________________
२२८
[रेन दृष्टिय तिथिहिन भने पाराधन... प्रथमं विवादपदम् ।
तत्र प्रथमविवादपदविषयेऽयं नो निर्णयः, यथा अद्यत्वे तावत्सिद्धान्तटिप्पणस्य श्रीजैनसंधे सर्वथैव प्रचाराभावः । आसीत् खलु पुरा सिद्धान्तटिप्पणकस्य प्रचारः । तच्च टिप्पणकमाराधना विषये प्रयुक्तमपि स्यात् । किं तु वैक्रमीयचतुर्दश्याः शताब्द्याः प्रागेव तादृशं टिप्पणं व्युच्छिन्नमिति यथार्थ एवायं प्रवादः। कदाचित्ततोऽपि पूर्वं व्युच्छिन्नं भवेदिति नो मतिः । सिद्धान्तटिप्पणोच्छेदमूलका एव प्रायः सर्वेऽपि पूर्णिमाखरतराञ्चलप्रभृतयो गच्छभेदाः श्वेताम्बरजैनसंघस्येति नः प्रतिभाति । तत्र तपागच्छीयमहोपाध्यायश्रीधर्मसागरमतेन पूर्णिमागच्छो वैक्रमीयकालगणनया ११५९ तमे संवत्सरे प्रादुरभूदिति सिद्धान्तटिप्पणकस्य ततोऽपि प्राग्विच्छेदः समभूदित्यनुमीयते । एवं चातीतासु नवसु शताब्दीषु सिद्धान्तटिप्पणकस्य सर्वथा अनुपयोगः सिध्यति । ___ यत्सत्यं जैनीयशास्त्रग्रन्थेषु द्विविधस्य टिप्पणकस्योल्लेखा बहुषु स्थलेषु दृश्यन्ते । तत्रैक सिद्धान्तटिप्पणकं जैनटिप्पणकं वेति नाम्ना प्रसिद्धमासीत् । अन्यच्च लौकिकं टिप्पणमिति निर्दिश्यते । द्विविधस्यास्य टिप्पणकस्य प्रचारसमये कदाचित् सिद्धान्तटिप्पणकस्याराधनादिषूपयोगः लौकिकटिप्पणकस्य च लौकिकव्यवहारेषूपयोगः स्यादित्यप्यनुमीयते। ___अथ किं नाम सिद्धान्तटिप्पणकं कीदृशं च तदागमेषूपवर्णितमिति किंचिदिव विचार्यते । श्वेताम्बरश्रीजैनसंघपरिगृहीतेषु पञ्चचत्वारिंशत्परिमितेष्वागमग्रन्थेषु सूर्यप्रज्ञप्तिश्चन्द्रप्रज्ञप्तिश्चेत्युपाङ्गद्वयम् । तत्र सिद्धान्तटिप्पणोपयुक्ताश्चन्द्रचारसूर्यचारतिथियुगसंवत्सरावमरात्रातिरात्रादयः केचन विषयाः क्वचित्संक्षेपतो निर्दिष्टाः क्वचिच्च टीकाकारेण मलयगिरिणा टीकायां विस्तरतः प्रपञ्चिताः। तथा अङ्गबाह्येषु ज्योतिष्करण्डक-लोकप्रकाशादिषु ग्रन्थेष्वपि तादृशा विषया उपवर्णिताः । मलयगिरीया विस्तृता टीकापि चन्द्रप्राप्तिः, सूर्यप्राप्तिः, ज्योतिष्करण्डकः इत्येतेषु ग्रन्थेषूपलभ्यते । ज्योतिष्करण्डको नामाङ्गवाह्योऽपि प्राचीनो ग्रन्थः, यदुपरि पादलिप्ताचार्यः कापि टीका लिखितासीदिति मलयगिरीयटीकाया शायते । एतेषु ग्रन्थेषु ये केचन टिप्पणोपयोगिनो विषयाः प्रतिपादितास्तदनुसारेण सिद्धान्तटिप्पणकं नाम कीदृशमासीदिति किंचिदिवाधुना ज्ञातुं शक्यते । तद्यथा-सिद्धान्तटिप्पणके युगं नाम पञ्चसंवत्सरपरिमितः कालः । तत्र प्रतियुगं १८३० अहोरात्राणि, १८६० मिताश्च तिथयः । तत्र पञ्च संवत्सराः, षष्टिः सौरमासाः एकषष्टिः कर्ममासा द्वाषष्टिश्च चान्द्रमासाः । युगारम्भः श्रावणबहुलप्रतिपदि युगान्तस्त्वाषाढपूर्णिमायाम् । युगमध्ये सौरचान्द्रमासयोर्यथावत्समावेशार्थं द्वावधिकमासौ कल्प्येते, तौ च युगमध्ये पौषो युगान्ते चाषाढ इत्यनेनैव क्रमेण प्राप्नुतः। अन्यस्य कस्यचिन्मासस्याधिकत्वेन प्राप्तिरेव नास्ति सिद्धान्तटिप्पणे । अहोरात्राणां तिथीनां च युगमध्ये यथावत्समावेशार्थं प्रतियुगं त्रिंशत् तिथयः, प्रतिसंवत्सरं च पट तिथयः क्षीणा भवन्ति । एकषष्टितमायां तिथौ द्वाषष्टितमा निधनमुपयातीति द्वाषष्टितमा तिथिः क्षीणेति व्यपदिश्यते । ताश्च क्षीणास्तिथयोऽपि नियतेनैव क्रमेण प्राप्नुवन्ति । ___तत्र तिथिमानं चन्द्रचारेण निर्णीयते, अहोरात्रमान तु सूर्यचारायत्तम् । एवमनयोर्ग्रहयोश्चारमेदादहोरात्रमानं तिथिमानं चोभयमपि भिन्नं भवति । तदर्थमेव प्रतियुगं त्रिंशतस्तिथीनां १८३० अहोरात्रेषु समावेशार्थमेव क्षयः कल्प्यते । क्षयो नाम क्वापि दिने तिथेः सूर्योदयास्पर्शित्वं, न तु परमार्थतस्तिथेः क्षयः । लौकिकपञ्चाङ्गे तु क्षयवत्तिथीनां वृद्धिरपि दृश्यते । वृद्धा नाम सा तिथिर्या द्विः सूर्योदयं स्पृशति । सूर्यप्राप्तौ षण्णामतिरात्राणां निर्देशो दृश्यते, किंतु अतिरात्रः तिथिवृद्धिः इत्येतौ शब्दौ न पर्यायभूतावित्यपीहावश्यं वक्तव्यं भवति ।
सिद्धान्तटिप्पणके प्रतियुगं त्रिंशत् , प्रतिसंवत्सरं च षद तिथयः क्षीणा भवन्तीत्युक्तमेव पुर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org