________________
२२७
...सपा यान मन्ते पावसा सवाश्रीना निर्णय ] प्रश्नप्रतिवचनानां च यथावत्समालोचनेन पुरोनिर्दिष्टानि विवादपदानि संपरीक्षार्थं निर्णयार्थं च समुत्तिष्ठन्तीति मध्यस्थनिश्चयः । तानि यथा
प्रथमम्--अस्ति वा श्वेताम्बरमूर्तिपूजकजैनसंघेनानुमतं अद्य यावदागमपरंपराप्राप्तं सिद्धान्तटिप्पणापरपर्यायं जैनटिप्पणं यदव्युच्छिन्नपरंपरया संघेनोपयुज्यते ?
द्वितीयम्-अस्ति चेत्कथं तत्र सिद्धान्तटिप्पणप्राप्तानां क्षीणानां वा वृद्धानां वा तिथीनामागमानुसारेण निर्णयः क्रियते ? । ___ तृतीयम्-नास्ति चेत्सिद्धान्तटिप्पणस्याव्युच्छिन्नः प्रचारः, कीदृशं टिप्पणं पञ्चाङ्गं वा श्रीजैनसंघेनाधुना समुपयुज्यते ? -
तुरीयम्-सन्ति वा श्रीजैनसंघेन स्वीकृते टिप्पणे तिथीनां वृद्धयश्च क्षयाश्च अधिकमासाश्च ?
पञ्चमम्--यदि श्रीजैनसंघेन स्वीकृते टिप्पणे तिथीनां वृद्धिक्षयौ तथा अधिकमासाश्च विद्यन्ते, तदा कीदृशं शास्त्रमाश्रित्य तत्राराधनार्थं तिथ्यादिनिर्णयः क्रियते, कथं च तच्छास्त्रं व्याख्यायते व्यवहारे वा प्रयुज्यते ?
पष्टम् -किं तच्शास्त्रं केवलं साधारणतिथिविषये प्रयुज्यते उत पर्वतिथिविषयेऽपि?
सप्तमम्-सन्ति वा जैनागमानुसारेण तिथिनियताः काश्चिदाराधनाः यदर्थं तिथ्यादिनिर्णय आवश्यको भवति ? ___ अष्टमम्-आचार्यश्रीसागरानन्दसूरिभिरुमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य "क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्यस्य श्लोकार्धस्य योऽर्थोऽभिप्रेतः, सन्ति वा तदर्थसाधकानि शास्त्राणि, विद्यते वा समर्थो जीतव्यवहारः ?
नवमम् –“ क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्यस्य श्लोकार्धस्य जैनागमानुसारतो मध्यस्थेन योऽथों निश्चितः, तस्य स्वीकारे भवन्ति भविष्यन्ति वा काश्चन विप्रतिपत्तयः पर्वापर्वतिथिसंकरादयः, उत्पधेरन् वा आराधनासंकरादयः केचित् प्रायश्चित्तार्हा दोषाः ?
दशमम्-किमत्र निगमनं कश्चान्तिमो मध्यस्थनिर्णयः ? एषु दशसु विवादपदेषु मध्यस्थेनैवं निर्णीयते
प्रथमे नास्ति खलु अद्यत्वे सिद्धान्तटिप्पणस्य श्रीजैनसंधे प्रचारः । व्युच्छिन्नमेव तत् । . . . द्वितीये-नात्र विशिष्य उत्तरमावश्यकम् ।
तृतीये सकलेनापि श्रीजैनसंघेन योधपुरीयं चण्डांशुचण्डुपञ्चाङ्गमद्यत्वे लौकिकलोकोत्तरास्वाराधनादिषु प्रयुज्यते ।
तुरीये सन्त्येवात्र पञ्चाङ्गे तिथीनां वृद्धिक्षयौ अधिकमासाश्च । ___ पञ्चमे---वृद्धिक्षयनिर्णायकं शास्त्रं तु " क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवचःप्रघोषत्वेन प्रसिद्धः श्लोकार्थः। अस्यार्थश्च शास्त्रसिद्धप्रमाणानुसारेण मध्यस्थेन निश्चितः, स एव ग्राह्योऽर्थः। तमेवार्थमनुसृत्य वृद्धिक्षयनिर्णयः कर्तव्यः।
षष्ठे–नैव विद्यते जैनागमेषु जैनशास्त्रेषु च शास्त्रमिदमुद्दिश्य तिथीनां पर्वापर्वरूपो विभागः।
सप्तमे चतुर्दश्यां पाक्षिकं चातुर्मासिकं च प्रतिक्रमणं भाद्रशुक्लचतुर्थी च सांवत्सरिकं प्रतिक्रमणमित्याराधनाद्वयं तिथिनियतं दृश्यते।
अष्टमे—न शास्त्रप्रमाणैर्न वा जीतव्यवहारेण आचार्यश्रीसागरानन्दसूरिभिनिर्दिष्टोऽर्थः सिध्यति । नवमे--मध्यस्थनिर्णीतार्थस्वीकारे न काश्चन विप्रतिपत्तयोन वा प्रायश्चित्तार्हा दोषाःप्रादुर्भवन्ति । दशमे—अन्ते यथानिर्दिष्टं निगमनं निर्णयश्च । अथ प्रतिविवादपदमुपपत्तयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org