________________
[ जैन दृष्टियो तिथिहिन ने पवशधन... तपागच्छीयैरुमास्वातिवचः प्रघोषस्य सर्वथा प्रामाण्यं स्वीकृत्य तिथिनिश्चयः कृतः । युगप्रधानकालकाचार्यैः परिवर्तितां सांवत्सरिकप्रतिक्रमणस्य तिथि तथा च तन्मूलकां चातुर्मासिकप्रतिक्रमणस्य तिथिं वर्जयित्वा तपागच्छीयानां न किमपि परिवर्तनमभिमतमासीत् । तपागच्छीयैराचार्यैर्येषु ग्रन्थेषु तिथिविचारः कृतस्तेषु सर्वेष्वपि ग्रन्थेषु सिद्धान्तटिप्पणकस्य व्युच्छेदोऽभ्युपगतः उमास्वातिवचः प्रघोषश्च प्रामाणिकत्वेन स्वीकृतः । ते चेमे ग्रन्थाः
१. तपागच्छनायकाचार्यश्रीरत्नशेखरसूरिविरचितं स्वोपशटीकासहितं श्राद्धविधिप्रकरणम् । इदं प्रकरणं वैक्रमीय १५०५ तमे संवत्सरे विरचितम् । प्रकरणस्यान्ते—
२३०
विधिवैविध्याच्छ्रुतगतनैयत्यादर्शनाच्च यत्किचित् ।
अत्रोत्सूत्रमसूत्र्यत तन्मिथ्यादुष्कृतं मेऽस्तु ॥
इत्यत्र ग्रन्थकारसमये विधीनां वैविध्यं तथा आगमग्रन्थेषु निश्चितस्य कस्यापि मतस्यादर्शनं सूच्यते । अस्मिन् ग्रन्थे १५२ तमे पत्रे तिथिनिर्णयो दृश्यते 'तिथिश्च प्रत्याख्यानवेलायां यः स्यात् ' इत्यारभ्य । अन्ते चोमास्वातिवचः प्रघोषो निर्दिष्टः । व्याख्या तु तस्य प्रघोषस्य नैव प्रदत्ता ।
२. तपागच्छीयमहोपाध्यायश्रीधर्म सागरविरचिता स्वोपज्ञटीकासहिता तत्त्वतरङ्गिणी । इयं वैक्रमीय १६१५ तमे वत्सरे विरचितेति ग्रन्थान्ते निर्देशः । एतैरेव महोपाध्यायश्रीधर्मसागरैः प्रवचनपरीक्षा नाम ग्रन्थो विरचितः । एतयोर्द्वयोरपि ग्रन्थयोर्विशेषतस्तत्त्वतरङ्गिण्यां विस्तरेण तिथिचर्चा कृता दृश्यते । तत्र
' तिहिवार पुव्वतिही अहिआए उत्तरा य गहियव्वा ' इतीमां वाचोयुक्तिमाश्रित्योमा स्वातिवचः प्रघोषस्यैव प्राकृतभाषया अनुवादः । चतुर्दश्याः क्षये पाक्षिकं प्रतिक्रमणं त्रयोदश्यामेव कर्तव्यं न पूर्णिमायामित्युक्तम् । तिथिवृद्धिमुद्दिश्य संपुण्ण त्ति अकाउं बुड्ढी घई न पुव्यतिही । जं जा जंमि हु दिवसे समप्पई सा पमाणं ति ||
इत्युक्तम् । मासवृद्धिमुद्दिश्य च
मासस्स वि विड्ढीए पढमो मासो पमाण नो भणिओ । लोउत्तरं मि लोइयपमि न पहू नपुंसति ॥
इत्यत्र लौकिके इव लोकोत्तरे विषये अधिकमासस्य वृद्धतिथेश्वाप्रभुत्वं नपुंसकत्वमकिंचित्करत्वमुपदिष्टम् । महोपाध्यायधर्मसागरास्तु खरतराचार्यश्री जिनप्रभविरचितां विधि (मार्ग) प्रपां नामग्राहं निर्दिशन्ति, उल्लिखन्ति च मुद्रितपुस्तकस्थं ११८ तथा ११९ तमे पत्रे दत्तं पाठम् ।
अनेनैव ग्रन्थकारेण ' उत्सूत्रोद्घट्टनकुलकम् ' इति ग्रन्थो विरचितः । तत्खण्डनपरः उत्सूत्र खण्डनम् नाम ग्रन्थः खरतराचार्यश्रीगुणविनयेन वैक्रमीय १६६५ तमे वत्सरे विरचितः ।
खरतराचार्यश्रीजिनप्रभसूरिभिः वैक्रमीय १३६३ तमे संवत्सरे विरचितः विधिमार्गप्रपा नाम ग्रन्थोऽपि सिद्धान्तटिप्पणोच्छेदविषये विशिष्योल्लेखमर्हति । तिथ्यादिविषयकं प्रतिपादनं तु खरतरगच्छीयानां तपागच्छीयैनैवाभ्युपगम्यते ।
तदेवं समालोच्यमानेषु सर्वेषु ग्रन्थेषु विधिमार्गप्रपा विरचनात्प्रागेव सिद्धान्तटिप्पणकं व्युच्छि नमिति निर्णयः समापतति । ततोऽपि प्राक् शताब्दीद्वयं यावत्तस्य व्युच्छेदः समजनीत्यनुमीयते । एवं च प्रायः संवत्सराणां नव शतानि सिद्धान्तटिप्पणस्य लौकिकलोकोत्तरेषूभयेष्वपि विधिषु सर्वथा अनुपयोगः सिद्धः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org