________________
...सवादी ययान अन्ते आवेसो सवाश्रीन निर्णय ]
૨૨૯ स्तात् । तद्विषयकाः केचन विशेषा अवश्यमत्र निर्देष्टव्याः। प्रथमं तावद् भाद्रशुक्लपक्षे पञ्चस्वपि संवत्सरेषु कस्या अपि तिथेः क्षयो नास्त्येव । युगमध्ये तृतीयसंवत्सरे पौषपूर्णिमायास्तथा युगान्ते पञ्चमे संवत्सरे आषाढपूर्णिमायाः क्षयो नियतः । प्रथम संवत्सरे चैत्रकृष्णाष्टमी क्षीयते । द्वितीयसंवत्सरे आश्विनकृष्णस्य, तथा चतुर्थे संवत्सरे चैत्रबहुलपक्षे चतुर्दश्याः क्षयो भवति । सन्ति चान्या अपि क्षीणास्तिथयः, परं प्रस्तुते विवादे नात्यन्तं ता उपयुक्ता इति निर्देशस्तासामत्रोपेक्ष्यते । तदेवं सिद्धान्तटिप्पणकस्य विशेषाः प्रपञ्चिताः । ____ इदमिदानीं विचार्यते-आसीद्वा कदाचित् तिथिवारनक्षत्रयोगकरणेति पञ्चभिरङ्गैः परिपूर्ण सिद्धान्तटिप्पणं यल्लौकिकेन टिप्पणेन सह सर्वथा अन्ववादीत् ? आसीदेव तादृशं परिपूर्ण सिद्धान्तटिप्पण किंतु अद्यत्वे तद् व्युच्छिन्नमिति पारंपर्यम् । मध्यस्थेन च साग्रहं पृष्टैराचार्यश्रीसागरानन्दसूरिभिरपि प्रतिपन्नमेतद्यदधुना सूर्यप्रज्ञप्त्यादिग्रन्थाधारेणापि सिद्धान्तटिप्पणविरचनं नैव शक्यमिति । किमर्थमिति पुनः पृष्टाश्च ते एवमवदन् यथा चन्द्रसूर्यप्रज्ञप्त्यादिग्रन्थेषु केवलं चन्द्रसूर्यचारा उपवर्णिताः । नक्षत्रादिचारविषयका ग्रन्था जैनागमेष्वधुना नैवोपलभ्यन्त इति केवलं जैनसिद्धान्ताश्रयेण टिप्पणनिर्माणमशक्यमेवेति । अस्माकमप्येवं प्रतिभाति यदनेनैव कारणेन सिद्धान्तटिप्पणनिर्माणपरंपरा व्युच्छिन्नेति । व्युच्छिन्नायां च परंपरायां तादृशं टिप्पणमपि व्युच्छिन्नम् । व्युच्छिन्नस्यैतस्य न पुनः प्रचारः शक्यः । लोकव्यवहारसाधनार्थं तु टिप्पणमावश्यकं ततु लौकिकटिप्पणम् । सिद्धान्तटिप्पणव्युच्छेदानन्तरमिदमेव लौकिकं टिप्पणं श्रीजैनसंघेनापि समादृतं स्यात् । उभयेष्वपि लौकिकलोकोत्तरव्यवहारेषु तदेवोपयुक्तं भविष्यति । वाचकमुख्योमास्वातिसमयेऽपि तादृशस्य लौकिकपञ्चाङ्गस्य प्रचारो भवेदिति नो मतिः । श्रीजैनसंघेन समादृतं लौकिकं पञ्चाङ्गं तदेव स्याद्यद्वैदिकपरंपरया प्राप्तं यच्चाद्यतनत्वे ग्रहलाघवीयमिति प्रसिद्धं तेनैव सदृशं स्यादित्यनुमीयते । एतदेव वदिकपरंपराप्राप्त पञ्चाङ्ग श्रीजनसंघेन स्वीकृतम् । एतस्मिन् पञ्चाङ्ग प्रतिर त्सरमुपदशास्तिथयः क्षीणा दृश्यन्ते पञ्चषाश्च वृद्धाः । न केवलं पौषापाढौ किं त्वन्येऽपि बहवो मासाः श्रावणभाद्रपदादयः येऽधिकमासत्वेन प्राप्नुवन्ति । यत्प्रभृति चैतादृशं लौकिकपञ्चाङ्गं सर्वसंव्यवहारार्थं श्रीजैनसंघेन स्वीकृतम् , तत्प्रभृति क्षीणानां वृद्धानां च तिथीनामाराधनाया नियामकं तथाधिकमासप्राप्ती मासाद्याराधनानियामकं च किमपि शास्त्रं भवेदेव । यतस्तिथौ क्षीणायां तद्गतमाराधनं न क्षीयते नापि वृद्धायां वर्धते । तदर्थमेव च प्रायो वाचकमुख्यराचार्यामास्वातिभिः सक लजैनशाखोपशाखाभिमतग्रन्थरचनाधुरीणैः "क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्येवंप्रकारकं शास्त्रं संग्रथितमिति नो मतिः । तस्मात्प्रथमं विवादपदमुद्दिश्य अस्माकमेतादृशो निर्णयःसिद्धान्तटिप्पणापरपर्यायजैनटिप्पणस्य प्रायो वाचकमुख्योमास्वातिसमये एव व्युच्छेदः संजातः। सति संशये, वैक्रमीय ११५९. तमात्संवत्सरात्प्रागेव निश्चयेन सिद्धान्तटिप्पणकं व्युच्छिन्नमासीत् । तन्मूलका एव प्रायः श्रीश्वेताम्बरजैनसंघे गच्छभेदाः संजाताः येषु पूर्णिमागच्छो वैक्रमीय ११५९ तमे संवत्सरे प्रादुर्भतः प्रथमं स्थानं लभते। खरतरगच्छीयप्रधानाचार्यः श्रीजिनप्रभसूरिभिर्वक्रमीय १३६३ तमे संवत्सरे विरचितायां विधिमार्गप्रपायां सिद्धान्तटिप्पणोच्छेदस्येदं प्रथमतया स्पष्टमेव निर्देशः कृतः समुपलभ्यते । तदुत्तरं सिद्धान्तटिप्पणोच्छेदं प्रति तु नैव काचित्संशीतिरस्मन्मनसीति निर्मायमभिप्रेमः ।
व्युच्छिन्ने च सिद्धान्तटिप्पणके चतुर्विधेनापि श्रीजैनसंघेन लौकिकटिप्पणस्य प्रामाण्यमभ्युपगत्य लौकिकलोकोत्तरक्रियाकलापो निष्पादितः। आसन् खलु तस्मिन् पञ्चाङ्गे उपदशाः क्षीणतिथयः पञ्चषाश्च वृद्धाः, यन्मूलकाः श्रीजैनसंघे बहवो विप्रतिपत्तयो विवादाः संघमेदाश्च समुदपद्यन्ते परिष्टादवोचाम । तिथिनिर्णयार्थ, विशेषतस्तिथिक्षयवृद्धिविमर्शमुद्दिश्य, प्रवृत्तेषु सर्वेष्वपि ग्रन्थेषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org