन खलु तदा टिप्पणेन भवितव्यमिति विचार्यमाणे यद्भारतवर्षीयैरन्यधर्मानुयायिभिरुपयुक्तं स्यात्तस्यैव टिप्पणस्य समानतन्त्रसिद्धान्तरूपत्वाद् व्यवहारः संभवति । वेदधर्मानुयायिभिर्यदेवाभ्युपगतं टिप्पणं तदेव प्रायो जनसंघेनाभ्युपगतं भवेत् यतो वेदागज्योतिषेऽपि पञ्चसंवत्सरमयमेव युगपरिमाणमासीत् । वैक्रमीय १४७३ तमे संवत्सरे विरचिते विचारामृतसारसंग्रहाख्ये ग्रन्थे तु पर्युषणापर्वादितिथयो लोकिकटिप्पणानुसारेण प्राप्ता एव ग्राह्या भवन्तीति निर्देशो दृश्यते । तथा सिद्धान्तटिप्पणव्युच्छेदानन्तरं संप्रतिटिप्पणकप्रवृत्तिस्तदनुसारेण च दीक्षाप्रतिष्ठादीनामाराधनं कार्यमिति प्रोक्तम् । तच्च संप्रतिटिप्पणकं (सांप्रतिकं टिप्पणक) शैवटिप्पणकमिति नामग्राहं निर्दिश्यते । तट्टिप्पणानुसारेण प्राप्ताः श्रावणभाद्रपदादयोऽधिकमासा अपि स्वीकृताः । तदेवं वैक्रमीय १४७३ तमात् संवत्सरात्प्रभृति पर्युपणापर्वदीक्षाप्रतिष्ठादिषूपयुक्तास्तिथयः तथा अधिकमासादयश्च संप्रतिटिप्पणानुसारेणैव प्रवृत्ताः । लौकिकटिप्पणं विना दीक्षाप्रतिष्ठादयोऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org